पूर्वम्: ६।१।६८
अनन्तरम्: ६।१।७०
 
सूत्रम्
ह्रस्वस्य पिति कृति तुक्॥ ६।१।६९
काशिका-वृत्तिः
ह्रस्वस्य पिति कृति तुक् ६।१।७१

पिति कृति परतो ह्रस्वान्तस्य धातोः तुगागमो भवति। अग्निचित्। सोमसुत्। प्रकृत्य। प्रहृत्य। उपस्तुत्य। ह्रस्वस्य इति किम्? आलूय। ग्रामणीः। पिति इति किम्? कृतम्। हृतम्। कृति इति किम्? पटुतरः। पटुतमः। ग्रामणि ब्राह्मणकुलम् इत्यत्र ह्रस्वस्य बहिरङ्गस्य असिद्धत्वात् तुग् न भवति।
लघु-सिद्धान्त-कौमुदी
ह्रस्वस्य पिति कृति तुक् ७८०, ६।१।६९

इत्यः। स्तुत्यः। शासु अनुशिष्टौ॥
न्यासः
ह्यस्वस्य पिति कृति तुक्?। , ६।१।६९

कृतात्र प्रत्ययेन धातुरुपस्थाप्यते, ह्यस्वेन च स एव विशेष्यते, च तदन्तविधिर्भवतीत्यतो ह्यस्वान्तो धातुरागमी विज्ञायत इत्याह--"ह्यस्वान्तस्य धातोः" इत्यादि। "अग्निचित्()" इति। "अग्नौ चेः" ३।२।९१ इति क्विप्()। "सोमसुत्()" इति। "सोमे सुञः" ३।२।९० इत्युभयत्रोपपदसमासः। "प्रकृत्य"इत्यादौ प्रादिसमासः। "समासेऽनञ्पूर्वे क्त्वो ल्यप्()" ७।१।३७ इति ल्यप्()। अथ ग्रामं नयतीति--ग्रामणि ब्राआहमणकुलमित्यत्र नपुंसकह्यस्वत्वे कृते ह्यस्वाश्रयस्तुक्? कस्मान्न भवति? इत्याह--"ग्रामणि ब्राआहृणकुलम्()" इत्यादि। ह्यस्वत्वं हि नपुंसकार्थवृत्तिप्रातिपदिकमपेक्षत इति बहिरङ्गम्(), अन्तरङ्गस्तु तुक्(); वर्णमात्रापेक्षताव्त्()। "आसिद्धं बहिरङ्गमन्तरङ्गे (व्या।प।४२) इति तुग्नात्र भवति॥
बाल-मनोरमा
ह्यस्वस्य पिति कृति तुक् ६७९, ६।१।६९

