पूर्वम्: ६।३।४०
अनन्तरम्: ६।३।४२
 
सूत्रम्
पुंवत् कर्मधारयजातीयदेशीयेषु॥ ६।३।४१
काशिका-वृत्तिः
पुंवत् कर्मधारयजातीयदेशीयेषु ६।३।४२

कर्मधरये समासे जातीय देशीय इत्येतयोश्च प्रत्यययोः भाषितपुंस्कादनूङ् स्त्रियाः पुंवद् भवति। प्रतिषेधर्थो ऽयम् आरम्भः। न कोपधायाः ६।३।३६ इत्युक्तम्, तत्र अपि भवति। पाचकवृन्दारिका। पाचकजातीया। पाचकदेशीया। संज्ञापूरण्योश्च ६।३।३७ इत्युक्तम्, तत्र अपि भवति। दत्तवृन्दारिका। दत्तजातीया। दत्तदेशीया। पूरण्याः पञ्चमवृन्दारिका। पञ्चमजातीया। पञ्चमदेशीया। वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकरे ६।३।३८ इत्युक्तम्, तत्र अपि भवति। स्रौघ्नजातीया। स्रौघ्नदेशीया। स्वाङ्गाच् च इतो ऽमानिनि ६।३।३९ इत्युक्तम्, तत्र अपि भवति। श्लक्ष्णमुखवृन्दारिका। श्लक्ष्णमुखजातीया। श्लक्ष्णमुखदेशीया। जातेश्च ६।३।४० इत्युक्तम्, तत्र अपि भवति। कठवृन्दारिका। कठजातीया। कठदेशीया। भाषितपुंस्क्कातित्येव, खट्वावृन्दारिका। अनूगित्येव, ब्रह्मबन्धूवृन्दारिका। कुक्कुट्यादीनामण्डादिषु पुंवद्भावो वक्तव्यः। कुक्कुट्याः अण्डम् कुक्कुटाण्डम्। मृग्याः पदम् मृगपदम्। मृग्याः क्षीरम् मृगक्षीरम्। काक्याः शावः काकशावः। न वा अस्त्रीपूर्वपदस्य विवक्षितत्वात्। स्त्रीत्वेन विना पूर्वपदार्थो ऽत्र जतिः सामान्येन विवक्षितः। पुंवद्भावात् ह्रस्वत्वम् खिद्घादिषु भवति विप्रतिषेधेन। खित् कालिम्मन्या। हरिणिम्मन्या। घादि पट्वितरा। पट्वितमा। पट्विरूपा। पट्विकल्पा। क पट्विका। मृद्विका। इह इडबिड्, दरद्, पृथु, उशिजित्येते जनपदशब्दाः क्षत्रियवाचिनः, तत्र तद्राजप्रत्ययस्य स्त्रियमतश्च इति लुकि कृते इडबिड्वृन्दारिका इति विगृह्य समासः क्रियते। ततः पुंवद्भवेन ऐडबिडादयः पुंशब्दाः क्रियन्ते। ऐडबिडवृन्दारिका। औशिजवृन्दारिका।
न्यासः
पुंवत्कर्मधारयजातीयदेशीयेषु। , ६।३।४१

