पूर्वम्: ६।३।६५
अनन्तरम्: ६।३।६७
 
सूत्रम्
अरुर्द्विषदजन्तस्य मुम्॥ ६।३।६६
काशिका-वृत्तिः
अरुर्द्विषदजन्तस्य मुम् ६।३।६७

अरुस् द्विषतित्येतयोरजनतानां च खिदन्त उत्तरपदे मुमागमो भवति अनव्ययस्य। अरुन्तुदः। द्विषन्तपः। अजन्तानाम् कालिम्मन्या। अरुर्द्विषदजन्तस्य इति किम्? विद्वन्मन्यः। अनव्ययस्य इत्येव, दोषामन्यमहः। दिवामन्या रात्रिः। अन्तग्रहणं किम्? कृताजन्तकार्यप्रतिपत्त्यर्थम्। अतो ह्रस्वे कृते मुम् भवति।
लघु-सिद्धान्त-कौमुदी
अरुर्द्विषदजन्तस्य मुम् ८००, ६।३।६६

अरुषो द्विषतोऽजन्तस्य च मुमागमः स्यात्खिदन्ते परे न त्वव्ययस्य। शित्त्वाच्छबादिः। जनमेजयतीति जनमेजयः॥
न्यासः
अरुर्द्विषदजन्तस्य मुम्?। , ६।३।६६

"अरुन्तुदः" इति। अरुस्तुदतीति "विष्वरुषोस्तुदः" (३।२।३५) इति खश्? संयोगान्तलोपः, तुदादीत्वाच्छः, अतो गुणे ६।१।९४ पररूपत्वम्()। "द्विषन्तपः" इति। द्विषन्तं तापयतीति "द्विषत्परयोस्तापेः" ३।२।३९ इति खच्(), "खचि ह्यसवः" ६।४।९४ इति ह्यस्वत्वम्()। "विद्वन्मन्यः" इति। विद्वांसमात्मानं मन्यत इति, "आत्ममाने खश्च" ३।२।८३ इति खश्(), "वसुरुआंसुध्वंस्वनडुहां दः" ८।२।७२ इति सकारस्य दकारः, "यरोऽनुनासिकेऽनुनासिको वा" ८।४।४४ इति तस्य नकारः। अथान्तग्रहणं किमर्थम्(), यावता "येन विधस्तदन्तस्य" (१।१।७२) इत्यनेन तदन्तस्यैव भविष्यति? इत्याह--"अन्तग्रहणम्()" इत्यादि। कृतमजन्तकार्यं यस्य स कृताजन्तकार्यं आगमी, तस्यैवविधस्य प्रतिपत्तिः प्रतीतिर्यथा स्यादित्येवमर्थमन्तग्रहणम्()। अन्तग्रहणेन हि कार्यान्तरस्यान्तेऽवसाने मुम्? कर्तवय इत्येषोऽर्थः सूच्यते। अतोऽजन्तकार्ये ह्यसवत्वे कृते पश्चान्मुम्? भवति। ननु च मुमा ह्यस्वो न बाध्यत इत्यनेनैव भविष्यतति सोपपतिकोऽयमर्थः प्रतिपादितः, तत्? किमर्थमेतदन्तग्रहणम्()? नैतदस्ति; तेन हि निरवकाशाद्? ह्यस्वशासनस्य मुमा ह्यस्वो न बाध्यत इत्येतावन्मात्रं प्रतपादितम्(), न तु कृताजन्तकार्यस्य मुम्? भवतीत्येषोऽर्थः, ततः परत्वान्मुमि कृत सत्यनजन्तस्यापि ह्यस्वत्वं प्रसज्येत। अत्र को दोषः? खित्यन्तहरसवभावी नास्तीति। यथा कालिम्मन्य इत्यत्र मुमि कृते सत्यनजन्तस्यापि ह्यस्वत्वं भवति, तथा वाङ्मन्य इत्यत्र स्यादिति। तस्मादन्तग्रहणं कत्र्तव्यम्()॥
बाल-मनोरमा
अरुर्द्विषदजन्तस्य मुम् ७५५, ६।३।६६

अरुर्द्विषत्। अरुस्, द्वि,त्, अजन्त एषां समाहारद्वन्द्वात् षष्ठी। "अलुगुत्तरपदे" #इत्यधिकारादुत्तरपदे इति लभ्यते। "खित्यनध्ययस्य" इत्यतः खितीत्यनुवृत्तम्। कितः प्रत्ययत्वात्तदन्तविधिः। तदाह--खिदन्ते उत्तरपदे इति। जनमेजय इति। जनान् एजयतीति विग्रहः। खशः शित्त्वात्सार्वधातुकत्वं।शप्, गुणायादेशौ, पररूपम्,सुपो लुकि, मुम्। वातशुनीति। वार्तिकमिदम्। वात, शुनी, तिल, शर्ध एषां द्वन्द्वात्सप्तमी। अज, ध्टे, तुद्, दहाति एषां द्वन्द्वात्पञ्चमी। यथासङ्ख्यमन्वयः। वातमजा इति। वातमजन्तीति विग्रहः। सुपो लुकि मुम्। अथ शुनीं धयतीति विग्रहे शुनीशब्दे उपपदे धेटः खशि शपि अयादेशे पररूपे शुनी धय इति स्थिते आह--

तत्त्व-बोधिनी
अरुर्द्विषदजन्तस्य मुम् ६३०, ६।३।६६

अरुर्द्विषत्। वर्णग्रहणे तदन्तविधेः सिद्धावप्यन्तग्रहणं शुनिन्धय इत्यादौ ह्यस्वे कृते मुम्प्रवृत्त्यर्थम्। तथा हि अन्तः शब्दः समीपपरः, अञ्चाऽसावन्तश्चेति विग्रहः। निपातनाद्विशेषणस्य परनिपातः। समीपः "खित्यनव्ययस्ये"ति सूत्रेण विहितो योऽच् तदन्तस्य मुमिति व्याख्यायते। एवं च "जनमेजय" इत्यादौस्वतो ह्यस्वेऽपि मुम्सिद्धये प्रथमं खितीति ह्यस्वः प्रवर्तनीय इत्यवधेयम्।