पूर्वम्: ६।१।१३२
अनन्तरम्: ६।१।१३४
 
सूत्रम्
समवाये च॥ ६।१।१३३
काशिका-वृत्तिः
समवाये च ६।१।१३८

समवायः समुदायः, तस्मिंश्चार्थे करोतौ सम्पर्युपेभ्यः कात् पूर्वः सुडागमो भवति। तत्र नः संस्कृतम्। तत्र नः परिष्कृतम्। तत्र न उपस्कृतम्। समुदितम् इत्यर्थः।
लघु-सिद्धान्त-कौमुदी
समवाये च ६८५, ६।१।१३३

सम्परिपूर्वस्य करोतेः सुट् स्याद् भूषणे संघाते चार्थे। संस्करोति। अलङ्करोतीत्यर्थः। संस्कुर्वन्ति। सङ्घीभवन्तीत्यर्थः। सम्पूर्वस्य क्वचिदभूषणेऽपि सुट्। संस्कृतं भक्षा इति ज्ञापकात्॥
न्यासः
समवाये च। , ६।१।१३३

"समवायः समुदायः" इति। समवपूर्वादिमो भावे "एरच्()" ३।३।५६ इत्यच्()। समवाय इति सङ्घात्? इत्यर्थः। "समुदित इत्यर्थः" इति। भावे निष्ठा॥
बाल-मनोरमा
समवाये च ३७९, ६।१।१३३

समवाये च। कोरतेः सुट् स्यादिति। "सुट् कात्पूर्वः" इत्यतो, "नित्यं करोते"रित्यतश्च तदनुवृत्तेरिति भावः।