पूर्वम्: ६।४।५२
अनन्तरम्: ६।४।५४
 
सूत्रम्
जनिता मन्त्रे॥ ६।४।५३
काशिका-वृत्तिः
जनिता मन्त्रे ६।४।५३

जनिता इति मन्त्रविषये इडादौ णिलोपो निपात्यते। यो नः पिता जनिता। मन्त्रे इति किम्? जनयिता।
न्यासः
जनिता मन्त्रे। , ६।४।५३

"इङादौ णिलोपो निपात्यते" इति। "जनिता" इति तृजन्तम्(), तत्र "अनिटि" इति प्रतिषेधादिडादौ न न प्राप्नौति, अतो निपात्यते। ह्यसवत्वन्तु "जनीजृ()ष्क्नसुरञ्जोऽमन्ताश्च" (ग।सू।धा।पा।८१७) इति मित्संज्ञकत्वात्? "मितां ह्यस्वः" ६।४।९२ इत्यनेनैव सिद्धम्()॥