श्नातिति श्नमयमुत्सृष्टमकारो गृह्यते। तत उत्तरस्य नकारस्य लोपो भवति। अनक्ति। भनक्ति। हिनस्ति।
शकारवतो ग्रहणम् किम्? यज्ञानाम्। यत्नानाम्। सुपि च
७।३।१०२ इति परत्वात् कृते ऽपि दीर्घत्वे स्थानिवद्भवात् नलोपः स्यादेव। विश्नानाम्, प्रश्नानाम् इत्यत्र लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इत्येवं न भवति।
अन्यस्य श्नशब्दस्यासम्भवादसत्यपि श्नमो मकारस्य श्रवणे सामथ्र्यात्? श्नम एव ग्रहणं विज्ञायते, इत्यत आह--"श्नमयमुत्सृष्टमुकारः" इति। उत्सृष्टः=परित्यक्तो मकारो यस्य स तथोक्तः। "अनक्ति" इत्यादि। "अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु" (धा।पा।१४५८) "भन्जो आमर्दने" (धा।पा।१४५३) "हिसि हिंसायाम्()", (धा।पा।१४५६) अस्योदित्त्वान्नुम्(),
रुधादित्वात्? श्नम्()।
शकारवतोग्रहणमेतदर्थं क्रियते--"नन्दिता, नन्दकः" इत्यत्र मा भूदिति, एतच्चाप्रयोजनम्(); "प्रत्ययाप्रतयययोः प्रत्ययस्यैव ग्रहणम्()" (व्या।प।७२) इत्यनया परिभाषयाऽत्र न भविष्यति। ज्ञापकाच्च, यदयं नन्दिनन्दनशब्दौ क्षुभ्नादिषु पठति, तज्ज्ञापयति--नन्देर्नकारलोपो न भवतीति। सामान्यापेक्षञ्च ज्ञापकम्(), तेन "नन्दिता, नन्दकः" इत्यत्रापि न भविष्यति। तस्मात्?
"नान्न लोपः" इत्येवं वक्तव्यमित्यभिप्रायेणाह--"शकारवतो ग्रहणं किम्()" इति। "यज्ञानाम्(), यत्नानाम्()" इति। "यजयाच"
३।३।९० इति नङ्(),
तदन्तात्? षष्ठीबहुवचनम्(), नुट्()। यदि शकारवतो ग्रहणं न क्रियेत तदा तत्र नलोपः स्यादेव।
स्यादेतत्()--दीर्घे कृते "नात्()" इति व्यपदेशाभावान्न भविष्यतीति? अत आह--"सुपि च" इत्यादि। "सुपि च"
७।३।१०२ इत्यर्थ दीर्घोऽजादेशः,
तस्य नकारलोपपूर्वविधौ कत्र्तव्ये "अचः परस्मिन्? पर्वविधौ"
१।१।५६ इति स्थानिवद्भावेन तद्रूपतामापन्ने परात्वाद्दीर्घत्वे यदि कृतेऽपि शकारविशिष्टस्य ग्रहणं न क्रियते तदा स्यादेवात्र नलोपः। कृताकृतप्रसङ्गित्वाच्च। दीर्घत्वं तु नकारलोपे कृते निमित्तविहितत्वान्न प्राप्नोतीति तदनित्यम्()। ननु च पूर्वविधौ स्थानिवद्भाव उक्तः,
न चायं पूर्वविधिः? नैष दोषः; अयमपि पूर्ववधिरेव।
"पूर्वस्माद्? विधिः पूर्वविधिः" इत्यस्यापि समामस्य तत्राश्रयणात्()।
अथ क्रियमाणेऽपि शकारवतो ग्रहणे कस्मादिह न भवति--"वि()आआनाम्(), प्रश्नानाम्()" इति,
भवति ह्रत्रापि शकारवान्नकारः? इत्याह--"विश्नानां प्रश्नानामित्यत्र" इत्यादि। इह हि लक्षणप्रतिपदोकतपरिभाषया (व्या।प।३।) प्रतपदोक्तो यः साक्षान्निर्दिष्टः श्नशब्दस्तस्य ग्रहणम्(), न तु लाक्षणिकस्य। "विश्नानाम्(), परश्नानाम्()" इत्यत्र हि "च्छ्वोः शूडनुनासिके च"
६।४।१९ इति शकारे कृते श्नशब्दः सम्पद्यते, स च लाक्षमिकः।
तस्मात्? ततः परस्य लोपो न भवति। "राल्लोपः" (६।४।
