पूर्वम्: ६।४।३२
अनन्तरम्: ६।४।३४
 
सूत्रम्
भञ्जेश्च चिणि॥ ६।४।३३
काशिका-वृत्तिः
भञ्जेश् च चिणि ६।४।३३

भञ्जेश्च चिणि परतो विभाषा नकारलोपो भवति। अभाजि, अभञ्जि। अप्राप्तो ऽयं नलोपः पक्षे विधीयते, ततो न इति न अनुवर्तते।
लघु-सिद्धान्त-कौमुदी
भञ्जेश्च चिणि ७६१, ६।४।३३

नलोपो वा स्यात्। अभाजि, अभञ्जि॥ लभ्यते॥
न्यासः
भञ्जेश्च चिणि। , ६।४।३३

चकारः "विभाषा" ६।४।३२ इत्यनुकर्षणार्थः। "अभाजि" इति। पूर्वमेव व्युत्पादितम्()। "अप्राप्तोऽयं नकारलोपः" इति। क्ङिति नलोपविधानात्(), चिणश्चाक्ङित्वात्()। अतः प्रतिषेध्याभाबान्नति नानुवर्तते। तेन विधिरेवायमित्यभिप्रायः॥
बाल-मनोरमा
भञ्जेश्च चिणि ५८९, ६।४।३३

भञ्जेश्च चिणि। "श्नान्नलोपः" इत्यतो नेति अभाजीति। नलोपपक्षे उपधावृद्धिः।