कार्मः इति ताच्छील्ये टिलोपो निपात्यते। कर्मशीलः कार्मः। शीलम्, छत्रादिभ्यो णः
४।४।६१ इति णप्रत्ययः। यद्येवं किम् अर्थम् इदम्, नस् तद्धिते
६।४।१४४ इत्येव टिलोपः सिद्धः? सत्यम् एतत्। ज्ञापकार्थम् तु। एतज् ज्ञापयति ताच्छीलिके णे ऽण्कृतानि भवन्ति इति। तेन चौरी, तापसी इति णान्तादपि ईकारः सिद्धो भवति।
ताच्छील्ये इति किम्? कर्मणः इदं कार्मणम्।
"यद्येवम्()" इति। यदि णकारोऽत्र प्रत्ययः,
एवं सति किमर्थमिदम्()? नैवास्य प्रयोजनं किञ्चिदित्यर्थः।
किं कारणम्()? इत्याह--"नस्तद्धित इत्येवं हि" इत्यादि। यद्धि लक्षणेन न प्राप्नोति तदर्थं निपातनमारभ्यते, इह तु "नस्तद्धिने"
६।४।१४४ इत्येवं सिद्धः,
न हि णे केनचित्? प्रकृतिभाव उक्तो यतस्तत्र टिलोपातनमारभ्यमाणमिदमर्थवत्स्यात्()। अणि हि प्रकृतिभावोऽणन्तस्योक्तः, न तु णे। अनन्तरोक्तमर्थमभ्युपगच्छति--यदि सत्यम्(), किमर्थमिदमित्याह--"ज्ञापकार्थम्()" इत्यादि। "अण्कृतानि" इत्यादि। अणि कृतानि कार्याणि अष्कृतानि, "सप्तमौ"
२।१।३९ इति योगाविभागात्समासः।
अथ वा अणा कृतानि "कर्तृकरणे कृता बहुलम्? २।१।३१ इति समासः।
"किमेतस्य ज्ञापनेन प्रयोजनम्()? इत्याह--"तेन" इत्यादि। चुरा शीलमस्याः, तपः शीलमस्या इति "छत्त्रादिभ्यो णः"
४।४।६२ इति णः, तदन्तन्ङीप्()।
"ताच्छीलिके णः" इत्यस्यार्थस्य ज्ञापितत्वात्? "तदस्यां प्रहरणमिति क्रीडायां णः" (४।२।
५७) इति दण्डात्? णे दाण्डेति--अण्कृतं कार्यं न भवति।
यदि तर्हि ताच्छीलकेष्वण्कृतमिष्येत, अणेव छत्त्रादिभ्यः कस्मान्नोच्येत,
तत्राप्ययमर्थः--ज्ञापनार्थं निपातनं कत्र्तव्यं न भवति? युक्तमेतदुक्तवानसि; वैचित्र्यार्थ त्वण्कृतः।
"कार्मणम्()" इति।
"तद्युक्तात्? कर्मणोऽण्()"
५।४।३६ इत्यण्()। कर्मणा युक्तं कार्मणमिति॥
कार्मस्ताच्छील्ये। तच्छीसं यस्य स तच्छीलः, तस्य भावस्ताच्छील्यम्। तस्मिन्वाच्ये "कार्म" इति भवतीत्यर्थः। णप्रत्यये परे टिलोपः स्यादिति यावत्। तदाह--टिलोपो निपात्यत इति। "णो।ञपो"त्यनन्तरम् "इति ज्ञापनार्थमिद"मिति शेषः। अत्र टिलोपविधिर्हि "अन्" इति प्रकृतिभावनिवृत्त्यर्थः। ततश्च अणि विहतस्य प्रकृतिभावस्य णप्रत्यये परतः प्रतिषेधादण्कार्यकारित्वं णप्रत्ययस्य ज्ञाप्यत इति भावः। तेनेति। चुरा शीलमस्याः, तपः शीलमस्या इति विग्रहे चुरातपःशब्दाभ्यां छत्रादित्वाण्णप्रत्यये सति तदन्ताभ्यामणन्तकार्ये ङीपि चौरी तापसीति सिद्धमित्यर्थः। कार्मणा इति। "तस्येद"मित्यणि "कार्मस्ताच्छील्ये" इत्यस्याऽप्रवृत्त्या "अन्" इति प्रकतिभावान्न टिलोप इति भावः।