२१) इत्यतो मण्डूकप्लुतिन्यायेन लोपग्रहणानुवृत्तौ सत्यां सिद्धायां यत्? पुनर्लोपग्रहणं क्रियते तद्? योग वेभागार्थम्()। "श्नान्न" इत्येको योगः, अत्र च नेत्यविभक्तिकोऽयं निर्देशः, लोपग्रहणञ्चानुवर्तते, तेनायमर्थो भवति--श्नादुत्तरस्य नकारस्य लोपो भवतीति; ततः "लोपः" इति द्वितीयो योगः, ततः "श्नान्न" इत्यतो नेत्यनुवर्तते--इष्टे विषये नकारलोपो यथा स्यादिति। तेन लङ्गिकम्पिप्रभृतीनामुपतापशरीरविकारादिषु नलोपः सिद्धो भवति॥
श्नान्नलोपः। श्नसोरल्लोप इति। तताच इन्()ध् ते इति स्थिते "झषस्तथो"रिति तकारस्य धत्वे पूर्वधस्य जश्त्वे परिनिष्टितमाह - इन्द्धे इति। यद्यपि "अनिदिता"मित्येवात्र नलोपः सिध्यति, तथापि अनक्तीत्याद्यर्थं सूत्रमिहापि न्याय्त्वादुपन्यस्तमिति बोध्यम्। इन्धते। इन्द्ध्वे। इन्द्धाम्। इन्तस्व।इन्द्ध्वम्। इनधै इति। श्नमि उत्तमस्य इट एत्वे आटि वृद्धौ इन न् ध् ऐ इति स्थिते श्नान्नलोपे आटः पित्त्वेन ङित्त्वाऽबावात् "श्नसोरल्लोपः" इत्यभावे रुपमिति भावः। अत्र नलोपार्थमपि श्नान् लोप इत्यावश्यकम्, आटः पित्त्वेन ङित्त्वाऽभावात् "अनिदिता"मित्यस्याऽप्रवृत्तेः। इनधावहै। लह्राह - ऐन्द्धेति। ऐन्द्धा इति। "झषस्तथो"रिति थस्य धः। इन्धीत। लुहि - ऐन्धिष्ट। शिष्लृ।अनिट्। शिशेषिथेति। अजन्ताऽकारवत्त्वाऽभावात्क्रादिनियमान्नित्यमिट्। शिनष् हीति स्थिते अल्लोपे शिन्ष् हि इति स्थिते आह -- हेर्धिरित। शिन् ष् धीति स्थिते आह -- जश्त्वमिति। "झलां जश् झशी"ति षस्यड इति भावः। ष्टुत्वमिति प्रक्रियाप्रदर्शनमात्रपरं, क्रमस्तु न विवक्षितः। झर इति। जश्त्वसंपन्नस्य डस्य लोपविकल्प इत्यर्थः। अनुस्वारपरसवर्णाविति। नकारस्य "नश्चे"त्यनुस्वारे सति तस्य परसवर्णो णकार इत्यर्थः। "न पदान्ते"ति निषेधान्नाऽल्लोपः स्थानिवत्। ढस्य लोपपक्षे उदाहरति-- शिण्ढीति। ढस्य लोपाऽभावे उदाहरति - शिण्ड्ढीति। वस्तुतस्तु सानुस्वार एव पाठ उचितः, "दीर्घादाचार्याणा"मित्युत्तरम् "अनुस्वारस्य ययि परसवर्णः" "वा पदान्तस्य" "तोर्लि" "उदः स्थास्तम्भोः पूर्वस्य" "झयो होऽन्यतरस्यां" "शश्छोऽरटी"ति षट्सूत्रपाठोत्तरं "झलां जश् झशि" "अभ्यासे चर्च" "खरि च" "वाऽवसाने" "अणोऽप्रगृह्रस्यानुनासिकः" इति पञ्चसूत्रीपाठ इति भाष्यसंमताऽष्टाध्यायीपाठे परसवर्णदृष्ट()आ "झलां जश् झशी"त्यस्य "झरो झरी"त्यस्य चाऽसिद्धत्वेन यय्परत्वाऽभावे परसवर्णाऽप्राप्तेरिति शब्देन्दुशेखरे स्थितम्।शिंष्टात्। शिंष्टम् शिंष्ट। शिनषाणीति। आटः पित्त्वेन ङित्तवाऽभावात् "श्नसो"रित्यल्लोप नेति भावः। अशिनडिति। लङस्तिपो हल्ङ्यादिलोपे षस्य जश्त्वमिति बावः। अशिंष्टाम्। अशिंषन्। अशिनट्। अशिष्टम्। अशिंष्ट। अशिनषम् अशिंष्व अशिंष्म। भञ्जो। भनक्तीति। श्नमि भ न न् ज् तीति स्थिते "श्नान्न लोपः" इति नलोप इति भावः। भङ्क्तः भञ्जन्तीत्याद्यूह्रम्। भारद्वाजनियमात्थलि वेडिति मत्वाह -- वबञ्जिथ बङङ्क्थेति। भङ्क्तेति। अनिडिति भावः। भुज पालनेति। "भुजोऽनवने" इति तङ् वक्ष्यते। भुङ्क्ते भुञ्जाते इत्यादि।तृह हिसि।आद्य ऋदुपधः। सेट्। श्नमि कृते तृणह् ति इति स्थिते --