पूर्वम्: ६।३।६४
अनन्तरम्: ६।३।६६
 
सूत्रम्
खित्यनव्ययस्य॥ ६।३।६५
काशिका-वृत्तिः
खित्यनव्ययस्य ६।३।६६

खिदन्ते उत्तरपदे ऽनव्ययस्य ह्रस्वो भवति। कालिंमन्या। हरिणिम्मन्या। मुमा ह्रस्वो न बाध्यते, अन्यथा हि ह्रस्वशासनम् अनर्थकं स्यात्। अनव्ययस्य इति किम्? दोषामन्यमहः। दिवामन्या रात्रिः। अनव्ययस्य इत्येतदेव ज्ञापकम् इह खिदन्तग्रहणस्य।
लघु-सिद्धान्त-कौमुदी
खित्यनव्ययस्य ८०९, ६।३।६५

खिदन्ते परे पूर्वपदस्य ह्रस्वः। ततो मुम्। कालिम्मन्या॥
न्यासः
खित्यनव्ययस्य। , ६।३।६५

"कालिम्मन्या, हरिणिम्मन्या" इति। कालीमात्मानं मन्यते हरिणीमात्मानं मन्यत इति "आत्ममाने खश्च" ३।२।८३ इति खश्(), दिवादित्वाच्छ्यन्(), अनेन ह्यस्वत्वम्(), उत्तरसूत्रेण मुम्()। इहाजन्तस्य ह्यस्वत्वमभ्युपगम्यम्(); अन्यथा वाङ्मन्य इत्यत्रापि स्यात्()। अजन्तस्य ह्यस्वविधाने सति परत्वान्मुमि कृतेऽनजन्तत्वाध्यस्वो न प्राप्नोतीति यो मन्येत तं प्रत्याह--"मुमा ह्यस्वो न बाध्यते" इति। अत्रैव हेतुमाह--"अन्यथा हि" इत्यादि। ह्यस्वः शिष्यते=विधीयते येन तत्? ह्यस्वशासनं "खित्यनवययस्य " इत्येतद्ववचनम्()। यदि हि मुमा ह्यस्वो बाध्येत, ततो ह्यस्वशासनामिदमनवकाशं स्यात्(), ततस्तस्यानर्थक्यमेव स्यात्()। तस्मान्मा भूदेष दोष इति मुमा ह्यस्वो न बाध्यते। तेन विरोधाभावादुभयं भवति--ह्यसवः, मुम्? च। कथं पुनर्मुमा ह्यस्वसय बाधा शङ्किता? कथं वा ह्यस्वशासनस्यानवकाशत्वम्(), यावता खित्यजन्तस्याविशेषेण मुम्? विधीयते, ह्यस्वत्वं बाधा शङ्किता? कथं वा ह्यस्वशासनस्यानवकाशत्वम्(), यावता खित्यजन्तस्याविशेषेण मुम्? च। कथं पुनर्मुमा ह्यस्वस्य बाधा शङ्किता? कथं वा ह्यस्वशासनस्यानवकाशत्वम्(), यावता खित्यजन्तस्याविशेषेण मुम्? विधीयते, ह्यस्वतवं तु सामथ्र्याद्दीर्घस्य, न हि ह्यसवस्य ह्यस्वविधानमर्थवद्भवति, एवं च स्तनन्धयादिषु कृतार्थत्वान्मुमेव ह्यस्वेनापवादेन कालिम्मन्यादिषु बाध्येत? एवं मन्यते--अपवादविषयेऽपि मुमा विधानार्थं मुम्शास्त्रस्यावश्यमावृत्तिः कर्ततव्या; अन्यथा कालिम्मन्येत्यतर मुम्? न स्यात्()। ततश्चापवादविषयेऽपि मुमा प्रवत्र्तमानेन ह्यसवस्य बाधा सम्भाव्येत। अनवकाशत्वं चातएवापवादविषयेऽपि मुम्प्रवृत्तेरिति। अथ कथमत्र खिदन्तस्य गरहणम्(), यावता ज्ञापितमेतदुत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तविधीर्नास्ति? (पु।प।पा।२६) त्यत आह--"अनवययस्येत्येतदेव" इत्यादि। यद्यत्र खित्प्रतययमात्रं गृह्रेत न तदन्तम्(), ततोनव्ययस्येति प्रतिषेधोऽपार्थकः स्यात्()। न ह्रव्ययात् परः खित्? प्रतययः सम्भवति; धातोरेव तस्य विधानात्()। ततश्चानर्थकत्वादनव्ययस्येत्येतन्नोक्तं स्यात्()। उक्तञ्च--तस्मादेतदेवै तज्ज्ञापयति--खिदन्तस्यात्र ग्रहणमिति॥
बाल-मनोरमा
खित्यनव्ययस्य ७५६, ६।३।६५

खित्यनव्ययस्य। ह्यस्वः स्यादिति। "इको ह्यस्वोऽङ्यो गालवस्य" इत्यतस्तदनुवृत्तेरिति भावः। अत्र ह्यस्वश्रुत्या अच इत्युपस्थितं द्रष्टव्यम्। ततो मुमिति। पूर्वं ह्यस्वे कृते ततो मुमित्यर्थः। पूर्वं मुमि कृते तु अजन्तत्वाऽभावाद्ध्रस्वो न स्यादिति भावः। शर्धञ्जहा माषा इति। भाष्ये तु "मृगा" इति पाठः। शर्द्धः अपानद्वारे स्थितः शब्द इति माधवादयः। अन्तर्भावितेति। तथा च शद्र्ध हापयन्तीति विग्रहः फलितः। भाष्ये तु "वातशुनी"इति वार्तिके गर्धे"ष्विति पठितम्।

तत्त्व-बोधिनी
खित्यनव्ययस्य ६३१, ६।३।६५

शर्द्धंजहा इति। शर्धनं शर्धः। शृधु कुत्सायाम्। घञ्। तं जहाति इति। ननु माषाः शद्र्धमपानशब्दं त्याजयन्ति न तु स्वतो जहतीत्याशङ्कायामाह-- अन्तर्भावितण्यर्थ इति। यथासङ्ख्यं वारयितुमाह-- अत्रेति।