पूर्वम्: ६।४।५५
अनन्तरम्: ६।४।५७
 
सूत्रम्
ल्यपि लघुपूर्वात्॥ ६।४।५६
काशिका-वृत्तिः
ल्यपि लघुपूर्वात् ६।४।५६

ल्यपि परतो लघुपूर्वाद् वर्णादुत्तरस्य णेः अयादेशो भवति। प्रणमय्य, प्रतमय्य, प्रदमय्य, प्रशमय्य, सन्दम्य्य गतः। प्रबेभिदय्य गतः। प्रगणय्य गतः। ह्रस्वयलोपाल् लोपानाम् असिद्धत्वं न भवति असमानाश्रयत्वात्, ह्रस्वादयो हि णौ, ल्यपि णेरयादेशो भवति। लघुपूर्वातिति किम्? प्रपात्य गतः।
न्यासः
ल्यपि लघुपूर्वात्?। , ६।४।५६

"लधूपूर्वात्()" इति। लघुः पूर्वो यस्मादिति बहुव्रीहिः। वर्णोऽन्यपदार्थः। "प्रणमप्य, प्रतमय्य, प्रदमय्य, प्रशमय्य" इति। अत्र नमादीनां मित्त्वात्? पूर्ववद्? ह्यस्वत्वे कृते मकारो लघूपूर्वः। "प्रवेभिदय्य गतः" इति। भिदेर्यङन्ताण्णिच्()। "यस्य हलः" ६।४।४९ इति यकालोपः। अत्रापि दकारो लघूपूर्वः। "प्रगणय्य" इति। "गण संख्याने" (धा।पा।१८५३), चुरादावन्तः पूर्धवदल्लोपः। अत्रापि णकारो लघूपूर्वः। ननु ह्यस्वादय एवा भाच्छास्त्रीयाः, अयादेशोऽपि; तत्र "असिद्धवदत्रा भात्()" (६।४।२२) इति ह्लस्वादीनामसिद्धत्वाल्लधुपूर्वत्वं मकारादेर्वर्णस्य नोपपद्यते? इत्यत आह--"ह्यस्वयलोपाल्लोपानाम्()" इत्यादि। कथमसमानाश्रयत्वम्()? इत्याह--"ह्यस्वादयो हि" इत्यादि। अथ पूर्वग्रहणं किमर्थम्(), न लघोरित्येवोच्येत? अशक्यमेवं वक्तुम्(); एवमुच्यमाने लघोरुत्तरस्य णेर्ल्यप्ययादेशो भवतीत्येष वाक्यार्थः। तथा च "प्रतमय्य" इत्यादौ न स्यात्(), हला व्यवधानात्()। क्व तरहि स्यात्()? "प्रगणय्य" इत्यादौ। ननु चात्राप्यतो लोपे कृते लघोरुत्तरो णिनं सम्भवत्येव, तत्र वचनसामथ्र्याद्ध्यवधानमाश्रयिष्यते? नैतदेवम्(); वचनसामथ्र्याद्भूतपूर्वगतिराश्रायिष्यते। कृत एतल्लभ्यते--वचनसामथ्र्याद्ध्यवधानमाश्रयितव्यम्(), न तु भूतपूर्वगतिरिति? भूतपूर्वगतावाश्रीयमाणायां "प्रगणय्य" इत्यादादेव स्यात्(), "प्रणमय्य गतः" इत्यादौ तु न स्यात्()। तस्मात्? पूर्वग्रहणं कत्र्तव्यम्()॥
तत्त्व-बोधिनी
ल्यपि लघुपूर्वात् १६०४, ६।४।५६

लघुपूर्वादिति। लघुः पूर्वो यस्माद्वर्मात्। लघुपूर्ववर्णात्परस्येत्यर्थः। विगणय्येति। नन्विह णौ कुतस्याऽल्लोपस्य पूर्वस्माद्विधौ स्थानिवद्भावाल्लघुपूर्वकवर्णात्परत्वं नास्ति। न चारम्भसामथ्र्यात्, अनुगमय्येत्यादौ मित्सु चरितार्थत्वात्। अत्रोच्यते-- पूर्वस्माद्विधौ स्थानिवत्त्वमनित्यं, "निष्ठायां सेटी"ति लिङ्गात्। तथा चात्र स्थानिवत्त्वाऽभावाण्णेरयादेशो भवत्येव। "निष्ठायां सेटी"त्यस्याऽनित्यत्वज्ञापकत्वं तु "अचः परस्मि"न्निति सूत्र एवास्माभिरुपपादितमिति नात्रो()पपाद्यते। प्रणमय्येति। अमन्तत्वान्मित्त्वे, मितां ह्यस्वः। प्रबेभिदय्येति। भिदेर्यङन्ताद्बेभिद्येत्यस्माण्णिच्यल्लोपे "यस्य हलः" इति यलोपः। ननु ह्यस्वलोपाऽल्लोपानामाभीयत्वेनाऽसिद्धत्वाल्लघुपूर्वकवर्णात्परो णिर्नास्तीति कथमिह णेरयादेशः स्ादिति [गणयतीत्यादौ वा कथं स्यादिति] चेन्मैवम्, "असिद्धवदत्राभा"दित्यत्र "समानाश्रये तस्मिन्कर्तव्ये तदसिद्धं स्या"दिति हि व्याख्यातम्। तेनात्राशङ्कैव नास्ति, ह्यस्वादयो हिणौ, णेरयादेशस्तु ल्यपि परत इति व्याश्रयत्वात्।