पूर्वम्: ६।३।९६
अनन्तरम्: ६।३।९८
 
सूत्रम्
ऊदनोर्देशे॥ ६।३।९७
काशिका-वृत्तिः
ऊदनोर् देशे ६।३।९८

अनोरुत्तरस्य अपः ऊकारादेशो भवति देशाभिधाने। अनूपो देशः। देशे इति किम्? अन्वीपम्। दीर्घोच्चारणम् अवग्रहार्थम्, अनु ऊपः अनूपः इति।
न्यासः
ऊदनोर्देशे। , ६।३।९७

"अनूपः" इति। अनुगता आपोऽस्मिन्निति विग्रहः, पूर्ववत्? समासान्तः, सवर्णदीर्घः। अथ दीर्घोच्चारणं किमर्थम्(), यावता ह्यस्वोऽपि विहितेऽकः सवर्णे दीर्घत्वेनानूप इति सिध्यत्येव? अत आह--"दीर्घोच्चारणम्()" इत्यादि। असति दीर्घोच्चारणे संहितायामेव दीर्घत्वं स्यात्(), नावग्रहे। तस्मादवग्रहेऽपि यथा स्यादित्येवमर्थ दीर्घोच्चारणम्()॥
बाल-मनोरमा
ऊदनोर्देशे ९२९, ६।३।९७

ऊदनोर्देशे। ईत्त्वस्याऽपवादः। ऊत्स्यादिति। "आदेः परस्ये"ति ज्ञेयम्। अनूपो देश इति। अनुकूला आपो यस्मिन्निति विग्रहः। अप्रत्ययः, ऊत्त्वं सवर्णदीर्घश्च। "अनूप" इत्यत्र ऊपोऽवग्रहणार्थं दीर्घोच्चारणमिति भाष्यम्। बह्वृचास्तु "अनूपो गोमान्"रित्यत्र नावगृह्णन्ति। तदेव "ऋक्पूः" इति सूत्रगतोऽप्शब्दः प्रपञ्चितः। अथ धूर्शब्दान्तस्योदाहरति--राजधुरेति। राज्ञो धूरिति विग्रहः। धूर्शब्दोऽत्र राज्ये लाक्षणिकः। अकारप्रत्ययः। "परवल्लिङ्ग"मिति स्त्रीत्वम्। टाप्। अक्षे त्विति। अक्षसंबन्धिनी या धूस्तदन्तादकारप्रत्ययो न। अक्षधूरिति। अक्षो नाम रथावयवदण्डविशेषः, यदग्रयोश्चक्रे आसज्येते तस्याक्षस्याग्रं धूः। अनेन "अक्षे समासार्थे धुरो नाऽकारप्रत्ययः" इति व्याख्यानेऽत्र निषेधो न स्यादिति सूचितम्। दृढधूरक्ष इति। दृढा धूर्यस्येति विग्रहः। एतेनाऽक्षे पूर्वपदे धुरो नाकारप्रत्यय इति व्याख्याने अत्र निषेधो न स्यादिति सूचितम्। तदेवं "ऋक्पू"रिति सूत्रं धूःशब्दः प्रपञ्चितः। अथ पथिन्शब्दस्योदाहरति--सखिपथाविति। सखा च पन्थाश्चेति द्वन्द्वः। अकारप्रत्ययः। "नस्तद्धिते" इति टिलोपः। "सखिपथ" इति पाठे तु सख्युः पन्था इति तत्पुरुषः। रम्यपथ इति। रम्यः पन्था यस्येति विग्रहः।

तत्त्व-बोधिनी
ऊदनोर्देशे ८०५, ६।३।९७

ऊदनोः। दीर्घोच्चारणं क्वचिच्छाखायामवग्रहार्थम्। बह्वृचास्तु "अनूपे गोमान् गोभिः"इत्यत्रा नूपशब्दं नावगृह्णन्ति। अनूप इति। अनुगता आपोऽस्मिन्नित्यनूपो देशः। "जलप्रायमनूपं स्य"दित्यमरः।