पूर्वम्: ६।१।५७
अनन्तरम्: ६।१।५९
 
सूत्रम्
अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्॥ ६।१।५८
काशिका-वृत्तिः
अनुदात्तस्य च र्दुपधस्य अन्यतर्स्याम् ६।१।५९

उपदेशे इति वर्तते, ज्ञल्यम् अकिति इति च। उपदेशे ऽनुदात्तस्य धातोः ऋकारोपधस्य ज्ञलादावकिति प्रत्यये परतो ऽन्यतरस्याम् अमागमो भवति। त्रप्ता, तर्पिता, तर्प्ता। द्रप्ता, दर्पिता, दर्प्ता। तृप प्रीणने, दृप हर्षमोचनयोः, इत्येतौ रधादी धतू, तयोः इडागमः रधादिभ्यश्च ७।२।४५ इति विकल्प्यते। अनुदात्तोपदेशः पुनरमर्थ एव। अनुदात्तस्य इति किम्? वर्ढा, वर्ढुम्, वर्ढव्यम्। वृहू उद्यमने इत्ययम् उदात्तोपदेशः ऊदित्वाच्चास्येड् विकलोप्यते। ऋदुपधस्य इति किम्? भेत्ता। छेत्ता। ज्ञलि इत्येव, तर्पणम्। दर्पणम्। अकिति इत्येव, तृप्तः। दृप्तः।
लघु-सिद्धान्त-कौमुदी
अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् ६५६, ६।१।५८

उपदेशेऽनुदात्तो य ऋदुपधस्तस्याम्वा स्याज्झलादावकिति। क्रष्टा, कर्ष्टा। कृक्षीष्ट। (स्पृशमृशकृषतृपदृपां च्लेः सिज्वा वक्तव्यः)। अक्राक्षीत्, अकार्क्षीत्, अकृक्षत्। अकृष्ट। अकृक्षाताम्। अकृक्षत। क्सपक्षे अकृक्षत। अकृक्षाताम्। अकृक्षन्त॥ मिल संगमे॥ ५॥ मिलति, मिलते, मिमेल। मेलिता। अमेलीत्॥ मुचॢ मोचने॥ ६॥
न्यासः
अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्?। , ६।१।५८

"उपदेश इति वर्तते" इति। अनुदात्तस्य विशेषणार्थम्()। तेन त्रप्तेत्यत्र यद्यपि तृनि विहिते नित्स्वरेण धातोरुदात्तत्वम्(), तथाप्युपदेशावस्थायामनुदात्त इत्यमागमः सिद्धो भवति; इह च वर्ढेति यद्यपि तृचि कृते धातुरनुदात्तो भवति, तथाप्युपदेशावस्थायान्नायमनुदात्त इत्यमागमो न प्रवर्तते; किमर्थं पुनरनुदात्तस्येत्युच्यते, अनिट इत्येव नोच्येत, एवं हि लघु सूत्रं भवति? इत्याह--"तृप प्रीणने" इत्यादि। तृप्यतिदृप्यत्योः "रधाधिभ्यश्च" (७।२।४५) इतीट्? विकल्प्यते, ततो यद्यनिट एवोच्येत, तदा पाक्षिकेणेटा नैतावनिटाविति तयोरमागमो न स्यत्()। अथ पाक्षिकेणेङ्भावेन तयोर्निट्त्वादमागमो भवति, तथा च सति "वृहू उद्यमने (धा।पा।१३४७) इत्यस्यापि स्यात्(), अयमप्यूदित्त्वात्(), पाक्षिकेङ्भावादनिङ्भवति। तस्मान्न शक्यतेऽनिट इति वक्तुमित्यभिप्रायः। यदि तह्र्रनयोरिङ्विकल्प्यते, तदानुदात्तोपदेशः किमर्थः? स ह्रेवमर्थः क्रियते--"अनुदात्तात्त्()" ७।२।१० इतीट्प्रतिषेधो यथा स्यात्()। यदि तह्र्रनयोरिङ्विकल्प्यते, किं तेन? इत्यत आह--"अनुदात्तोपदेशः पुनरमर्थ एव" इति। "वर्ढा" इति। "होः ढः" ८।२।३१, "ष्टुना ष्टुः", ८।४।४० "ढो ढे लोपः" ८।३।१३ यदाप्युदात्तोपदेशस्तदेडत्र प्राप्नोति? इत्याह--"उदित्त्वात्()" इत्यादि। "स्वरतिसूति" ७।२।४४ इत्यादिनास्योदित्त्वादिङ्विकल्प्यते, ततस्तेन सत्युदात्तत्वे पक्ष इडभावो न भवति। चकारोऽपमनुकर्षणार्थः। तेनोत्तरत्र तस्यानुवृत्तिर्न भवति॥
न्यासः
कर्षात्वतो धञोऽन्त उदात्तः। , ६।१।५८

