पूर्वम्: ६।१।८
अनन्तरम्: ६।१।१०
 
सूत्रम्
सन्यङोः॥ ६।१।९
काशिका-वृत्तिः
सन्यङोः ६।१।९

धातोरनभ्यासस्य इति वर्तते। सन्यङोः इति च षष्ठ्यन्तम् एतत्। सनन्तस्य यङन्तस्य च अनभ्यासस्य धातोरवयवस्य प्रथमस्य एकाचो द्वितीयस्य वा यथायोगं द्वे भवतः। पिपक्षति। पिपतिषति। अरिरिषति। उन्दिदिषति। यङन्तस्य पापच्यते। अटाट्यते। यायज्यते। अरार्यते। प्रोर्णोनूयते। अनभ्यासस्य इत्येव जुगुप्सिषते। लोलूयिषते।
लघु-सिद्धान्त-कौमुदी
सन्यङोः ७०९, ६।१।९

सन्नन्तस्य यङन्तस्य च धातोरनभ्यासस्य प्रथमस्यैकाचो द्वे स्तोऽजादेस्तु द्वितीयस्य। सन्यतः। पठितुमिच्छति पिपठिषति। कर्मणः किम्? गमनेनेच्छति। समान कर्तृकात् किम्? शिष्याः पठन्त्वितीच्छति गुरुः। वा ग्रहणाद्वाक्यमपि॥ लुङ्सनोर्घसॢ॥
बाल-मनोरमा
सन्यङोः २३१, ६।१।९

