उदात्तस्थाने यो यण् हलपूर्वस् तस्मात् परा नदी अजादिर् या असर्वनामविद्भक्तिरुदात्ता भवति। कर्त्री। हर्त्री। प्रलवित्री। प्रसवित्री। कर्त्रा। हर्त्रा। प्रलवित्रा। प्रसवित्रा। तृजन्ता एते ऽन्तोदात्ताः। उदात्तग्रहणं किम्? कर्त्री। हर्त्री। कर्त्रा। हर्त्रा। तृन्नन्तो ऽयम् आद्युदात्तः। हल्पूर्वातिति किम्? बहुतितवा ब्राह्मण्या। नकारग्रहणं कर्तव्यम्। वाक्पत्नी इयं कन्या।
"उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य"
८।२।४ इति प्राप्ते वचनम्()। "तृन्नन्तोऽयमाद्युदातः" इति। नित्स्वरेण। "बहुतितवा" इति। वहवस्तितवो यस्या इति बहुव्रीहिः, तया बहुतितवेति। तितौशब्दोऽयं "बहोर्न ञ्चदुत्तरपदभूम्नि"
६।२।१७४ इत्यन्तोदात्तः।
"नकारग्रहणं कत्र्तव्यम्()" इति। नकारो गृह्रते येन तन्नकारग्रहणं व्याख्यानं कत्र्तव्यमित्यर्थः। तत्रेदं व्याख्यानम्()--इहापि पूर्ववद्बहुलग्रहणमनुवत्र्तते। तेनोदात्तस्य स्थाने यो नकारस्ततोऽपि न भविष्यतीति।
अथ वा--नकारस्यात्र प्रश्लेषः--हल्पूर्वात्? "नोङ्धात्वोः"
६।१।७३ इति, तथा चायमर्थो भवति--उदात्तयण उदात्तनकारच्चेति। तेनोदात्तनकारादपि भविष्यतीति। "वाक्पत्नी" इति। पतिशब्दः प्रातिपदिकस्वरेणान्तोदात्तः। तत्र "विभाषा सपूर्वस्य"
४।१।३४ इति नकारान्तादेशः, "ऋन्नेभ्यो ङीप्()"
४।१।५ इति ङीप्()॥