क्ते कर्मणि इति वर्तते। कर्मवाचिनि क्तान्ते उत्तरपदे गतिरनन्तरः पूर्वपदं प्रकृतिस्वरं भवति। प्रकृतः। प्रहृतः। अनन्तरः इति किम्? अभ्युद्धृतः। समुद्धृतः। समुदाहृतः। व्यवहितस्य गतेरयं स्वरो न भवति। अनन्तरे पुनरिष्यते। कारकपूर्वस्य तु सति शिष्टत्वात् थाथादिस्वर एव भवति दूरादागतः इति। अनन्तरग्रहणसामर्थ्यादेव कृद्ग्रहणे गतिकारकपूर्वस्य अपि इत्येतन् न अश्रीयते। कर्मणि इत्येव, प्रकृतः कटं देवदत्तः। थाथादिस्वरापवादो योगः।
"प्रकृतः" इति। कुगतिप्रादयः"
२।२।१८ इति समासः। प्रादयोऽबिवर्जिता आद्युदात्तगणे निपात्यन्ते, तेन प्रशब्द आद्युदात्तः। "अभ्युद्()धृतः" इति। अत्र अभिशब्दस्यानन्तरस्य न भवति; अत्रोच्छशब्दस्य क्तान्तेन समासं कृत्वा पश्चादभिशब्दस्योद्()धृशब्देन समासः कत्र्तव्यः। अथ वा--"कुगतिप्रादयः"
२।२।१८ इत्यत्र सुब्ग्रहणस्य निवर्तितत्वादनेकसर्यापि समासो भवति। "समुदाह्मतः" इति। अत्रापि समुदोरन्तरयोर्न भवति। "कारकपूर्वस्य ति" इत्यादि। दूरादागत इत्यत्राङी गतिसमासे कृते सत्यनेन प्रकृतिस्वरः, तत उदात्तो भवति। ततो दूरादागत इति "स्तोकान्तिक"
२।१।३८ इत्यादिना पञ्चमीसमासः,
तस्मिन्? कृते "गतिकारकोपपदात्? कृत्()"
६।२।१३८ इति वर्तमाने "थाथघञ्()"
६।२।१४३ इत्यादिनोततरपदस्यान्तोदत्तत्वं विधीयते। स च गतिस्वरे सति विधीयत इति शिष्टत्वेन स एव भवति। "पञ्चम्याः स्तोकादिभ्यः"
६।३।२ इत्यलुक्()।
अथ कथं "समुद्घृतः" इत्यादि प्रत्युदाहरणमुपपद्यते, यावता "कृद्ग्रहणे गतकारकपूर्वस्यापि ग्रहणम्()" (व्या।प।१२६) इति गतिरिह निष्ठाग्रहणेनैव गृह्रते, एवञ्चानन्तर एव समुद्धृत इत्यत्र सम्शब्दः,
समुदाह्मत इत्यत्रापि समुच्छब्दौ? इत्यत आह--"अनन्तरग्रहणसामथ्र्यात्()" इति। अनन्तरगरहणेन ह्रेवमर्थः क्रियते--समुद्धृतमित्यादौ मा भूदिति। यदि परिबाषेयमिहश्रीयतेत, तदा हि उद्धृत इत्यादौ गतिरनन्तर एवेति व्यावत्र्याभावादनन्तरग्रहणमपार्थकं स्यात्()।
"प्रकृतः कटं देवदत्तः" इति। "आदिकर्मणि क्तः कत्र्तरि च"
३।४।७१ इति करत्तरि हि क्वप्रत्ययः॥