ह्रस्वो ऽन्तो यस्य तदिदं ह्रस्वान्तम् उत्तरपदं समासो वा, तत्र अन्त्यात् पूर्वम् उदात्तं भवति कपि परतो नञ्सुह्यां परं बहुव्रीहौ समासे। अयवको देशः। अव्रीहिकः। अमाषकः। सुयवकः। सुव्रीहिकः सुमाषकः। पूर्वम् इति वर्तमने पुनः पूर्वग्रहणं प्रवृत्तिभेदेन नियमप्रतिपत्त्यर्थम्, ह्रस्वान्ते ऽन्त्यात् पूर्वम् उदात्तं भवति, न कपि पूर्वम् इति। तेन अज्ञकः, सुज्ञकः इत्यत्र कबन्तस्य एव अन्तोदात्तत्वं भवति।
"ह्यस्वोऽन्तोऽस्य" इत्यादि। अनेन ह्यस्वान्त इत्यस्यैव बहुव्रीहेरन्यपदार्थ उत्तरपदं समासो वेति दर्शयति। "अयवको देशः" इति।
अत्र कपि परतो यव इत्येतत्? ह्यस्वान्तमुत्तरपदम्(), अयव इत्ययं वा समासः। तत्रान्त्याद्वकारात्(), पूर्वमक्षरं यकाराकार उदात्तो भवति। अनया दिशान्यत्रापरि वेदितव्यम्()।
अथ पूर्वग्रहणं किम्(), यावता "कपि पूर्वम्()" (६।२।
१७३) इत्यतः पूर्वमिति वर्तत एव? इत्यत आह--"पूर्वमिति वर्तमाने" इत्यादि। द्वितीये हि पूर्वग्रहणे क्रियमाणे वाक्यभेदेन प्रवृत्तिभेदो भवति; पूर्वग्रहणसामथ्र्यात्(), अन्यथा हि तदपार्थकं स्यात्()।
तत्रैकय प्रवृत्त्या ह्यस्वन्तेऽन्त्यात्? पूर्वमन्तोदात्तं विथधीयते।
अपरया तु ह्यस्वान्तेऽन्त्यात्? पूर्वमन्तोदात्तं न भवतीति नियमः। तेन कपि पूर्वमन्तोदात्तं न भवति। "तेन" इत्यादिना नियमो न स्यात्(),
तदात्रान्त्यात्? पूर्व उदात्तभावो नास्तीति कपि पूर्वमन्तोदात्तं स्यात्()। "कपि पूर्वम्()"
६।२।१७२ इत्यनेन नियमे तु सति न भवति। तेन "नञ्सुभ्याम्()"
६।२।१७१ इति कबन्तस्यैवान्तोदात्तत्वं भवति। यथा च स भवति तथात्रैवोपपादितम्()॥