पूर्वम्: ६।४।१००
अनन्तरम्: ६।४।१०२
 
सूत्रम्
हुझल्भ्यो हेर्धिः॥ ६।४।१०१
काशिका-वृत्तिः
हुझल्भ्यो हेर् धिः ६।४।१०१

हु इत्येतस्माद् झलन्तेभ्यस् च उत्तरस्य हलादेः हेः स्थाने धिरादेशो भवति। जुहुधि। झलन्तेभ्यः भिन्धि। छिन्धि। हुझल्भ्यः इति किम्? क्रीणीहि। प्रीणीहि। हेः इति किम्? जुहुताम्। हलि इत्येव, रुदिहि। स्वपिहि। इह जुहुतात्, भिन्तात् त्वम् इति परत्वात् तातङि कृते सकृद्गतौ विप्रतिषेधेन यद् बधितं तद् बाधितम् एव इति पुनः धिभावो न भवति। भिन्धकि, छिन्धकि इत्यत्र परत्वाद् धिभावे कृते पुनः प्रसङ्गविज्ञानादकच् क्रियते।
लघु-सिद्धान्त-कौमुदी
हुझल्भ्यो हेर्धिः ५५८, ६।४।१०१

होर्झलन्तेभ्यश्च हेर्धिः स्यात्। अद्धि। अत्तात्। अत्तम्। अत्त। अदानि। अदाव। अदाम॥
न्यासः
हुझल्भ्यो हेर्धिः। , ६।४।१०१

"हलादेः" इति। कुतः पुनर्हल्ग्रहणं प्रकृतं येन हिशब्दो विशिष्यते? अनन्तरसूत्रादिति चेत्()? न; तद्धि सप्तमीनिर्दिष्टम्(), षष्ठीनिर्दिष्टेन चेहार्थः। "हुझल्भ्यः" इत्येषा पञ्चमी "हलि" ६।४।१०० इत्येतस्याः सप्तम्याः षष्ठीत्वं प्रकल्पयिष्यति। "तस्मादित्युत्तरस्य" १।१।६६ इति वचनादित्यदोषः। "भिन्धि" इति। "श्नसोरल्लोपः" ६।४।१११ इत्यकारलोपः। "क्रीणीहि" इति। "सेह्र्रपिच्च" ३।४।८७ इति हिरादेशः "ई हल्यघोः" ६।४।११३ इत्तीत्त्वम्()। "जुहुताम्()" इति। लोट्(), तसस्ताम्()। "रुदिहि, स्वपिहि" इति। अदादित्वाच्छपो लुक्(), "रुदादिभ्यः सार्वधातुके" ७।२।७६ इतीट्()। अथेह कस्मान्न भवति--"जुहुतात्? त्वम्()" इति? आह--"इह" इत्यादि। धिभावस्यावकाशोऽनाशिषि--झुहुधीति। तातङोऽवकाशः--जीवतात्? त्वमिति; आशिषि लोटि उभयप्राप्तौ परत्वात्तातङेव भवति। अथ कृतेऽपि त()स्मस्तस्य स्थानिवद्भावात्? पुनः प्रसङ्गविज्ञानाद्()धिभावः कस्मान्न भवति? इत्याह--"तत्र" इत्यादि। यद्येवम्(), भिन्धकि, छिन्धकीत्यत्र परत्वाद्()धिभावे सत्यनन्तरोक्तादेव हेतोरकज्न स्यात्()? इत्यत आह--"भिन्धकि, छिन्दकि" इत्यादि। व्यक्तौ हि पदार्थे "सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेव" (व्या।प।४०) इत्येतत्? प्रवत्र्तते। जातौ च "पुनःप्रसङ्गविज्ञानात्? सिद्धम्()" (व्या।प।४१) इति "विप्रतिषेधे परं कार्यम्()" १।४।२ इत्यत्र प्रतिपादितम्()। पाणिनेस्तूभयं मतम्(), लक्ष्यानुरोधात्क्वचित्? किञ्चिदाश्रीयते। तत्र तातङविधौ व्यक्तिपदार्थस्याश्रयणात्? "सकृद्गतौ विप्रतिषेधे यद्? बाधितं तद्बाधितमेव" इत्यस्या उपस्थानम्(); अकज्विधौ तु जातेः पदार्थस्याश्रयणात्? "पुनःप्रसङ्गविज्ञानात्सिद्धम्()" इत्यस्याः। "भिन्धकि" इति। "अव्ययसर्वनाम्नाम्()" ५।३।७१ इत्यादिनाकच्()। तत्र "तिङश्च" ५।३।५६ इत्यनुवत्र्तते॥
बाल-मनोरमा
हुझल्भ्यो हेर्धिः २५६, ६।४।१०१

हुझल्भ्यो हेर्धिः। झलन्तेभ्य इति। अङ्गविशेषणत्वात्तदन्तविधिरिति भावः। अनेकाल्त्वात्सर्वादेशः। "रुदिही"त्यत्र तु न , निर्दिश्यमानहेरिडा व्यवहितत्त्वात्, इट्सहितस्य त्वनिर्दिश्यमानत्वादिति भाष्ये स्पष्टम्। अत्तादिति। धित्वात्परत्वात्तातङ्। तस्य स्थानिवत्त्वेन हित्वेऽपि न पुनर्धित्वं, "विप्रतिषेधे यद्बाधितं तद्बाधितमेवे"ति न्यायात्। अत्तम् अत्त। अदानीति। "आडुत्तमस्ये"त्याडागमः। एतदर्थमेव आडागमे दीर्घोच्चारणमिति भावः। अदाव अदाम। लहि आद् त् इति स्थिते--

तत्त्व-बोधिनी
हुझल्भ्यो हेर्धिः २२५, ६।४।१०१

जुहुधि। "घसिभसोर्हली"त्यतो हलीत्यनुवर्त्त्य हलादेरिति व्याख्यानात् रुदिहि स्वपिहीत्यादाविडादेर्हेर्धिर्न भवति, "अत्ता"दित्यत्र तु धित्वात्परत्वात्तातङि कृते स्थानिवद्भावेन पुनर्धित्वं तु "सकृद्गतौ" इति न्यायान्नेत्याहुः। अन्ये तु--- हेर्धिरित्यत्र स्थान्यादेशयोद्र्वयोरपीकार उच्चारणार्थं इति हकारस्य धकार आदेशः, तेन हलीत्यनुवृत्तिर्न कर्तव्या, नापि तातङो धित्वप्रसङ्ग इति सकृद्गतिन्यायाश्रयणमपि मास्त्वित्याहुः।