पूर्वम्: ६।२।१६६
अनन्तरम्: ६।२।१६८
 
सूत्रम्
नाव्ययदिक्‌शब्दगोमहत्स्थूलमुष्टिपृथुवत्सेभ्यः॥ ६।२।१६७
काशिका-वृत्तिः
न अव्ययदिक्शब्दगोमहत्स्थूलमुष्टिपृथुवत्सेभ्यः ६।२।१६८

अव्यय दिक्शब्द गो महत् स्थूल मुष्टि पृथु वत्स इत्येतेभ्यः परं मुखं स्वाङ्गवाचि बहुव्रीहौ समासे न अन्तोदात्तं भवति। अव्यय उच्चैर्मुखः। नीचैर्मुखः। दिक्शब्द प्राङ्मुखः। प्रत्यङ्मुखः। गो गोमुखः। महत् महामुखः। स्थूल स्थूलमुखः। मुष्टि मुष्टिमुखः। पृथु पृथुमुखः। वत्स वत्समुखः। पूर्वपदप्रकृतिस्वरो यथायोगम् एषु भवति। गोमुष्टिवत्सपूर्वस्य उपमानलक्षणो विकल्पः पूर्वविप्रतिषेधेन बाध्यते।
न्यासः
नाव्ययदिक्शब्दगोमहत्स्थूलमुष्ठिपृथुवत्सेभ्यः। , ६।२।१६७

पूर्वेण प्राप्तस्यान्तोदात्तत्वादयं प्रतिषेध उच्यते। "उच्चैर्मुखः" इति। उच्चैरित्येते स्वरादौ पठ()न्ते, तेऽन्तोदात्ता इति निपात्यन्ते। "प्राङ्मुखः" इति। प्राङित्येतत्? क्विन्नन्तमाद्युदात्तम्(), तत्र "अनिगन्तोऽञ्चतौ वप्रत्यये" ६।२।५२ इति पूर्वपदसय प्रकृतिस्वरः। "प्रत्यङमुखः" इति। अत्र कृदुत्तरपदप्रकृतिस्वरः। "गोमुखः महामुखः" इति। गोमहच्छब्दावन्तोदात्तावित्युक्तम्()। "स्थूलमुखः" इति। "स्थूल परिबृंहणे" (धा।पा।१९०४), चुरार्दिः, तस्मात्? पचाद्यच्()। तेन स्थूलशब्दोऽन्तोदात्तः। "मुष्टिमुखः" इति। मुषेः क्तिच्()। तेन मुष्टिशब्दोऽन्तोदात्तः। "पृथुमुखः" इति। "कुभ्र्रश्च" (पं।३।१।२३) इत्यधिकृत्य प्रथिम्रदिभ्रस्जां सम्प्रसारणं "सलोपश्च" (पं।उ।१।२९) इति कुप्रत्ययः। तेन पृथुरन्तोदात्तः। "वत्समुखः" इति। "वृ()तृ()वदिनि" (द।उ।९।२१) इत्यादिना सः। तेन वत्सोऽन्तोदात्तः। "गोमुष्टि" इत्यादि। उत्तरसूत्रेण निष्ठादिपूर्वपदस्योपमानलक्षणोऽपि यः प्राप्नोति सोऽप्यनेन बाध्यते। अस्य प्रतिषेधस्यावकाशो यत्र गवाद्युपमानं न; गौर्मुखमिव यस्य, मुष्टिर्मुखमिव यस्य, वत्सो मुखमिव यस्येति सर्वत्र गवाद्युपमेयम्(), नोपमानम्()। उत्तरसूत्रेण निष्ठादिपूर्वपदस्योपमानलक्षणस्य विकल्पस्यावकाशो यत्र गवादेरन्यदुपमानम्()--सिंहमुखः, व्याघ्रमुख इति। यत्र गवाद्युपमानं तद्? यत्र पूर्वपदं तत्रोभयप्राप्तावुपमानलक्षणं बाधित्वाऽयमेव प्तिषेधो पूर्वप्रतिषेधेन॥