पूर्वम्: ६।१।३०
अनन्तरम्: ६।१।३२
 
सूत्रम्
णौ च संश्चङोः॥ ६।१।३१
काशिका-वृत्तिः
णौ च संश्चङोः ६।१।३१

विभाषा श्वेः ६।१।३० इति वर्तते। सन्परे चङ्परे च णौ परतः श्वयतेर् धातोः विभाषा सम्प्रसारणं भवति। शुशावयिषति। चङि अशूशवत्, अशिश्वयत्। सम्प्रसारणं सम्प्रसारणाश्रयं च बलीयो भवति इति वचनादन्तरङ्गम् अपि वृद्ध्यादिकं सम्प्रसारणेन बाध्यते। कृते तु संप्रसारणे वृद्धिरावादेशश्च। ततः ओः पुयण्ज्यपरे ७।४।८० इत्येतद् वचनं ज्ञापकं णौ कृतस्थानिवद्भावस्य, इति स्थानिवद्भावात् शुशब्दो द्विरुच्यते।
न्यासः
णौ च संश्चङोः। , ६।१।३१

"णौ च संश्चङोः" इति भिन्नाधिकरणे सप्तम्यौ---संश्चङोः परतो यो णिस्त()स्मण्णौ परतो यः ()आयतिरिति। "शुशावयिषति" इति। ()आयतेर्णिच्(), सन्(), सम्प्रसारणम्(), वृद्धिरावादेशः "शु" इत्येतस्य द्विर्वचनम्()। "अशूशवत्()" इति। लुङ्, च्लेश्चङ्, सम्प्रसारणादिकम्(), पूर्ववण्णिलोपः, "णौ चङि" ७।४।१ इति ह्यस्वः, द्विर्वचनम्(), "दीर्घो लघोः" ७।४।९४ इति दीर्घः। ननु च ()आयतेर्णिचि तदन्ताच्च सनि कृते चङि चान्तरङ्गत्वात्? पूर्ववृद्ध्यायादेशाब्यां भवितव्यम्(), ततः सम्प्रसारणेन। तथा च सति शुशुययिषतीति सन्परे णौ भवितव्यम्(), चङ्परे तु--अशूशुयदिति, तत्? कथं शुशावयिषति, अशूशवदिति चोदाह्मतम्()? इत्याह--"सम्प्रसारणम्()" इत्यादि। आदिशब्देनायावेशः परिगृह्रते। सम्प्रसारणाश्रयं पुनरत्र "सम्प्रसारणाच्च" ६।१।१०४ इति परपूर्वत्वम्()। "तेनापि वृद्ध्यादिकं बाध्यते" इति। नन्वेवमपि वृद्ध्यावादेशयोः कृतयोः शावित्यस्य द्विर्वचनं प्राप्नोति न केनचित्? णौ स्थानिवद्भावो विहितः? इत्यत आह--"ओः पुयण्ज्यपरे" इत्यादि। यत्र चैतज्ज्ञापकं तथा तस्यैव वृत्तावुपपादयिष्यामः॥
बाल-मनोरमा
णौ च संश्चङोः ४०७, ६।१।३१

णौ च संश्चङोः। "विभाषा ()ओ" रिति सूत्रमनुवर्तते। "ष्यङ संप्रसारण"मिति चातदाह-- सन्तपर इत्यादिना। नन्वन्तरङ्गत्वात्संप्रसारणात्पूर्वं वृद्ध्यायादेशयोः कृतयोः पश्चात्संप्रसारणे पूर्वरूपे अशीशवदिति स्यात्, अशूशवदिति न स्यादित्यत आह-- संप्रसारण तदाश्रयं चेति। इदं वचनं "लिट()भ्यासस्ये"ति सूत्रभाष्ये स्थितम्। एवं च अ()इआ इ अत् इत्यत्र वृद्ध्यायादेशाभ्यां प्रागेव वकारस्य संप्रसारणमुकार इति फलितम्। पूर्वरूपमिति। ततश्च शु इत्यस्य द्वित्वे उत्तरखण्डस्य णिचमाश्रित्य वृद्ध्यावादेशयोरुपधाह्यस्वे सन्वत्त्वविषयत्वादभ्यासदीर्घे फलितमाह-- अशूशवदिति। संप्रसारणाऽभावपक्षे अशि()आयदित्यत्र अभ्यास्दीर्घमाशङ्क्य आह-- अलघुत्वादिति। संयोगापरकत्वादिति भावः। अवपूर्वात्स्तम्भेण्र्यन्तादवष्टम्भयतीत्यादि। "अवाच्चालम्बनादविदूर्ययो"रिति षत्वम्। चङि अवातस्तम्भदित्यत्र षत्वे प्राप्ते--

तत्त्व-बोधिनी
णौ च संश्चङोः ३५६, ६।१।३१

णौ च। "विभाषा ()ओ"रित्यनुवर्तते। "संश्चङो"रिति णावित्यस्य विशेषणं। "ह्वः संप्रसारण"मित्यतः संप्रसारणमित्यनुवर्तत एवेत्याह-- सन्परे चङ्परे इति। वचनादिति। इयं च परिभाषा "लिट()भ्यासस्योभयेषा"मित्यत्र वच्यादीनां ग्रह्रादीनामनुवृत्त्यैवेष्टसिद्धावुभयेषांग्रहणसामथ्र्याल्लभ्यते। अन्यथा वव्रश्चेत्यत्र हलादिःशेषे कृते वस्य संप्रसारणं स्यादित्याहुः। स्तन्भुसिव।