पूर्वम्: ६।१।४३
अनन्तरम्: ६।१।४५
 
सूत्रम्
आदेच उपदेशेऽशिति॥ ६।१।४४
काशिका-वृत्तिः
आदेच उपदेशे ऽशिति ६।१।४५

धातोः इति वर्तते। एजन्तो यो धातुरुपदेशे तस्य अकारादेशो भवति, शिति तु प्रत्यये न भवति। ग्लै ग्लाता। ग्लातुम्। ग्लातव्यम्। शो निशाता। निशातुम्। निशातव्यम्। एचः इति किम्? कर्ता। हर्ता। उपदेशे इति किम्? चेता। स्तोता। अशिति इति किम्? ग्लायति। म्लायति। कथं जग्ले, मम्ले? न एवं विज्ञायते, शकार इद् यस्य सो ऽयं शितिति, किं तर्हि, श एव इत् शित्। तत्र यस्मिन् विधिस्तदादावल्ग्रहणे इति शिदादौ प्रत्यये प्रतिषेधः। एश् शकारान्तो भवति। अशिति इति प्रसज्यप्रतिषेधो ऽयम्, तेन एतदात्त्वम् अनैमित्तिकं प्रागेव प्रत्ययोत्पत्तेर् भवति इति, सुग्लः, सुम्लः इति आतश्चोपसर्गे ३।१।१३६ इति कप्रत्ययः, सुग्लानः, सुम्लानः इति आतो युच् ३।३।१२८ इत्येवम् आदि सिद्धम् भवति इति। आकाराधिकारस्त्वयं नित्यं सम्यतेः ६।१।५६ इति यावत्।
लघु-सिद्धान्त-कौमुदी
आदेच उपदेशेऽशिति ४९५, ६।१।४४

उपदेशे एजन्तस्य धातोरात्वं न तु शिति। जग्लौ। ग्लाता। ग्लास्यति। ग्लायतु। अग्लायत्। ग्लायेत्॥
न्यासः
आदेच उपदेशेऽशिति। , ६।१।४४

"धातोरिति वत्र्तते" इति। "लिटि धातोरनभ्यासस्य" ६।१।८ इत्यत; तस्य च धातोरेवैच इति विशेषणम्(), विशेषमेन च तदन्तविधिर्भवतीत्याह--"एजन्तो यो धातुः" इति। "उपदेशे" इति। आद्युच्चारणे गणपाठ इत्यार्थः। "चेता, स्तोता" इति। ननु च लक्षणप्रतिपदोक्तपरिभाषयैवात्र (व्या।प।३) न भविष्यति, तत्? किमुपदेशग्रहणेन? एवं तर्हि उपदेशग्रहणमतेतज्ज्ञापयति--अनित्यैषा परिभाषेति। एतेन "अर्त्तिह्यी" (७।३।३६) इत्यादिसूत्रे लाक्षणिकस्याप्याकारस्य ग्रहणे सति क्रापयतीत्यादावपि पुक्? सिद्धो भवति। "श इद्? यस्य सोऽयं शित्()" इति। यश्च "लिटस्तझयोरेशिरेच्()" ३।४।८१ इत्येशादेशः स शिद्भवति, ततश्च शिति प्रतिषेधे क्रियमाण एश्यप्यात्त्वं न प्राप्नोति। अत्रायादेशे कृते स्थानिवद्भावेन "ग्लै" इत्यस्य द्विर्वचने "जग्लाय" इत्यनिष्टं रूपं स्यात्()--इति मन्यमान आह--"कथम्()" इत्यादि। "ग्लै इत्यादौ "आतो लोप इटि च" ६।४।६४ इत्याकारलोपः। "नैवम्()" इत्यादिना परिहारः। श एव इत्? शिदिति विज्ञायमाने सत्यल्ग्रहणमेव भवति। तत्र "यस्मिन्? विधिस्तदादावल्ग्रहणे" (व्या।प।१२७) परिभाषया शिदादौ प्रत्यये प्रतिषेधेन भवितव्यम्(), न चैश्? शिदादिः; किं तर्हि? श#इदन्तः शिदन्तस्यैवोच्चारणात्()। तस्मादत्रैशि प्रतिषेधो न भवति। अशितीति पर्युदासो वा? प्रसज्यप्रतिषेधो वा? तत्र यदि पर्युदासः, तदा शितोऽन्यदात्त्वनिमित्तमाश्रितं स्यात्()। एवञ्च यावदात्त्वस्य निमित्तं न भवति तावदात्त्()वेन भवितव्यमिति; अनाकारान्तत्वात्()। "सुगलः" इत्यादावाकारान्तलक्षणः कप्रत्ययो न स्यादित्येच्चेतसिकृत्वाऽ‌ऽह--"अशति" इत्यादि। तेन किं सिद्धं भवति? इत्याह--"तेन" इत्यादि। प्रसज्यप्रतिषेधे ह्रात्त्वस्य शिति प्रतिषेधः क्रियते, न तु किञ्चिन्निमित्त्माश्रीयत इति तदनैमित्तिकं भवति। अतः प्रागेव प्रत्ययोत्पत्तेरात्त्वं भवतीत्याकारान्तलक्षण) प्रत्ययः सिद्ध्यति, तेन "सुग्लः" इत्यादि। सिद्धं भवति। आदिशब्देन सुग्लः, सुग्ला--इत्यादेग्र्रहणम्()। तत्र हि स्त्रियाम्? "आतश्चोपसर्गे ३।३।१०६ इत्यङ्॥
बाल-मनोरमा
आदेच उपदेशेऽशिति २०७, ६।१।४४