सन्यङोः। अवयवषष्ठ()एषा। प्रत्ययत्वात्तदन्तग्रहणम्। "एकाचो द्वे प्रथमस्ये"ति "अजादेर्द्वितीयस्ये"ति चाधिकृतं। तदाह--सन्नन्तस्येत्यादिना। "सनि यङि च परे" इति तु न व्याख्येयम्, तथा सति प्रतिपर्वादिणः सनि अटधातोर्यङि च प्रतीषिषति, अटाट()ते इत्यत्र प्रत्ययसहितस्य द्वित्वाऽनापत्तेः। अभ्यासकार्यमिति। हलादिशेषादिकमित्यर्थः। गुपिप्रभृतय इति। कितधातुभिन्ना गुप्तिजमानबधाश्चत्वारो "गुपेनिन्दाया"मित्यादिनिबद्धनिन्दाद्यर्थका एव अनुदात्तेतः सन्भाज इत्यर्थः। कितधातुस्तु परस्मैपदिषु पठिष्यमाणत्वादुदात्तेदेव सन् व्याधिप्रतिकारादिषु पञ्चस्वेवार्थेषु सन्भागिति भावः। दानशानौ त्विति। "दान खण्डने" "शान तेजने" इति धातू स्वरितेतावेव सन्तौ आर्जवे निशाने चाऽर्थे सन्भाजावित्यर्थः, तयोरनुपदमेव स्वरितेत्सु पाठादिति भावः। एते नित्यं सन्नन्ता इति। एते गुप्तिजादयः सप्त धातवो "गुपेर्निन्दाया"मित्यादिनिबद्धेष्वर्थेषु नित्यं सन्नन्ताः। निन्द्याद्यर्थकत्वे सनं विना एषां प्रयोगो नास्तीत्यर्थः। अर्थान्तरेषु तविति। निन्दादिभ्योऽन्येषु धातुपाठनिर्दिष्टेषु तदन्येषु चार्थेषु अनुदात्तानुबन्धहिताः सन्तश्चौरादिका एव भवन्ति, न तु भौवादिका इत्यर्थः। चुरादिष्वेतेषामनुदात्तानुबन्धकत्वे अनुबन्धकरणस्य केवलेष्वचरितार्थतया ण्यन्तादकर्तृगेऽपि फले तङ् स्यादिति भावः। नन्वेवं सति भ्वादिगणे गुपादेरनुदात्तानुबन्धकरणं व्यर्थम्, उक्तरीत्या गोपनाद्यर्थकानामेषामनुबन्धरहितचौरादिकत्वनियमेन, निन्दाद्यर्थेषु सन्नन्तनियमेन च ततोऽन्यत्र प्रयोगाऽभावादित्यत आह--अनुबन्धकस्येति। गुपादिषु केवलेष्वनुबन्धनिर्देशस्य निष्पलतया अनुबन्धनिर्देशस्य सन्नन्तार्थत्वं विज्ञायत इतिकृत्वा सन्नन्तात्तङित्यर्थः। नचैवमपि भ्वादिगणे एषां गोपनाद्यर्थनिर्देशो व्यर्थ एवेति वाच्यं, भ्वादौ तदर्थनिर्देशस्य अपाणिनीयत्वादिति भावः तदुक्तं भाष्ये-- "गुपादिष्वनुबन्धकरणसामथ्र्यात्सन्नन्तादात्मनेपद"मिति। अत्र सन्नन्तादात्मनेपदमित्यक्त्वा केवलानामेषां शब्विकरणानां नास्ति प्रयोग इति सूचितम्। तथा चुरादिष्वेषामनुदात्तानुबन्धराहित्यपि सूचितम्। अन्यथा अनुबन्धकरणस्य केवलेष्वचरितार्थत्वात्सन्नन्तादिव ण्यन्तादपि अकर्तृगे फले आत्मनेपदार्थत्वापातत्सन्नन्तादात्मनेपदमित्युक्तिरसङ्गता स्यादित्यन्यत्र विस्तरः। धातोरितीति। "आद्र्धधातुकं शेषः" इत्यत्र धातोर्विहितः प्रत्यय इति व#इहितविशेषणाश्रयणात्सनश्चास्य धात्वधिकारविहितत्वाऽभावान्नाद्र्धधातुकत्वमित्यर्थः। तेनेति। सन आद्र्धधातुकत्वाऽभावेनेत्यर्थः। जुगुप्सते इति। निन्दतीत्यर्थः। गुपेः सनि अनाद्र्धधातुकत्वादिड्()गुणेयोरभावे "सन्यङो"रिति द्वित्वे हलादिशेषेऽभ्यासचुत्वमिति भावः। जुगुप्सांचक्रे इति। "कास्प्रत्यया"दित्याम्। जुगुप्सिता। जुगुप्सिष्यते। जुगुप्सताम्। अजुगुप्सत। जुगुप्सेत। जुगुप्सिषीष्ट। अजुगुप्सिष्ट। अजुगुप्सिष्यत। तितिक्षते इति। तिक्ष्णीकरोतीत्यर्थः। मान्धातोः सनिद्वित्वे हलादिशेषे अभ्यासह्यस्वे "सन्यतः" इति इत्त्वे "मान्बधे" त्यभ्यासदीर्घे, "नश्चे"त्यनुस्वारे, मीमांसधातोर्लडादीति भावः। बधधातोः सनि विशेषमाह-- भष्भाव इति। बकारस्य भकार इत्यर्थः। चत्र्वमिति। धस्य तकार इत्यर्थः। तथा च "भत्से"ति सन्नन्तं संपन्नम्। बीभत्सते इति। भष्त्वचत्र्वयोरसिद्धत्वात् बध् इत्यस्य द्वित्वे हलादिशेषे "सन्यतः" इति इत्त्वे "मान्बधे"ति दीर्घे बीभत्सधातोर्लडादिति भावः। तदेवं गुपादिषु सप्तसु सन्नन्तेषु अत्र क्रमे धातुपाठे निबद्धाश्चत्वार उदाह्मताः। कितमानशानधातवस्तु अनुपदमेव धातुपाठक्रमे पठिष्यमाणास्तत्र तत्रोदाहरिष्यन्ते। रभ राभस्ये इति। अनिडयम्। राभस्यं--शीघ्रीभावः। आङ्पूर्वकस्तु प्रारम्भर्थकः। तदाह--आरभते इति। रब्धेति। "झषस्तथो"रिति धत्वं, भस्य जश्त्वम्। रप्स्यत इति। रभताम्। अरभत। रभेत। रप्सीष्ट। अरब्ध। अरप्स्यत। डु लभषिति। डुरित् षकारश्च। "ड्वितः क्रिः" "षिद्भिदादिभ्यो"ऽङिति प्रयोजनम्। अनिट्। रभधातुवद्रूपाणि। ष्वञ्ज परिष्वङ्गे इति। षोपदेशोऽयमनिट्।

