पूर्वम्: ६।३।२३
अनन्तरम्: ६।३।२५
 
सूत्रम्
आनङ् ऋतो द्वंद्वे॥ ६।३।२४
काशिका-वृत्तिः
अनङृतो द्वन्द्वे ६।३।२५

ऋकारान्तानां विद्यायोनिसम्भन्धवाचिनां यो द्वन्द्वस् तत्र उत्तरपदे पूर्वपदस्य आनङादेशो भवति। होतापोतारौ। नेष्टोद्गातारौ। प्रशास्ताप्रतिहर्तारौ। योनिसम्बन्धेभ्यः मातापितरौ। याताननान्दरौ। मकारोच्चारणं रपरत्वनिवृत्त्यर्थम्। ऋतः इति किम्? पितृपितामहौ। पुत्रे इत्यत्र अनुवर्तते, ऋतः इति च। तेन पुत्रशब्दे ऽप्युत्तरपदे ऋकारान्तस्य अनङादेशो भवति। पितापुत्रौ। मातापुत्रौ।
न्यासः
आनङ् ऋतो द्वन्द्वे। , ६।३।२४

"ऋकारान्तानां विद्यायोनिसम्बन्धवाचिनां यो द्वन्द्वः" इत्यादि। अथ ऋकारान्तसय द्वन्द्व आनङ् भवतीत्येवं कस्मान्न विज्ञायते? अशक्यमेवं विज्ञातुम्(); इहापि प्रसज्येत--पितृपितामहाविति। ङकारोऽन्त्यादेशार्थः। इह हि वर्णानामुपदेशः--कार्यार्थः, श्रवणार्थो वेति, नकारश्चायं न क्वचित्? श्रूयते, सर्वत्रैव ह्रस्य "नलोपः प्रातपदिकान्तस्य" ८।२।७ इति लोपेन भवितव्यम्(), नापि किञ्चित्? कार्यमस्योपलभ्यते, तत्? किमर्थं नकारस्योच्चारणम्()? इत्याह--"नकारोच्चारणम्()" इत्यादि। असति नकार ऋकारस्या स्थानेऽणेव शिष्यते, ततश्च "उरण्? रपरः" १।१।५० इति रपरत्वं स्यात्()। नकारे तु सति नायमणेव शिष्यते, अपि तवण्? चानङ् चेति न भवति रपत्वप्रसङ्गः। न हि यत्राण्? अनण्? चेति शिष्यते तत्र रपरत्वं भवति। यथा "सुधातुरकङ्? च" ४।१।९७ इति सौधातकिरित्यत्र। तस्मादत्र रपरत्वनिवृत्त्यर्थ नकारोच्चारणम्()। अथ पितापुत्रौ, मातापुत्रौ इत्यतर कथमानङादेशः, न ह्रत्र ऋकारान्तानां द्वन्द्वः? इत्याह--"पुत्र इत्यत्रानुवत्र्तते" इति। "पुतरेऽन्यतरस्याम्()" ६।३।२१ इत्यतः पुत्र इत्येतदत्रानुवत्र्तत इत्यभिप्रायः। यदि तु पुत्र इत्यनुवर्तते, तदा "विभाषा स्वसृपत्योः" (६।३।२४) इत्यत्र पुत्रेऽपि विभाषा प्राप्नोति? नैष दोषः; मण्डूकप्लुतिन्यायेन तदनुवत्र्तते। अत एवात्रेत्युक्तं तत्रैवानुवत्र्तते, न पर्वत्रेति प्रतिपादनार्थम्()। नन्वेवमपि पुत्रशब्द उत्तरपदे पूर्पदमात्रस्यानङ् प्राप्नति; कार्यिणेहानिर्देशादुत्तरपदशब्देन च पूर्वपदमात्रस्याक्षिप्तत्वात्(), न च शक्यते वक्तुम्()--ऋत इति वचनादृकारस्य भविष्यतीति, तस्मादेकमिह ऋत इति वचनं द्वन्द्वस्य विशेषणम्(), न कार्यिणः? इत्याह--"ऋत इति च" इति। अत्रानुवत्र्तत इति सम्बन्धः। "ऋतो विद्यायोनिसम्बन्धेभ्यः" ६।३।२२ इत्यत ऋत इत्यनुवत्र्तते, तत्? कार्यिणो विशेषणं भविष्यति। ननु तत्? पञ्चमीनिर्दिष्टम्(), षष्ठीनिर्दिष्टेन चेहार्थः? नैषदोषः; पुत्र इत्येषा सप्तमी ऋत इत्यस्याः पञ्चम्याः षष्ठीत्वं प्रकल्पयिष्यति--"तस्मिन्निति निर्दिष्टे पूर्वस्य" १।१।६५ इति। नन्वेवमपि विरोधः, तथा हि--यदि पुत्रशब्द उत्तरपदम्(), कथं तदा ऋकारान्तानां द्वन्द्वः, ऋकारान्तानां द्वन्द्वो न तर्हि पुत्रशब्द उत्तरपदमिति? नैतदस्ति; अन्य एव हि स द्वन्द्वो यस्य ऋत इत्येतद्विशेषणम्()। अन्यशाच स यस्य पुत्रशब्द उत्तरपदमिति कोऽत्र विरोधः॥
बाल-मनोरमा
आनङृतो द्वन्द्वे ९११, ६।३।२४