आदेच। एजन्तस्य धातोरिति। "लिटि धातो"रित्यतो धातोरित्यनुवृत्तमेचा विशेष्यते, तदन्तविधिरिति बावः। न तु शितीति। श् चासौ इच्चेति कर्मधारयात्सप्तमी, प्रत्ययविशेषणत्वात्तदादिविधिः, इत्संज्ञकशकारादौ प्रत्यये परे इति लभ्यते। "ल्यपि च" "न व्यो लिटी"त्यादिपूर्वोत्तरसूत्राणां प्रत्ययेष्वेव प्रवृत्त्या "प्रत्यये" इति विशेष्यलाभः। "अशिती"ति न पर्युदासः। तथा सति शिद्भिन्ने प्रत्यये परे इत्यर्थः स्यात्। ततश्च "सुग्ल" इत्यत्र ग्लैघाटोः "आतश्चोपसर्गे" इति कप्रत्ययो न स्यात्, कप्रत्ययनिमित्तमात्त्वम्, आदन्तात्प्रत्यय इत्यन्योन्याश्रयात्। "शिति ने"ति प्रसज्यप्रतिषेधे तु आत्त्वस्य अनैमित्तिकतया कप्रत्ययनिमित्तकत्वाऽभावात् प्रथमात्त्वे कृते कप्रत्ययः सूपपादः। "शिती"ति बहुव्रीह्राश्रयणे ग्लैधातोर्भावे लिटि "भावकर्मणो"रिति तङि एशि आत्त्वे आतो लोपे "जग्ले" इति न सिध्येत्, एशः शित्त्वेन तस्मिन्परे आत्त्वस्य निषेधात्। अतः कर्मधारयमाश्रित्य इत्संज्ञकशकारादौ प्रत्यये परे नेत्यर्थ आश्रितः। एवं च पर्युदासेऽपि न क्षतिः। इत्संज्ञकशकारादिभिन्नप्रत्यये विवक्षिते इत्याश्रयणेन "सुग्ल" इत्यत्र कप्रत्ययात्प्रागेव आत्त्वोपपत्तेः। उपदेशे किम्?। चेता, स्तोता। दातोः किम्?। गोभ्याम्। "गमेर्डो"रिति डोप्रत्ययोपदेशात् उपदेशे एच् तदन्तत्वाद्गो इत्यस्य प्राप्तिः। न च मेङादीनामुपदेशे एजन्तत्वाऽभावात्कथमात्त्वमिति न शङ्क्यम्, "उदीचां माङः" इति निर्देशेन "नानुबन्धकृतमनेजन्तत्व"मिति ज्ञापनादित्यास्तां तावत्।

तत्त्व-बोधिनी
आदेच उपदेशेऽशिति १७९, ६।१।४४

आदेच उपदेशेऽशिति। "लिटि धातो"रित्यनुवृत्तमेचा विशेष्यते। तदाह-- एजन्तस्य धातोरिति। उपदेशे किम्?। चेता। स्तोता। ननु लाक्षणिकत्वादेवाऽत्र न भविष्यतीति चेत्। अत्राहुः वर्णग्रहणे लक्षणप्रतिपदोक्तपरिभाषा नाश्रीयत इति ज्ञापनार्थमुपदेशग्रहणम्। तेन "क्रीङ्जीनां णौ" इति कृतात्वे क्रापयीत्यादौ पुक् सिध्यतीति मनोरमाकृत्। धातोः किम्?। गोभ्याम्। नौभ्याम्। अस्ति ह्रत्रापि "गमेर्डोः" "ग्लानुदिभ्यां डौ" रित्युपदेशे एच्। "अशिती"ति प्रसज्यप्रतिषेध इत्याह--- न तु शितीति। पर्युदासे तु जग्ले मग्ले इत्यादौ "द्विर्वचनेऽची"ति निषेधादात्वं न स्यात्, अभ्यासे इकारश्च श्रूयेत। किं च "सुग्ल" इत्यत्र "आतश्चोपसर्गे" इति कः, "सुग्ले"त्यत्र "आतश्चोपसर्गे" इति रिउआयामङ्, "सुग्लान" इत्यत्र "आतो युजि"ति युज्न स्यात्। प्रत्ययनिमित्तं ह्रात्वम्, आदन्ताच्च प्रत्यय इत्यन्योन्याश्रयात्। प्रसज्यप्रतिषेधे तु न कोऽपि दोषः। "ह्वावामश्चे"ति सूत्रेण कबाधनार्थं पुनरण्विधानं च प्रतिषेधपक्षे ज्ञापकम्। तदाहुः--- अनैमित्तिकमात्वं, शिति तु प्रतिषेध इति। नन्वेमपि एशः शित्त्वाकाले मम्ले इत्यादि न सिध्यतीति चेत्। अत्राहुः---- यदि त#उ शितीति बहव्रीहिः स्यात्तदाऽत्र स्यादेव दोषः। किं तु क्रमधारयोऽयम्। तथा चाऽशितीत्यत्रेत्संज्ञकारादौ प्रत्यये परे नेत्यर्थः। धातुग्रहणाक्षिप्तस्य प्रत्ययस्य शितीति कर्मधारयेण विशेषणात्॥ विषयसप्तम्यां तु इत्संज्ञकशकारादिभिन्नप्रत्ययविषये आत्वमित्यर्थात्पर्युदासेऽपि न क्षतिरिति।