पूर्वम्: ६।१।७०
अनन्तरम्: ६।१।७२
 
सूत्रम्
छे च॥ ६।१।७१
काशिका-वृत्तिः
छे च ६।१।७३

ह्रस्वस्य तुकिति वर्तते। छकारे परतः संहितायां विषये ह्रस्वस्य तुगागमो भवति। इच्छति। यच्छति। ह्रस्व एव अत्र आगमी, न तु तदन्तः। तेन चिच्छदतुः, चिच्छिदुः इत्यत्र तुकभ्यासस्य ग्रहणेन न गृह्यते इति हलदिःशेषेण न निवर्त्यते, नावयवावयवः समुदायावयवो भवति इति।
लघु-सिद्धान्त-कौमुदी
छे च १०१, ६।१।७१

ह्रस्वस्य छे तुक्। शिवच्छाया॥
न्यासः
छे च। , ६।१।७१

"छे" इति यद्यप्यकारवतश्छकारादेषा सप्तमी तथापि च्छकार एव केवलस्तुको निमित्तम्(), अकारस्तूच्चारणार्थः। एतच्च "इजादेश्च गुरुमतोऽनृच्छः" ३।१।३६ इत्याम्प्रतिषेधादवसीयते। यदि ह्रकारसहितश्छकारस्तुको निमित्तं स्यात्(), तदा ऋच्छेस्तुगभावादसति गुरुमत्वं आमः प्रसङ्गो नास्तीति प्रतिषेधं न कुर्यात्()। "इच्छति" इति। "इषुगमियमां छः" (७।३।७७) तुक्? चुत्वम्()। पूर्व()स्मस्तुग्विधौ ह्यस्वान्त आगमी, अतः स एवात्रागमीति कस्य चिद्? भ्रान्तिः स्यात्(), अतस्तां निराकर्त्तुमाह--"ह्यस्व एव" इत्यादि। एवं मन्यते--ह्यस्वानुकर्षणार्थश्चकारोऽत्र क्रियते--ह्यसव एवागमी यथा स्यात्(), तदन्तो मा भूदित्येवमर्थम्()"; अन्यथा स्वरितत्वादनन्तरत्त्वाच्च पूर्वसूत्रे य आगमी, स एवेहापि विज्ञास्यत इत्यनर्थकश्चकारः स्यात्(), ह्यस्व एवागमिनि सति किमिष्टं सिध्यति, यतस्तदर्तोऽयं यत्नः क्रियते? इत्याह--"तेन" इत्यादि। यदि ह्यस्वान्तस्य तुक्? स्यात्? तदा चिच्छिदतुरित्यादौ तस्याभ्यासग्रहणेन ग्रहणाद्धलादिशेषेण निवृत्तिः स्यात्()। ह्यस्वे त्वागमिनि नायमभ्यासस्य हलिति न भवत्येव दोषः। कथं पुनह्र्यस्व आगमिनि तुगब्यासग्रहणेन गृह्रते? इत्याह--"नावयवावयवः" इत्यादि। इतिकरणो हेतौ। यस्मादवयवस्य योऽवयवः स समुदायस्यावयवो न भवति। तस्मात्? ह्यस्व एवागमिनि तुकोऽभ्यासग्रहणेन न ग्रहणं भवति। नावयवावयवः समुदायस्यावयवो भवतीत्यत्र चैतत्? सूत्रविहितस्तुगित्याभिप्रायो वेदितव्यः। यदि ह्रविशेषेणावयवावयवः समुदायावयवो न स्यात्(), एवं सति "शेरते" इत्यत्र रुङागमः सावैधातुकस्याव्यवस्य झादेशस्यातोऽवय इति सोऽपि समुदायस्य सार्वधातुकस्यावयवो न स्यात्()। ततः "शीङः सार्वधातुके गुणः" ७।४।२१ इति गुणो न स्यात्(); रुटा सार्वधातुकस्य व्यवहितत्वात्? स ह्रवयव उक्तस्तमेव व्यवदध्यात्(), स समुदायं तु न व्यवदधात्येव। तस्मात्? पूर्वोक्त एवाभिप्रायो वृत्तिकारस्य वेदितव्यः। कस्मात्? पुनरेतत्? सत्रविहितोऽवयवावयवः समुदायस्यावयवो न भवति? ह्यस्वानुकर्षणार्थचकारकरण सामथ्र्यात्()। स हि चकारो ह्यस्वानुकर्षणार्थ एवमर्थः क्रियते--ह्यस्वमात्र आगमिनि तुकोऽभ्यासग्रहणेनाग्रहणाद्धलादिशेषेण निवृत्तिर्मा भूदिति। यदि चैतत्सूत्रविहितोऽप्यवयवायवः समुदायावयवः स्यात्(), तदा ह्यस्वेऽप्यागमिनि तुकस्तु तदवयवयस्याप्यभ्यासग्रहणेन ग्रहणाद्धलादिशेषेण निवृत्त्या भवितव्यमिति चकारो ह्यस्वानुकर्षणार्थो निष्फलः स्यात्()। तस्मादयमेव तुगवयवावयवः समुदायावयवो न भवति, अन्यस्तु भवत्येव। युक्तं चैतत्()। तथा हि बाहोर्योऽवयवो हस्तः स देवदत्तस्याप्यवयवो भवत्येव, अन्यथा हस्तावन्? देवदत्त इति प्रयोगो न स्यात्()।
तत्त्व-बोधिनी
छे च ११८, ६।१।७१

छे च। छकारोपरि अकार उच्चारणार्थः, "विदिभिदिच्छिदे"रिति निर्देसात्। तेन "विच्छिन्न"मित्यादि सिद्धम्। ह्यस्वस्येति। एतच्च "ह्यस्वस्य पिति कृती"त्यतोऽनुवर्तते, तुक् च।