आनङृतो द्वन्द्वे। विद्यायोनिसंबन्धवाचिनामिति। विद्यासंबन्धवाचिनां, योनसंबन्धवाचिनां चेत्यर्थः। "ऋतो विद्यायोनिसम्बन्धेभ्यः" इत्यतस्तदनुवृत्तेरिति भावः। ऋदन्तानामिति। बहुत्वे व्यत्ययेन "ऋतः" इत्येकवचनम्। ऋदन्तसर्वावयवकानामित्यर्थः। "ऋत" इत्यनुवर्तमाने पुनरृत इत्युक्तिरेतदर्थेति भावः। उत्तरपदे परे इति। "ऋत" इत्यनुवर्तमाने पुनरृत इत्युक्तिरेतदर्थेति भावः। उत्तरपदे परे इति। "अलुगुत्तरपदे" इत्यधिकारादिति भावः। होतापोताराविति। होता च पोता चेति विग्रहः। विद्याद्वारकैकयज्ञ()त्वक्त्वकृतः सम्बन्धः। आनङि ङकार इत्, अकार उच्चारणार्थः, ङिच्चे"त्यन्तादेशः, नलोपः, नकारस्तु रपरत्वनिवृत्त्यर्थ इति भाष्ये स्पष्टम्। होतृपोत्रिति। अत्र होतृशब्दस्य पोतृशब्दस्य च नाऽ‌ऽनङ्, नेष्टुशब्देन व्यवधानादुत्तरपदपरकत्वाऽभावात्। तथाच नेष्टृशब्दस्यैवाऽ‌ऽनङ्। उत्तरपदेन तु न पूर्वपदमाक्षिप्यते, समर्थसूत्रे नेष्टृशब्दस्याऽ‌ऽनङदर्शनात्। अथ योनिसबन्धमुदाहरति--मातापितराविति। पितृपितामहावित्यादौ तु नाऽ‌ऽनङ्, ऋदन्तसर्वावयवकत्वाऽभावादिति भावः। तर्हि पितापुत्राविति कथमित्यत आह--पुत्रेऽन्यतरस्यामिति। "ऋतो विद्यायोनिसंबन्धेभ्यः" इत्यत्र "विभाषा स्वसृपत्योः" इत्यत्र च मध्येऽसम्बन्धादाह--मण्डूकेति। अनुवृत्तेरिति। नच तातपुत्रावित्यत्रापि स्यादिति वाच्यम्, ऋदन्तस्य पुत्रे परे आनङ् स्यादिति वाक्यभेदेन व्याख्यानात्।

तत्त्व-बोधिनी
आनङृतो द्वन्द्वे ७८७, ६।३।२४

आनङ्। "ऋत"इति षष्ठ()न्तं जातावेकवचनम्। "ऋतो विद्यायोनिसंबन्धेभ्यः" इति त्वनुवर्तते, तच्चात्र षष्ठ()आ विपरिणम्यते, तदाह--विद्यायोनिसंबन्धवाचिनामिति। ननु "ऋतः"इत्यनुवर्तनादेव सिद्धे किमनेन ऋतो ग्रहणेन()। अत्राहुः--"ऋतः"इति श्रूयमाणद्वन्द्वविशेषणम्। अनुवृत्तं तूत्तरपदे परतो यत्पूर्वं तस्य विशेषणं, पुत्रशब्दे पर आनङ् विधास्यते तत्र कार्यिनिर्देशार्थम्। अन्यथा तातपुत्रावित्यत्रापि स्यादिति। उत्तरपदे इति। एतच्च "अलुगुत्तरपदे"इत्यधिकारल्लभ्यते। उत्तरपदे परतः पूर्वं यदृदन्तं तस्याऽ‌ऽनङित्यर्थः। होतापोतारावेति। आनङो ङित्त्वात्पूर्वान्त्यस्य ऋकारस्याऽ‌ऽदेशे सति नलोपः। न चाऽ‌ऽकारमात्रमेव विधीयतामिति वाच्यम्, "उरण्रपरः"इति रपरप्रसङ्गात्, नन्विहोत्तरपदेन पूर्वपदं नाक्षिप्यते, अन्यथा "होतृपोतृनेष्टोद्गातार"इत्यत्र मध्यमस्याऽ‌ऽनङ् न स्यात्। ततश्च विशेष्याऽसन्निधानदृत एव स्थाने आदेशेन भवितव्यं, न तु ऋदन्तपदस्य स्थाने इति किमनेनानङो ङित्करणेन()। सत्यम्। ङित्करणाऽभावे मित्रावरुणावित्यादौ "देवताद्वन्द्वे चे"त्युत्तरपदे परे विधीयमानोऽयमादेशः पूर्वस्याक्षरस्य पदस्य वा स्यात्, पूर्वस्याऽल एवेत्यत्र नियामकाऽभावत्। एतेन" ऋत इति कार्यिनिर्देशार्थ"मित्युक्तत्वान्निर्दिश्यमानस्य ऋकारस्यैवादेशः स्यादिति ङित्करणं व्यर्थमित्याशङ्कापि परास्त। नेष्टोद्गतार इति। न ह्रत्र नेष्टा पूर्पदम्, आद्यवयवस्यैव पूर्वपदत्वात्। मातापितराविति। पुत्रोत्पादने अनयोर्योनिकृतः संबन्धः, पूर्वत्र तु हौत्रादिरूपविद्याकृतः सम्बन्ध एकस्मिन्यज्ञे आत्विज्यरूप इति विवेकः। मण्हूकप्लुत्येति। तेन "विभाषा स्वसृपत्यो"रित्यत्र न संबध्यत इति भावः। पितापुत्राविति। अनयोरपि योनिकृतः सम्बन्धास जन्यजनकभावलक्षणः।