ननु च कर्मधारये "स्त्रियाः पुंवत्()" ६।३।३३ इत्यादिना पुंवद्भावः सिद्धः, जातीयदेशीयशब्दयोरपि "तसिलादिष्वाकृत्वसुचः" ६।३।३४ इत्यादिना, तत्? किमर्थोऽयमारंभः? इत्यत आह--"प्रतिषेधार्योऽयमारमभः" इति। परतिषेधविषयः प्रतिषेधशब्देनोक्तः। साहचर्यात्? प्रतिषेधोऽर्थः प्रयोजनं यस्येति स तथोक्तः। यत्र विषये प्रतिषेध उक्तस्तत्र पुंवद्भावः प्रयोजनमित्यर्थः। अथ वा--अर्थशब्दो निवृत्ताविह--वत्र्तते, यथा--मशकार्थो धूम इति। तेनायमर्थो भवति--प्रतिषेधनिवृत्यर्थोऽयमारम्भ इति। "भाषितपुंस्कादित्येव" इति। यदि "भाषितपुंस्कादनूङ्()" ६।३।३३ इति च नानुवत्र्तते, तदाऽभाषितपुंस्कार्थमनूङर्थञ्चेदं वचनं स्यात्(), न प्रतिषेधार्थम्()। एवं च खट्वावृन्दारिका, ब्राहृबन्धूवृन्दारिकेत्यात्रापि पुंवद्भावः स्यात्()। तस्माद्भाषितपुंस्कादनूङित्यनुवत्र्तनीयम्()। "कुक्कुट()आदीनाम्()" इत्यादि। उत्तरपदस्यान्तादेरस्त्रीत्वादसामानाधिकरण्याच्च पुंवद्भावो न प्राप्नोतीत्युपसंख्यायते। "न वा" इत्यनेनोपसंख्यानं प्रत्याचष्टे-- न वा वक्तव्यः, कस्मात्()? अस्त्रीपूर्वपदस्य विवक्षितत्वात्()। अस्त्रीलिङ्गस्य पूर्वपदस्य विवक्षितत्वादित्यभिप्रायः। अस्यैवार्थं विस्पष्टीकर्त्तुमाह--"स्त्रीत्वेन विना" इत्यादि। अत्र हि मयूरादिजात्यन्तरस्या निवृत्तिर्विवक्षिता। जात्यन्तरनिवृत्तिपरायां देशनायां लिङ्गविशेषोपादानमनुपकारकमेव। विनापि तेन जात्यन्तरनिवृत्तिः शक्यत एव कत्र्तम्()। तथा हि--मृगमांसमित्युक्ते अन्तरेणापि लिङ्गविशेषोपादानं जात्यन्तरसय व्यवच्छेद उपपद्यते--मृगजातिसम्बन्धि मांसम्(), नान्यजातिसम्बन्धीति। तस्मात्? स्त्रीत्वमत्रानुपकारित्वान्न विवक्षितम्(), अतः स्त्रीत्वेन विना पूर्वपदस्यार्थोऽत्रि कुक्कुटाण्डादौ जातिसामान्येन स्त्रीत्वदविशेषविहितो विवक्षित इत्यर्थः। ततश्चास्त्रीलिङ्गा एवात्र कुक्कुटादयः शब्दा अण्डादिभिः शब्दं समस्यन्त इति भावः। कः पुनरसौ पूर्वपदार्थः? कुक्कुटादिजात्या व्यवछिन्नं द्रव्यमात्रम्()। "पुंवद्भावात्()" इत्यादि। अत्र खिति पुंवद्भावाद्घ्रस्वत्वं विप्रतिषेधेन भवतीति पूर्वमेव व्याख्यातम्()। घादिषु तु व्याख्यायते। घादिषु ङ्यो ह्यस्वो भवतीत्यस्यावकाशः--नत्र्तकितरा, नत्र्तकितमा, नत्र्तकिरूपा, नत्र्तकिकल्पेति; पुंवद्भावस्यावकाशः--दर्शनीयतरा, दर्शनीयतमां, दर्शनीयरूपा, दर्शनीयकल्पेति; इहोभयं प्राप्नोति---पट्वितरा, पट्वितमा; पट्()विरूपा, पट्विकल्पेति; विप्रतिषेधेन ह्यस्वत्वं भवति। "केऽणः" ७।४।१३ इति ह्यस्वस्यावकाशः--नर्तकिकेति; अज्ञातादावर्थे "प्रागिवात्? कः" ५।३।७० पूर्वद्भावस्यावकाशः--दारदिकेति। दरच्छब्दस्यात्र के परतः "तसलादिष्वाकृत्वासुचः" ६।३।३४ इति पुंवद्भावेन दारदशब्दो भवति। अतष्टापि कृते "प्रत्ययस्थात्? कात्()" ७।३।४४ इत्यादिनेत्त्वमिहोभयं प्राप्नोति। "पट्विका" इति। अत्र विप्रतिषेधेन ह्यस्वत्वं भविष्यति। केन पुनः पुंवद्भावः, यावता तसिलादिषु परिगणनं कृतम्(), न च ततर कप्रत्ययः परिगणितः? एतत्? भाष्यकारः प्रष्टव्यो यः परिगणनं करोति, न तु सूत्रकारः। पूर्व यस्य सिद्धयेऽनूङिति प्रसज्यप्रतिषेध आश्रितस्तद्दर्शनार्थमाह--"इह" इत्यादि। "तत्र तद्राजप्रत्ययस्य" इत्यादि। तत्रेडविट्, पृथु इत्येताभ्यां "जनपदशब्दात्? क्षत्रियादञ्()" ४।१।१६६ इति विहितस्याञस्तद्राजप्रत्ययस्य "अतश्च" ४।१।१७५ इति लुक्()। दरद्? उशिजित्येताभ्यां तु "द्व्यञ्मगध" ४।१।१६८ इत्यादिना विहितस्याणः। इडविट्? चासौ वृन्दारिका चेति विगृह्र समास इति। "विशेषण" इत्यादिना, "अत्रैडविडादयः" [नास्ति--काशिका] इति आदिशब्देन दारदः, पारथः, औशिज इत्येते गृह्रन्ते॥
बाल-मनोरमा
पुंवत्कर्मधारयजातीयदेशीयेषु ७३६, ६।३।४१