ह्यस्वस्य। स्पष्टमिति न व्याख्याताम्। इत्य इति। इणः क्यपि तुक्। उपेयमित्यत्र तु "ईङो दैवादिकाद्यत्। वृञो ग्रहणमिति। वार्तिकमिदम्। न वृङ इति। "वृङ् संभक्तौ" इति ङितः क्रैयादिकस्य न ग्रहणमित्यर्थः। वार्या ऋत्विज इति। अवश्यं भजनीया इत्यर्थः। अत्र "वृङ् संभक्तौ" इत्यस्माण्ण्यदित्यर्थः। "अवद्यपण्यवर्या"दिति निपातनसिद्धो यत्तु न , अत्र निरोध्स्य नियमस्य विवक्षितत्वात्। ननु "वदः सुपी"त्यतोऽनुवृत्त्यैव सिद्धे क्यब्ग्रहणमिह व्यर्थम्। नच चकारानुकृष्टयतोऽप्यनुवृत्तिनिवृत्तये क्यब्ग्रहणमिति वाच्यं, चकारस्य अस्वरितत्वेन "भुवो भावे" इत्याद्युत्तरसूत्रेष्वनुवृत्त्यभावादित्यत आह-- परस्यापीति। "ओरावश्यके" इति विहितस्येत्यर्थः। वेति काशिकेति। वा क्यप्। तदभावे हलन्तत्वाण्ण्यत्। भाष्ये त्वेतन्न दृश्यते इति भावः। शस्यं शंस्यमिति। क्यप्पक्षे "अनिदिता"मिति नलोपः। दुह्रमिति। क्यप्पक्षे कित्त्वान्न गुणः। अत्र "शंसिदुहिगुहिभ्यो वे"त्यस्य भाष्येऽदर्शनेऽपि शंसेण्र्यत्क्यपौ प्रामाणिकावित्याह-- प्रशस्यस्येति। "प्रशस्यस्य श्रः" इति निर्देशबलादच्छंसेः क्यप्सिद्धः। "ईडवन्दवृशंसदुहा ण्यतः" इत्याद्युदात्तत्वविधौ शंसेण्र्यदन्तत्वानुवादबलाण्ण्यत्सिद्धः। ततश्च शस्यं शंस्यमिति रूपद्वयं सिद्धम्। इतरयोस्तु दुहिगुह्योः क्यब्विकल्पे मूलं नास्तीत्यर्थः। उपसङ्ख्यानमिति। "क्यप" इति शेषः। आज्यमितिन चाङ्()पूर्वकत्वे पदपाठे अवग्रहः स्यादिति वाच्यम्, इष्टापत्तेः। पदकाराणामवग्रहाऽभावस्त्वप्रामाणिक एव, पदपाठस्याऽ‌ऽधुनिकत्वादिति भाष्ये स्पष्टम्। एवं च "अस्मद्रियगित्यस्मद्रिय"गित्यवग्रहोऽप्रामाणिक एव। अस्मद्रि - अक् इत्येवाऽवग्रहो युक्तः, अस्मच्छब्दस्य टेरद्र()आदेशविधानादित्याद्यूह्रम्।

तत्त्व-बोधिनी
ह्यस्वस्य पिति कृति तुक् ५६३, ६।१।६९

कथं तर्हि उपेयमिति?। ईङ्गताविति दैवादिकाद्यत्।

* वृ इति वृञो ग्रहणं। न वृङ इति। "ईडवन्दे"ति ज्ञापकात्। तत्र हि ईडवन्दिभ्यां साहचर्यादात्मनेपदिनो वृङ एव ग्रहणमिति भावः। परस्यापीति। "ओरावश्यके" इति प्राप्तस्य ण्यस्यावकाशोऽवश्यलाव्यमिति।आवश्यकाऽविवक्षायां स्तुत्य इत्यादौ क्यपोऽवकाशः। अवश्यस्तुत्य इत्यादावुभयप्राप्तौ "विप्रतिषेधे पर"मिति ण्यत्स्यात्, तन्माभूदिति पुनः क्यबुक्तिरिति भावः।

* आङ्पूर्वादञ्जेः संज्ञायामुपसङ्ख्यानम्। आङ्पूर्वाञ्जेरिति। ननु ण्यत्येव नलोपः कस्मान्नोक्कत इति चेन्न, कुत्वप्रसह्गातित्स्वप्रसङ्गाच्च। तस्मात्क्यबन्त एवाऽ‌ऽज्यशब्दः। नन्वेवमवग्रहः प्राप्नोति। नचेष्टापत्तिः। "आज्यं किमासी"दित्यादौ" पदकारैस्तदकरणादितिचेत्। अत्र भाष्यम्-- न लक्षणेन पदकारा अनुवर्त्त्याः पदकारैस्तु लक्षममनुवर्त्त्यमिति। सत्यपि अवान्तरपदत्वे "ऋत्विजं", "पूर्वेभिः" इत्यादाविव संप्रदायानुरोधेन क्वचिदवग्रहो न क्रियते इत्यादि तदाशयः।