पूर्वम्: ६।१।१२५
अनन्तरम्: ६।१।१२७
 
सूत्रम्
ई३ चाक्रवर्मणस्य॥ ६।१।१२६
काशिका-वृत्तिः
ई३ चाक्रवर्मणस्य ६।१।१३०

ई३कारः प्लुतो ऽचि परतः चाक्रवर्मणस्य आचार्यस्य मतेन प्लुतवद् भवति। अस्तु हीत्यब्रूताम्, अस्तु ही३ इत्यब्रूताम्। चिनु हीदम्। चिनु ही३ इदम्। चाक्रवर्मणग्रहणम् विकल्पार्थम्, तदुपस्थिते निवृत्त्यर्थम् अनुपस्थिते प्राप्त्यर्थम् इत्युभयत्रविभाषा इयम्। ईकारादन्यत्र अप्ययम् अप्लुतवद्भाव इष्यते। वशा३ इयम् वशेयम्।
न्यासः
ई ३ चाक्रवर्मणस्य। , ६।१।१२६

"अचि परतः" इति। एतेन "उपस्थिते" इत्येतन्निवृत्तम्(); अस्वरितत्वादिति सूचयति। "अस्तु ही ३" इति। "असु क्षेपणे", (धा।पा।१२०९) लोट्(), सिप्()। "सेह्र्रपिच्च" ३।४।८७ इति सेहिः, व्यत्यनेन श्लुः। "क्षियाशीः-प्रैषेषु तिङाकाङ्क्षम्()" ८।२।१०४ इति प्लुतः। "तदुपस्थिते निवृत्त्यर्थम्()" इति। तत्र पूर्वेणाप्लुतवद्भावस्य नित्यं प्रापतत्वात्()। "अनुयस्थिते प्राप्त्यर्थम्()" इति। तत्र केनचिदप्राप्तत्वात्()। "ईकारात्()" इत्यादि। कथं पुनरिकारादन्यत्रापीष्यमाणोऽप्येषोऽप्लुतवदभावो लभ्यते? "इकोऽसवर्णे शाकल्यस्य ह्यस्वश्च" ६।१।१२३ इत्यतोऽनुवृत्तस्य चकारस्यानुक्तसमुच्चयार्थत्वात्()॥
बाल-मनोरमा
ई३चाक्रवर्मणस्य १००, ६।१।१२६

ई३चाक्र। ई३ इति प्लुतस्य लुप्तप्रथमाविभक्तिको निर्देशः। उपस्थित #इत्यस्वरितत्वान्निवृत्तम्। "अप्लुतव"दित्यनुवर्तते। "इको यणची"त्यतोऽचीत्यनुवर्तते। चाक्रवर्मणमुनेर्मते ईकारोऽचि परेऽप्लुतवद्भवति, नत्वन्यमत इत्यर्थः। तदाह-प्लुतोऽचीत्यादि। चिनु हि३ इदमिति। "किं मया कत्र्तव्य"मिति पृष्टस्यैदं प्रतिवचनम्। "चिन्वि"ति लोडन्तम्। "उतश्च प्रत्यया"दिति हेर्लुक्। "हीति त्वव्ययम्। "विभाषा पृष्टप्रतिवचने हेः" इति तस्य प्लुतः। चिन्वित्यतः प्राग् "देवदत्ते"त्यध्याहार्यम्। "इद"मिति तु वाक्यान्तरस्थं, नतु चिन्वित्येतेनैकवाक्यतामापन्नम्। अन्यथा "वाक्यस्य टे"रित्यधिकाराद्धिशब्दे इकारस्य प्लुतो न स्यात्। उभयत्रेति। इतिशब्दे परतो नित्यतया प्राप्ते, तदन्यत्राऽप्राप्ते चारम्भादुभयत्र विभाषेयमित्यर्थः। विभाषाशब्दस्त्वव्ययमिति न ब्रामतिव्यं, "न वेति विभाषाया"मिति भाष्यप्रयोगात्। विभाष्यते विकल्प्यत इति विभाषा। "गुरोश्च हल" इत्यप्रत्ययः। टाप्।

तत्त्व-बोधिनी
ई३चाक्रवर्मणस्य ८०, ६।१।१२६

चिनु हीति। "चि"न्विति लोडन्तम्। "ही"त्यव्ययम्। "अनन्त्यस्यापि प्रश्नाख्यानयोः" इत्यनेन प्लुतः। उभयत्रविभाषेयमिति। "इति" शब्दे परतः पूर्वेण प्राप्ते, अन्यत्राऽप्राप्ते चारम्भादिति भावः।