तत्त्व-बोधिनी
सन्यङोः २०३, ६।१।९

सन्यङोः। सप्तमीमाश्रित्य सनि यङि च परे इति व्याख्यायां-- "प्रतीषिषति," "अटाट()ते" इत्यादि न सिध्येत्, सन्यङोः प्रकृतिभागस्यैव द्वित्वप्रसक्तेरत आह-- सन्नन्तस्येति। ननु सप्तमीपक्षेऽपि सन्यङोरेव द्वित्वं स्यान्न तु प्रकृतिभागस्य, शपोऽकारेणैव जुगुप्सते तितिक्षते इत्यादिरूपसिद्धेस्तयोरकारोच्चारणस्य "अजादेर्द्वितीयस्ये"ति द्वित्वार्थत्वात्। यद्यपि निमित्तस्य कार्यित्वस्वीकारे आट आटतुरित्यादौ। लिटि परतः पूर्वभागमात्रस्य द्वित्वं न सिध्येत्तथाप्यकारोच्चारणसामथ्र्यात्सन्यङोः कार्यित्वमभ्युपगन्तुं शक्यमिति चेन्मैवम्।अकारफलानां बहूनां सत्त्वात्। तथाहि---- दित्स्यं धित्स्यमित्यत्राऽचो यति कृते "यतोऽनावः" इत्याद्युदात्तः सिध्यति। अकाराऽभावे तु "ऋहलो"रिति ण्यतीष्टस्वरो न सिध्येत्। किंच "पिपठिषि ब्राआहृणकुलानी"त्यत्राऽल्लोपस्य स्थानिवत्त्वाज्झलन्तलक्षणो नुम् न भवति, अकाराऽभावे तु स्यादेव नुम्। अपिच "पापचक" इत्यादावल्लोपस्य स्थानिवत्त्वात् "अत उपधायाः" इति वृद्धिर्न प्रवर्तते। अपि च "यस्य हलः" इत्यत्र यस्येति सङ्घातग्रहणमहर्यीदित्यादौ यलोपव्यावृत्त्यर्थमिति सर्वसंमतम्। तथा च "अपापचिष्टे" त्यादौ यलोपोऽप्यकारफलमिति "सन्यङो" रिति षष्ठ()एव युक्ता। एवं हि यङ्लुकि प्रत्ययलक्षणेन यङन्तत्वाद्द्वित्वं सिध्यति। परसप्तम्यां तु द्वित्वस्याऽङ्गकार्यत्वात् "न लुमते" ति निषेधः प्रवर्तेतेति दिक्। दानशानौ चेति। आर्जवनिशानार्थविति भावः। अर्थान्तरे त्विति। धातुपाठोपात्ते गोपनादिरूपेऽर्थे इत्यर्थः। अननुबन्धका इति। सानुबन्धकत्वे तु केवलेऽचरितार्थत्वादऽनुबन्धस्य सन्नन्तादिवाऽकर्तृगफलाण्ण्यन्तादपि तङ् स्यादिति भावः। एवं चानुपूर्वीमात्रसाम्येऽपि भ्वादयश्चुरादिभ्यो भिन्ना एवेति फलितम्। इड्गुणौ नेति। यद्यपि "हलन्ताच्चे"ति सनः कित्त्वेनापि गुणाऽभावः सुसाधस्ततापीडभावार्थमुक्तहेतुरेवाश्रयणीय इति किं हेत्वन्तराश्रयणेनेति भावः। केचित्तु अर्थवद्ग्रहणपरिभाषया इच्छासन एव "हलन्चाच्चे"ति सूत्रे ग्रहणमिति नाऽस्य स्वार्थसनः कित्त्वमित्याहुः। रभ राभस्ये। राभस्यमुपक्रमः। लिटि रेभे। रेभाते। लुङि अरब्ध। अरप्साताम्। डुलभष्। "ड्वितः क्रिः" लप्त्रिमम्। "षिद्भिदादिभ्य" इत्यङ्। लभा। लिटि-- लेभे। लुङि--अलब्ध।