"कर्षात्वतः" इति। कर्षश्चात्वांश्चेति कर्षात्वत्()--समाहारद्वन्द्वः। आकारोऽस्यास्तीत्यात्वान्()। "कर्षतेर्धातोः" इति। "कृष विलेखने" (धा।पा।१२८६) इत्यस्याकारवतश्चेति सम्बध्यते। कर्षतिना दातुना साहचर्यदात्वोऽपि धातोरेव ग्रहणम्()। "धञः" इति प्रत्ययग्रहणम्(), अतः प्रत्ययग्रहणपरिभाषया तदन्तस्य कार्यं ज्ञायत इत्याह--"घञन्तस्य" इति। एतच्च कर्षतेरात्वतश्च समानाधिकरणं विशेषणम्()। "पाकः" इत्यादि। "अत उपधायाः" ७।२।११६ इति वृद्धौ कृतायां धातोराकारवत्त्वम्()। "दायः धायः" इति। "आतो यक्? चिण्()कृतोः" ७।३।३३ इति युक्()। किमर्थं पनः प्रकृते विकृतसय ग्रहणं क्रियते न "कृषातः इत्येवोच्यते? इत्यत आह--"कर्ष इति विकृतिनिर्देशः" इत्यादि। कृषिर्विलेखनार्थो भ्वादौ तुदादौ च पठ()ते, तत्र यस्य विकरणे परतो गुणात्मको विकारो भवति तस्यैव भौवादिकस्य ग्रहणमिष्यते, नेतरस्य। एतच्च विकृतनिर्देशे सति लभ्यते। तस्मात्? कृषतेस्तौदादिकस्य निवृत्तिर्यथा स्यदित्येवमर्थो विकृतिर्देशः। कस्मात्? पुनस्तौदादिकसय निवृत्तिरिष्यते? इत्यत आह--"तौदीदिकस्य" इत्यादि। अथ किमर्थं मतुपा निर्देशः क्रियते, न कर्षात इत्योवोच्येत? नैवं शक्यम्(), विहितविशेषणस्याकारस्य ग्रहणं विज्ञायते--आकारान्ताद्यो विहित इति। तथा च दाय इत्यादादेव स्यात्(), पाक इत्यादौ न स्यात्()। मतुब्()ग्रहणे तु सति न दोषः। अन्तग्रहणमुत्तरार्थम्(), इह हि "अलोऽन्त्यस्य" १।१।५१ इति भविष्यति॥
तत्त्व-बोधिनी
अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् २०७, ६।१।५८

अनुदात्तस्य। "आदेच उपदेशेऽशिती"त्यत उपदेश इत्यनुवर्तते। उपदेशे किम्?। रुआप्तुम्। तुमुनि उदात्तः। ऋदुपधस्य किम्?। कर्ता। झलीति किम्?। ससर्प। अकितीति किम्()। सृप्तः। असृपदिति। लृदित्त्वादङ्। "स्पृशमृशे"ति सिज्विकल्पवार्तिके सृपं प्रक्षिप्य "अरुआआप्सीदसार्प्सी"दिति केचिदुदाहरन्ति, तत्प्रामादिकमित्याहुः। अयंसीदिति। "यमरमे"तीट्सकौ।