पूर्वम्: ६।३।१३७
अनन्तरम्: ६।४।१
 
सूत्रम्
सम्प्रसारणस्य॥ ६।३।१३८
काशिका-वृत्तिः
सम्प्रसारणस्य ६।३।१३९

उत्तरप्दे इति वर्तते। सम्प्रसारणान्तस्य पूर्वपदस्य उत्तरपदे दीर्घो भवति। कारीषगन्धीपुत्रः। कारीषगन्धीपतिः। कौमुदगन्धीपुत्रः। कौमुदीगन्धीपतिः। करीषस्य इव गन्धो ऽस्य, कुमुदस्य इव गन्धो ऽस्य, अल्पाख्यायाम् ५।४।१३६, उपमानाच् च ५।४।१३७ इति इकारः समासान्तः। करीषगन्धेरपत्यम् कारीषगन्ध्या। कुमुदगन्धेरपत्यम् कौमुदगन्ध्या, तस्याः पुत्रः कौमुदगन्धीपुत्रः। कौमुदगधीपतिः। इको ह्रस्वो ऽङ्यो गालवस्य ६।३।६० इत्येतन् न भवति। व्यवस्थितविभाषा हि सा। अकृत एव दीर्घत्वे ह्रस्वभावपक्षे कृतार्थेन अपि दीर्घेण पक्षान्तरे परत्वाद् ह्रस्वो बाध्यते। पुनः प्रसङ्गविज्ञानं च न भवति, सकृद्गतौ विप्रतिषेधे यद् बाधितं तद्बाधितम् एव इति। इति श्रीवामनविरचितायां काशिकायां वृत्तौ षष्ठाध्यायस्य तृतीयः पादः। षष्ठाध्यायस्य चतुर्थः पादः।
न्यासः
सम्परसरणस्य। , ६।३।१३८

"कारीषागन्धीपुत्रः" इति। कारीषगन्धेरपत्यमिति "तस्यापत्यम्()" ४।१।९२ इत्यण्(), "अणिञोरनार्षयोः" ४।१।७८ इत्यादिना ष्यङादेशः, ततः "यङश्चाप्()" ४।१।७४ इति चाप्प्रत्ययः, ततः करीषगन्ध्यायाः पुत्र इति षष्ठीसमासः, ततः "ष्यङः सम्प्रसरणम्()" ६।१।१३ इत्यादिना सम्प्रसारणम्(), अनेन दीर्घत्वम्()। "व्यवस्थितविभाषा हि सा" इति। इको ह्यस्वादौ ६।३।६० सूत्रे "एक हलदौ" ६।३।५० इत्यतः सूत्रादन्यतरस्यांग्रहणमनुवत्र्तते, सा च व्यवस्थितविभाषा विज्ञायते। तेन कारीषगन्धीपुत्र इत्यत्र न भवति। "अकृत एव" इत्यादि। अथ वा--अकृत एव सम्प्रसारणदीर्घत्वे कारीषगन्धिपुत्र इति स्थिते ह्यस्वत्वं प्राप्नोति, सम्प्रसारणदीर्घत्वं च; उभयं चैतत्? सावकाशम्(), इको ह्यस्वतवस्यावकाशः--ग्रामणिपुत्र इति, सम्प्रसारणस्यावकाशः--ह्यस्वाभावः; पक्षे तूभयं प्राप्नोति। तत्र यद्यपि ह्यस्वाभावपक्षे कृतार्थ दीर्घत्वम्(), तथापि तेन परत्वाद्? ह्यस्वो बाध्यते। अथ कृते दीर्घत्वे कस्मात् पुनःप्रसङ्गविज्ञानान्न भवति? अत आह--"पुनःप्रसङ्गविज्ञानञ्च" इत्यादि। गतार्थम्()॥ इति बोधिसत्त्वदेशीयाचार्यश्रीजिनेन्द्रबुद्धिपादविरचितायां काशिकाविवरणपञ्जिकायां षष्ठाध्यायस्य तृतीयः पादः॥ - - - अथ षष्ठोऽध्यायः चतुर्थः पादः
तत्त्व-बोधिनी
संप्रसारणस्य ८४१, ६।३।१३८

संप्रसारणस्य। "उत्तरपदे"इत्यधिक्रियते। "ढ्रलोपे"इत्यतो "दीर्घ" इत्यनुवर्तते। तदाह---दीर्घः स्यादुत्तरपद इति। "हलः"इति दीर्घोऽत्र न प्रवर्तते, प्रत्ययस्य लुका लुप्तत्वेनाङ्गसंज्ञाया अप्रवृत्तेः। कौमुदगन्ध्याया इति। कुमुदगन्धेरपत्यं स्त्री कौमुदगन्ध्या। "तस्यापत्य"मित्यणि कृते "अणिञो"रिति ष्यङादेशः। "यङश्चाप्"। ननु "कौमुदगन्धीपुत्रः"इत्यादौ "इको ह्यस्वोऽङ्योगालवस्ये"ति ह्यस्वेन भाव्यं, दीर्घविधानं तु पक्षे सावकाशमित्यत आह--व्यवस्थितविभाषयेति। नेहेति संप्रसारणमिह नेत्यर्थः। अतिकारीषेति। कारीषगन्ध्यामतिक्रान्तोऽतिकारकीषगन्ध्यः, तस्य पुत्रः।