पुंवत्कर्मधारय। "स्त्रियाः पुंवद्भाषितपुंस्कादनू"ङिति वर्तते। एकापि सप्तमी विषयभेदाद्भिद्यते। कर्मधारयांशेऽधिकरणसप्तमी। जातीयदेशीयविषये परसप्तमी। तदाह--कर्मधारये इति। "तथाभूत"मित्यनन्तरं "स्त्रीवाचक"मिति शेषः। "भाषितपुंस्कादनू"ङित्येतत् "स्त्रियाः पुंवत्" इति सूत्रे स्फुटीकरिष्यते। ननु कर्मधारये "स्त्रियाः पुंव"दित्यनेन सिद्धं पुंवत्त्वं, जातीयदेशीययोस्तु "तसिलादिष्वाकृत्वसुचः" इत्यनेन सिद्धमित्यत आह--पूरणीप्रियादिष्वप्राप्त इति। अपूरणीप्रियादिष्विति पर्युदासादिति भावः। महानवमीति। महती चासौ नवमी चेति विग्रहः। "सन्महदि"त्यादिना समासः। नवानां पूरणी नवमी। "तस्य पूरणे डट्""नान्तादसंख्यादेर्मट्"। टित्त्वान्ङीप्। अत्र नवमीशब्दस्य पूरणप्रत्ययान्तत्वात्तस्मिन् परे "स्त्रियाः पुंवत्" इति पुंवत्त्वमप्राप्तमनेन विधीयते। कृते पुंवत्त्वे "आन्महतः" इत्यात्त्वमिति भावः। कृष्णचतुर्दशीति। चतुर्दशानां पूरणी-चतुर्दशी। डट। "नस्तद्धिते" इति टिलोपः। टित्त्वान्ङीप्। कृष्णा चासौ चतुर्दशी चेति विग्रहः। महाप्रियेति। महती चासौ प्रिया चेति कर्मधारयः। अत्रापि प्रियादिपर्युदासादप्राप्तमनेन विधीयत इति भावः।

"पुंवत्कर्मधारय" इत्यस्य प्रयोजनान्तरमाह--तथा कोपधादेरिति। "न कोरधायाः" "संज्ञीपूरण्योश्च" "वृद्धिनिमित्तस्य च तद्धितस्याऽरक्तविकारे" "स्वाङ्गाच्चेतः" "जातेश्चे"ति पञ्चसूत्र्या प्रतिषिद्ध इत्यर्थः। कर्मधारयादाविति। कर्मधारये जातीयदेशीययोश्च परयोरित्यर्थः। पाचकस्त्रीति। पाचिका चासौ स्त्री चेति कर्मधारयः। अत्र "न कोपधायाः" इति पुंवत्त्वस्य प्रतिषेधः प्राप्तः। दत्तभार्या पञ्चमभार्येति दत्ता चासौ भार्या चेति, पञ्चमी चासौ भार्या चेति च कर्मधारयः। अत्र "संज्ञापूरण्योश्चे"ति प्रतिषेधः प्राप्तः। रुआऔग्घ्नभार्येति। रुआऔग्घ्नी चासौ भार्या चेति कर्मधारयः। अत्र "वृद्धिनिमित्तस्य चे"ति प्रतिषेधः प्राप्तः। सुकेशभार्येति। सुकेसी चासौ भार्या चेति कर्मधारयः। अत्र "स्वाङ्गाच्चेत" इति निषेधः प्राप्तः। ब्राआहृणभार्येति। ब्राआहृणी चासौ भार्या चेति कर्मधारयः। अत्र "जातेश्चे"ति निषेधः प्राप्तः।

