पूर्वम्: ६।१।१३४
अनन्तरम्: ६।१।१३६
 
सूत्रम्
किरतौ लवने॥ ६।१।१३५
काशिका-वृत्तिः
किरतौ लवने ६।१।१४०

उपातित्येव। उपादुत्तरस्मिन् किरतौ धातौ लवनविषये सुत् कत् पूर्वः भवति। उपस्कारं मद्रका लुनन्ति। उपस्कारं काश्मीरका लुनन्ति। विक्षिप्य लुनन्ति इत्यर्थः। णमुलत्र वक्तव्यः लवने इति किम्? उपकिरति देवदत्तः।
लघु-सिद्धान्त-कौमुदी
किरतौ लवने ६६४, ६।१।१३५

उपात्किरतेः सुट् छेदने। उपस्किरति। (अडभ्यासव्यवायेऽपि सुट्कात् पूर्व इति वक्तव्यम्)। उपास्किरत्। उपचस्कार॥
न्यासः
किरतौ लवने। , ६।१।१३५

"लवनविषये" इत्यादि। अनेन लवनं किरतेर्नाभिधेयतया विशेषणम्(), अपि तु तदर्थस्य विषयभावनेति दर्शयति। केन पुनरत्र णमुल्(), यावता "आभीक्ष्ण्ये णमुल्? च" ३।४।२२ इत्यादिना शास्त्रेण स आभीक्ष्ण्यादावप्यर्थे विधीयते। न चात्र सोऽर्तो विवक्षितः, नापि प्रतीयत इत्याह--"णमुलत्र" इत्यादि। "वक्तव्य:" इति। व्याख्येय इत्यर्थः। तत्रेव व्याख्यानम्()--"कृत्यल्युटो बहुलम्? (३।३।११३) इत्यतो बहुलवचनात्? भविष्यति॥
बाल-मनोरमा
किरतौ लवने ३६९, ६।१।१३५

किरतौ लवने। उपादिति। "उपात्प्रतियत्ने" इत्यतस्तदनुवृत्तेरिति भावः। सुडागम इति। "सुट कात्पूर्व" इत्यस्तदनुवृत्तेरिति भाव-। अडभ्यासव्यवायेऽपीति वार्तिकम्। "सुट् कात्पूर्वः" इत्यनुवृत्तिलभ्यम्।

तत्त्व-बोधिनी
किरतौ लवने ३२३, ६।१।१३५

किरतौ लवने। "उपात्प्रतियत्ने"ति सूतरादुपादिति वर्तते। लवने किम्?। उपकिरति।