पूर्वम्: ६।३।६२
अनन्तरम्: ६।३।६४
 
सूत्रम्
त्वे च॥ ६।३।६३
काशिका-वृत्तिः
त्वे च ६।३।६४

त्वप्रत्यये परतो ङ्यापोः बहुलं ह्रस्वो भवति। तदजाया भावः अजत्वम्, अजात्वम्। तद्रोहिण्या भावः रोहिणित्वम्, रोहिणीत्वम्। संज्ञायाम् असम्भवाच् छन्दस्येव उदाहरणानि भवन्ति।
न्यासः
त्वे च। , ६।३।६३

"संज्ञायामसम्भवाच्छन्दस्येवोदाहरणानि भवन्ति" इति। एवकारेण संज्ञाया व्यवच्छेदः क्रियते। न हि त्वप्रत्यये ङ्यापोह्र्यस्वत्वे कृते कस्यचित्? संज्ञा गम्यते। तेन संज्ञायामसम्भवाच्छन्दस्येवोदाहरणानि भवन्ति॥
बाल-मनोरमा
त्वे च ९८७, ६।३।६३

त्वे च। शेषपूरणेन सूत्रं व्याचष्टे--त्वप्रत्यये ङ्यापोर्वा ह्यस्व इति। अजत्वं रोहिणित्वमिति। संज्ञात्वाऽभावाच्छन्दस्येवाऽयमिति वृत्तिः। अनुत्तरपदार्थं वचनम्।