पूर्वम्: ६।२।३४
अनन्तरम्: ६।२।३६
 
सूत्रम्
संख्या॥ ६।२।३५
काशिका-वृत्तिः
सङ्ख्या ६।२।३५

द्वन्द्वसमासे सङ्ख्यावाचि पूर्वपदं प्रकृतिस्वरं भवति। एकादश। द्वादश। त्रयोदश, त्रयोदश। इण्भीकापाशल्यतिमर्चिभ्यः कनिति नित्त्वादाद्युदात्त एकशब्दः। त्रेस्त्रयसदेशो ऽन्तोदात्तो निपात्यते।
न्यासः
संख्या। , ६।२।३५

"एकादश" इति। एकश्च दश चेति द्वन्द्वः। "द्वादश" इति द्व्यष्टनः संख्यायामबहुव्रीह्रशीत्योः ६।३।४६ इत्यात्तवम्()॥