अथ जातीयदेशीययोः प्रतिप्रसवमुदाहरति--एवं पाचकजातीया पाचकदेशीयेति। "प्रकारवचने" इति जातीयर्। "ईषदसमाप्तौ" इति दैशीयर्। उभयत्रापि "तसिलादिषु" इति पुंवत्त्वस्य "न कोपधायाः" इति निषेधः। प्राप्तः। इत्यादीति। दत्तजातीया, दत्तदेशीया। पञ्चमजातीया, पञ्चमदेशीया। रुआऔघ्नजातीया, रुआऔघ्नदेशीया। सुकेशजातीया, सुकेषदेशीया। ब्राआहृणजातीया, ब्राआहृणदेशीया। तदेवं पुंवत्कर्मधारये"ति सूत्रं निरूप्य "पोटायुवती"ति सूत्रस्य क्रमेणोदाहरणान्याह--इभपोटेति। पोटा चासौ इभी चेति कर्मधारयः। इभीशब्दस्य पुंवत्त्वम्। जातेः पूर्वनिपातार्थमिदं सूत्रम्। पोटा स्त्रीपुंसलक्षणेति। कोशवाक्यमिदम्। स्त्रीपुंसयोर्लक्षणानि चिह्नानि यस्या इति बहुव्रीहिः। इभयुवतिरिति। युवतिश्चासौ इभी चेति विग्रहः। कर्मधारये पुंवत्त्वम्। अग्निस्तोक इति। स्तोकः= अल्पः, स चासौ अग्निश्चेति विग्रहः। उद()इआत्कतिपयमिति। "तक्रं ह्रुद()इआत्" इत्यमरः। कतिपयं च तदुद()इआच्चेति कर्मधारयः। गृष्टिः सकृत्प्रसूतेति। कोशवाक्यमिदम्। गोगृष्टिरिति। गृष्टिश्चासौ गौश्चेति कर्मधारयः। धेनुर्नवप्रसूतेति। कोशवाक्यमिदम्। गोवशेति। वशा चासौ गौश्चेति विग्रहः बेहद्नर्भघातिनीति। कोशवाक्यमिदम्। गोवेहदिति। वेहच्चासौ गौश्चेति विग्रहः। बष्कयण्यतरुणवत्सेति। "चिरसूता बष्कयणी" इत्यमरः। "तरुणवत्से"त्यपपाठः। गोबष्कयणीति। बष्कयणी चासौ गौश्चेति विग्रहः। कठप्रवक्तेति। प्रवक्ता=अध्यापकः, स चासौ कठश्चेति विग्रहः। कठाध्यापक इति। अध्यापकश्चासौ कठश्चेति विग्रहः। कठधूर्त इति। धूर्तश्चासौ कठश्चेति विग्रहः। "धूर्तोऽक्षदेव"त्यमरः विट इत्यन्ये। नच "कुत्सितानि कुत्सनैः" इत्यनेन सिद्धिः शङ्क्या, प्रवृत्तिनिमित्तकुत्सायामेव तत्प्रवृत्तेः। न हि कठत्वं कुत्सितदम्।

तत्त्व-बोधिनी
पुंवत्कर्मधारयजातीयदेशीवेषु ६५१, ६।३।४१

भाषुतपुंस्कादित्यादि। एतच्च "स्त्रियाः पुंव"दिति सूत्रे स्फुटीकरिष्यते। ननु तेनैव कर्मधारयेऽपि सिद्धं जातीयदेशीययोस्तु "तसिलादिष्वि"ति सिद्धं, तत्किमनेन सूत्रेणेत्यत आह--पूरणीप्रियादिष्विति। तथेति च। महानवमीति। नवानां पूरणी। "तस्य पूरणे डट्""नान्तादसङ्ख्यादेर्मट"। टित्त्वान्ङीप्। महती चासौ नवमी चेत् विग्रहः। पुंवद्भावे कृते वक्ष्यमाणेन महत आकारः। कोपधादेरिति। "न कोपधायाः" "संज्ञापूरण्योश्च" "वृद्धिनिमित्तस्य च तद्धितस्याऽरक्तविकारे" "त्वाह्गाच्चेतः""जातेश्चे"ति पञ्चसूत्र्या प्रितषिद्ध इत्यर्थः। क्रमेणोदाहरति--पाचकस्त्रीति। जातीयदेशययोरपि प्रतिप्रसवमुदाहरति--एवमिति। पाचिकाप्रकारवती पाचकजातीया। " प्रकारवचने जातीयर्"। पाचकदेशीयेति। "ईषदसमाप्तौ"इति देशीयर्। उभयत्र "तसिलादिषु"इति पुंवद्भावस्य "न कोपधायाः" इति निषेधः प्राप्तः, पटुजातीया पटुदेशीयेत्यादौ तस्य चरितार्थत्वात्। इत्यादीति। आदिपदाद्दत्तजातीया, पञ्चमजातीया, रुआऔग्ध्नजातीया, सुकेशजातीयै, ब्राआहृणजातीया। एवं दत्तदेशीयेत्याद्युदाहार्यम्। स्त्रीपुंसलक्षणेति। स्तनश्मश्र्वादियुक्ता स्त्रीत्यर्थः। उद()इआदिति। "तक्रं ह्रुद()इआन्मथितं प#आदाम्ब्वार्धाऽम्बु निर्जल"मित्यमरः। कठधूर्त इति। नात्र कठत्वं कुत्स्यते, अतः "कित्सितानि कुत्सनैः" इति गतार्थता शङ्क्या, प्रवृत्तिनिमित्तकुत्सायामेव तस्य प्रवृत्तेः। "जनयति कुमुदभ्रान्ति धूर्तबको बालमत्स्याना"मित्यत्र "धूर्तबक"इत्यसाधुरेव।