पूर्वम्: ६।३।८९
अनन्तरम्: ६।३।९१
 
सूत्रम्
आ सर्वनाम्नः॥ ६।३।९०
काशिका-वृत्तिः
आ सर्वनाम्नः ६।३।९१

सर्वनाम्नः आकारादेशो भवति दृग्दृशवतुषु। तादृक्। तादृशः। तावान्। यादृक्। यादृशः। यावान्। दृक्षे चेति वक्तव्यम्। तादृक्षः। यादृक्षः।
लघु-सिद्धान्त-कौमुदी
आ सर्वनाम्नः ३५०, ६।३।९०

सर्वनाम्न आकारोऽन्तादेशः स्याद्दृग्दृशवतुषु। तादृक्, तादृग्। तादृशौ। तादृशः। तादृग्भ्याम्॥ व्रश्चेति षः। जश्त्वचर्त्वे। विट्, विड्। विशौ। विशः। विड्भ्याम्॥ ,
न्यासः
आ सर्वनाम्नः। , ६।३।९०

"दृक्षे चेति वक्तव्यम्()" इति। दृक्षशब्दे परतः सर्वनाम्न आत्वं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्()--उत्तरसूत्रादिह सिंहावलोकितन्यायेन चकारोऽनुवत्र्तते, स चानुक्तसमुच्चयार्थः। तेन दृक्षशब्दे चोत्तरपदे भविष्यतीति। अथ किमर्थो दीर्घो विधीयते, न, ह्यस्व एव विधीयताम्(), ह्यस्वेऽप्यादेशे सवर्णदीर्घत्वेन सिध्यति? न; यस्मात्? "अतो गुणे" ६।१।९४ पररूपत्वं प्राप्नोति। न च शक्यते वक्तुम्()--अकारोच्चारणसामर्थान्न भविष्यतति; अकारविधेर्दकारनिवत्र्तनार्थत्वात् लोपविधौ हि गौरवं स्यात्()। किञ्च--त्वादृक्(), त्वादृश इत्यत्र दीर्घश्रवणं न स्यात्()। तस्माद्दीर्घ एव विधेयः॥
बाल-मनोरमा
आ सर्वनाम्नः , ६।३।९०

आ सर्वनाम्नः। "आ" इत्यविभक्तिकनिर्देशः। "दृग्दृशवतुषु" इति सूत्रमनुवर्तत। तदाह--सर्वनाम्न इति। अन्तादेश इति। अलोऽन्त्यपरिभाषालभ्यमिदम्। दकारस्य आत्वे सवर्णदीर्घः। तादृश् इति रूपम्। ततः सुबुत्पत्तिः। कुत्वस्येति। तादृश् स् इति स्थिते हल्ङ्यादिलोपे, "क्विन्प्रत्ययस्य कु"किति कुत्वस्याऽसिद्धत्वात्। "व्रश्चे"ति ष इत्यर्थः। तस्येति। "व्रश्चे"ति संपन्नस्य षकारस्येत्यर्थः। तस्य कुत्वेनेति। डकारस्य "क्विन्प्रत्ययस्य कु"रिति कुत्वेन गकार इत्यर्थः। तस्य चर्त्वेनेति। गकारस्य "वावसाने" इति चत्र्वविकल्प इत्यर्थः। तादृगिति। स इव दृश्यत इति न विग्रहः, "कर्तरि कृत्िति कर्तर्येव क्विन्विधानात्। किंतु कर्मकर्तरि क्विन्। स इवायं पश्यति। ज्ञानविषयो भतीत्यर्थः। "दृशेरत्र ज्ञानविषयत्वापत्तिमात्रवृत्तित्वादज्ञानार्थता" इति "त्यदादिषु दृशेः" इति सूत्रे भाष्ये स्पष्टम्। रूढशब्द एवायमित्यन्ये। अथात्र कैयटादिमतं दूषयति--षत्वापवादत्वादिति। यद्यपि दधृगञ्चुयुजिक्रुञ्चुषु अप्राप्ते।ञपि व्रश्चादिषत्वे "क्वन्प्रत्ययस्य कुः" इति कुत्वमारभ्यते। तथापि क्विपैव सिद्धे "स्पृशोऽनुदके क्विन्", "त्यदादिषु दृशोऽनालोचने कञ् चे"ति क्विन्विधानं "क्विन्प्रत्ययस्य कु"रिति कुत्वार्थं क्रियमाणं घृतस्पृक्, तादृगित्यादिषु अप्रवृत्तौ निरवकाशमेव स्यात्। अतस्तद्विषये कुत्वस्य फलतः षत्वापवादत्वमिति भावः। क्विन्विधानं "क्विन्प्रत्ययस्य कुः" इति कुत्वार्थमेवेति "स्पृशोऽनुदके" इति सूत्रे भाष्ये स्पष्टम्। अनवकाशत्वादेव च षकारविषये कुत्वस्य नाऽसिद्धत्वमपि। अन्यथा "स्पृशोऽनुदके क्वि"नित्यादिना स्पृशादेः क्विन्विधिवैयथ्र्यात्। उक्तं च "पूर्वत्रासिद्ध"मित्यत्र भाष्ये--"अपवादो वचनप्रमाण्या"दिति। खकार इतीति। अघोषमहाप्राणसाम्यादिति भावः। ख एवेति। #आतदृक्, तादृगिति रूपद्वयमिष्टम्। शकारस्य कुत्वेन खकारे सति तस्य "वावसाने" इति चत्र्वपक्षे तादृगिति रूपसिद्धावपि चत्र्वाऽभावपक्षे तादृखित्येव स्यात्, ताद-गिता गकारो न श्रूयेतेत्यर्थः। नन्वस्तु शकारस्य खकारस्तथापि तस्य चत्र्वाभावपक्षे जश्त्वेन गकारो निर्बाध इत्यात आह--जश्त्वं प्रतीति। जश्त्वेन गकारे कर्तव्ये शकारस्थानकस्य कुत्वसम्पन्नखकारस्याऽसिद्धतया झलोऽभावेन जश्त्वाऽसंभवादित्यर्थः। अथ कैयटादिमते उक्तदोषं निरस्यति-दिगादिभ्यो यदितीति। "विश प्रवेशने" क्विप्, विशिति रूपम्। तस्य विशेषमाह--व्रश्चेति षत्वमिति। विश् सिति स्थिते हङ्यादिलोपे "व्रश्चे"ति शकारस्य षकार इत्यर्थः। जश्त्वचर्त्वे इति। षस्य जश्त्वेन डः। "वाऽवसाने" इति तस्य चर्त्वेन पक्षे ट इत्यर्थः। विड्भ्याम्। विट्त्सु विट्सु। "णश अदर्शने" क्विप्। नश् इति रूपम्। ततः सुबुत्पत्तिः। सोर्हल्ङ्यादिलोपे व्रश्चादिना नित्यं षत्वे प्राप्ते-।

तत्त्व-बोधिनी
आ सर्वनाम्नः ३८२, ६।३।९०

आकारोऽन्तादेश इति। अकारादेशे सति त्वतो गुणे इथि स्यात्। न चाऽकारोच्चारणसामथ्र्याद्दीर्घः स्यादेवेति वाच्यमि, अकारस्याऽविधौ हल एव श्रवणप्रसङ्गांत्। विडिति। "विश प्रवेशने"इत्यस्मात् क्विप्। नशेर्वा। केचिदिह "झली"त्यनुवत्र्य "झलि पदान्ते चे"ति व्याचक्षते, तन्न, "नष्ट"मित्यादावतिप्रसङ्गात्।