पूर्वम्: ६।१।१६८
अनन्तरम्: ६।१।१७०
 
सूत्रम्
नोङ्धात्वोः॥ ६।१।१६९
काशिका-वृत्तिः
न उङ्धात्वोः ६।१।१७५

ऊङो धातोश्च य उदात्तयण् हलपूर्वः, तस्मात् परा तृतीयादिर् विभक्तिर् न उदात्ता भवति। ब्रह्मबन्ध्वा। ब्रह्मबन्ध्वे। वीरबन्ध्वा। वीरबन्ध्वे। ऊङ् प्रत्ययस्वरेण उदात्तः। तेन सह य एकादेशः सो ऽप्युदात्तः इति उदात्तयण्वकारः, तस्मादुदात्तत्वे प्रतिषिद्धे उदात्तस्वरितयोर् यणः स्वरितो ऽनुदात्तस्य ८।२।४ इति विभक्तिः स्वर्यते। धातुयणः खल्वपि सकृल्ल्वा। सकृल्ल्वे। खलप्वे। क्विबन्द्तस्य कृदुत्तरपदप्रकृतिस्वरेण अन्तोदात्तस्य ओः सुपि ६।४।८३ यणादेशः।
न्यासः
नोङ्दात्वोः। , ६।१।१६९

"ब्राहृबन्ध्वा" इति। ब्राहृआ बन्धुरस्या इति विगृह्र बहुव्रीहिः। तस्मात्? "ऊङुतः" ४।१।६६ इत्यूङ्()। "तेन सह य एकादेशः सोऽप्युदात्तः" इति। "एकादेश उदात्तेनोदात्तः" ८।२।५ इति वचनात्()। "स्वर्यते" इति। स्वरितः क्रियत इत्यर्थः। "कुदुत्तरपद" इत्यादि। ऊकारोऽत्र दातुस्वरेणान्तोदात्तः। सः "गतिकारकोपपादात्()" ६।२।१३८ इत्युदाततस्तिष्ठति प्रकृतिस्वरेण॥