पूर्वम्: ६।१।२१७
अनन्तरम्: ६।२।२
 
सूत्रम्
बहुव्रीहौ प्रकृत्या पूर्वपदम्॥ ६।२।१
काशिका-वृत्तिः
बहुव्रीहौ प्रकृत्या पूर्वपदम् ६।२।१

पूर्वपदग्रहणं अत्र पूर्वपदस्थे स्वरे उदात्ते स्वरिते वा वर्तते। बहुव्रीहौ समासे पूर्वपदस्य यः स्वरः स प्रकृत्या भवति, स्वभावेन अवतिष्ठते, न विकारमनुदात्तत्वम् आपद्यते। समासान्तोदात्तत्वे हि सति अनुदात्तं पदम् एकवर्जम् ६।१।१५२ इति सो ऽनुदात्तः स्यातिति समासान्तोदात्तत्वापवादो ऽयम् आरभ्यते। कार्ष्णोत्तरासङ्गाः। कृष्णो मृगः तस्य विकारः कार्ष्णः, प्राणिरजताऽदिभ्यो ऽञ् ४।३।१५२ इति अञ्प्रत्ययान्तो ञिस्वरेण आद्युदात्तः। यूपवलजः। यूपशब्दः उणादिषु कुसुयुभ्यश्च इति पप्रत्ययान्तः। तत्र च दीर्घः इति निदिति च वर्तते तेन आद्युदात्तः। ब्रह्मचारिपरिस्कन्दः। ब्रहमचारिशब्दः कृदुत्तरपदप्रकृतिस्वरेण अन्तोदात्तः। स्नातकपुत्रः। स्नातकशब्दः कन्प्रत्ययान्तो नित्स्वरेण आद्युदात्तः। अध्यापकपुत्रः। लित्स्वरेण अध्यापकशब्दो मध्योदात्तः। श्रोत्रियपुत्रः। श्रोत्रियशब्दो नित्वादाद्युदात्तः। मन्ष्यनाथः। मनुष्यशब्दः तित् स्वरितं ६।१।१७९ इति स्वरितान्तः। उदात्तग्रहणम् स्वरितग्रहणं च अत्र अनुवर्तते, तेन सर्वानुदात्ते पूर्वपदे विधिरेव न अस्ति इति समासान्तोदात्तत्वं भवति। समाभ्यागः इति समशब्दो हि सर्वानुदातः।
न्यासः
बहुब्राईहौ प्रकृत्या पूर्वपदम्?। , ६।२।१

"पूर्वपदग्रहणम्()" इत्यादि। प्रकृतिभावो ह्रत्र तस्य यूज्यते विधातुम्(), यस्यानुदात्तलक्षणो विकारः प्राप्नोति। नच पूर्वपदस्याज्झल्समुदायस्यासौ प्राप्नोति, किं तर्हि? स्वरितस्य, उदात्तस्य वा। तत्र यदीह पूर्वपदग्रहणं पूर्वपद एव वत्र्तते, अपार्थकमेवेदं वचनं स्यात्()! तस्मात्? पूर्वपदस्ये स्वर उदात्ते स्वरिते वा पूर्वपदग्रहणं वर्तत इति विज्ञायते। भवति हि तात्स्थ्यात्? ताच्छब्द्यम्(), यथा--"मञ्चाः क्रोशन्ति" इति। "स्वभावेनावतिष्ठते" इति। अनेन प्रकृत्या भवतीतयस्यार्थमाचष्टे। तमेव वाक्यान्तरेण स्पष्टीकर्त्तुमाह--"विकारमनुदात्तत्वमापद्यते" इति। कथं पनरनुदात्तलक्षणो विकारः प्राप्नोति, यन्निवृत्तये प्रकृतिभावोऽयमारभ्यते? इत्याह--"समासान्तोदात्तत्वे हि सति" इत्यादि। "समासान्तोदात्तत्वापवादोऽयम्()" इति। नाप्राप्ते तस्मिन्नारम्भात्()। "कृष्णो मृगः" इति। कृष्णगृणत्वात्()। "आद्युदात्तः" इति। ञित्स्वरेण। "तत्र च" इत्यादि। तत्र "स्तुवो दीर्घश्च" (द।उ७।४) इति दीर्घग्रहणमनुवत्र्तते। "सुशृभ्यां निच्च" (द।उ।७।६) [सृशृभ्यामूर्च--द।उ।] इत्यतो निच्चेति च। "तेनाद्युदात्तः" इति। नित्स्वरेण। "कृदुत्तरपद" इत्यादि। ब्राहृचारीति "व्रते" ३।२।८० इति णिनिः, उपपदसमासः। तत्र "गतिकारकोपपदात्? कृत्()" ६।२।१३८ इति ब्राहृचारीति शब्दः कृत्स्वरेणान्तोदात्तः। "स्नातकशब्दः कन्प्रत्ययान्तः" [स्नातशब्दः--मुद्रितः पाठः---काशिका] इति। क्षोत्रियँश्छन्दोऽदीते" ५।२।७३ इति निपात्यते, तेन नित्सवरेणाद्युदात्तः। "मनुष्यशब्दस्तित्स्वरितमिति" इति। "मनोर्जातावञ्यतौ षुक्च" ४।१।१६१ इति यत्प्रत्ययान्तत्वात्()। "उदात्तग्रहणम्()" इत्यादि। तत्रोदात्तग्रहणम्? "कर्षात्वतो घञोऽन्त उदात्त" ६।१।१५३ इत्यतोऽनुवर्तते। "स्वरितग्रहणम्()" इति। "तित्? स्वरितम्()" (६।१।१।८५) इत्यतः। ततः किं सिद्धं भवति? इत्याह--"तेन" इत्यादि। उदात्तसरितानुवृत्तेह्र्रेतदेव प्रयोजनम्()--यत्रोदात्तः स्वरितो वास्ति तत्रैव यता स्यात्()। समशब्दो हि "सुनोतेर्डमप्()" (()) इति डमप्प्रतययान्तो व्युत्पाद्यते, तेन धातोष्टिलोपे कृते प्रत्यस्य पित्त्वात्? सर्वानुदात्तो भवति॥