पूर्वम्: ६।४।७१
अनन्तरम्: ६।४।७३
 
सूत्रम्
आडजादीनाम्॥ ६।४।७२
काशिका-वृत्तिः
आडजादीनाम् ६।४।७२

आडागमो भवति अजादीनां लुङ्लङ्लृङ्क्षु परतः, उदात्तश्च स भवति। ऐक्षिष्ट। ऐहिष्ट। औब्जीत्। औम्भीत्। लङ् ऐक्षत। ऐहत। औब्जत्। औम्भत्। लृङ् ऐक्षिष्यत। ऐहिष्यत। औब्जिष्यत्। औम्भिष्यत्। इह ऐज्यत, औप्यत, औह्यत इति लङि कृते लावस्थायाम् अडागमादन्तरङ्गत्वाल् लादेशः क्रियते, तत्र कृते विकरणो नित्यत्वादडागमं बाधते। शब्दान्तरप्राप्तेरडागमस्य अनित्यत्वम्, कृते हि विकरणान्तस्य अङ्गस्य तेन भवितव्यम्, अकृते तु धातुमात्रस्य शब्दान्तरस्य प्राप्नुवन् विधिरनित्यो भवति। ननु शब्दान्तरादिति विकरणो ऽनित्यः? विकरणे कृते सम्प्रसारणम् अडागमान् नित्यत्वादेव भवति, सम्प्रसारणे च कृते ऽजाद्यङ्गं जातम् इति आडजादीनाम् इत्याडागमः।
लघु-सिद्धान्त-कौमुदी
आडजादीनाम् ४४६, ६।४।७२

अजादेरङ्गस्याट् लुङ्लङॢङ्क्षु। आतत्। अतेत्। अत्यात्। अत्यास्ताम्। लुङि सिचि इडागमे कृते ---।
न्यासः
आडजादीनाम्?। , ६।४।७२

"ऐक्षिष्ट, ऐहिष्ट" इति। "ईक्ष दर्शने" (धा।पा।६१०) "ईह चेष्टायाम्()" (धा।पा।६३२)--अनुदात्तेतौ, "आटश्च" ६।१।८७ इति वृद्धिः। "औब्जीत्? "औम्भीत्()" इति। "उब्ज आर्जने" (धा।पा।१३०३), "उभ उन्भपूरणे" (धा।पा।१३१९,१३२०), "आर्धधातुकस्येट्()" ७।२।३५, "अस्ति सिचोऽपृक्ते" (७।३।९६) इतीट्? "इट ईटि" ८।२।२८ इति सिचो लोपः। अथैज्यत, औप्यत, औह्रतेत्यत्र कथमाट्(); यतो यजिवपिवहिभ्यो लङः विहितः कर्मणि, ते च हलादयः, नाजादयः। न च शक्यते वक्तुम्()--सम्प्रसारणे कृतेऽजादित्वं भविष्यतीति। यस्मात्? प्रागेव लादेशात्? परत्वादडागमेन भवितव्यम्(), ततो लादेशेन, ततो यका, ततः सम्प्रसारणेन? इत्यत आह--"इह" इत्यादि। यद्यप्यडागमः परः, तथाप्यन्तरङ्गत्वादादेशस्य पूर्व स एव क्रियते। लादेशो हि धातोर्विहितं लकारमात्रमपेक्ष्य भवतीत्यन्तरङ्गः। अडागमस्तु लकारविशेषम्(); अङ्गस्य विधीयमानत्वात्()। अङ्गञ्च प्रत्ययमपेक्षत इति बरिरङ्गः। पूर्वोत्पत्तिनियित्तोपलक्षणमात्रं चेहान्तरङ्गत्वम्(), तेन नित्यत्वमप्युक्तं भवति। लादेशो हि नित्यः, कृतेऽप्यटि प्राप्नोति, अकृतेऽपि; अडागमस्त्वनित्यः, शब्दान्तरप्रप्तेः। कृते हि लादेशे नित्यत्वाद्विकरणेन भवितव्यम्()। विकरणे च कृते विकरणान्तरस्याङ्गस्य तेन भवितव्यम्(), अकृते तु धातुमात्रस्य। तस्मादन्तरङ्गत्वान्नित्यत्वाच्चाडागमात्पूर्वं लादेशः क्रियते। "तत्र कृते" इति। लादेशे कृते। "विकरणः" इति। यक्()। "नित्यत्वात्()" इति। कृताकृतप्रसङ्गित्वेन विकरणस्य नित्यत्वम्()। स हि कृतेऽप्यटि प्राप्नोति, अकृतेऽपि। स्यादेतत्()--अडागमोऽपि कृते विकरणे प्राप्नोति अकृतेऽपि, अतस्तस्यापि नित्यत्वम्(), तत्रोभयोर्नित्यत्वे परत्वादडागम एव पूर्वं भविष्यति? इत्यत आह--"शब्दान्तरप्राप्तिः" इत्यादि। कथं पुनः शब्दान्तरप्राप्तिः? इत्याह--"कृते हि" इत्यादि। अङ्गस्याडागमो विधीयते; कृते च विकरणे तदादिग्रहणस्य स्यादिति नुमर्थत्वाद्विकरणान्तमङ्गे भवति, अकृते तु धातुमात्रम्()। अन्यच्च विकरणान्तादङ्गाद्धातुमात्रमङ्गम्(), अतोऽन्यसय कृते प्राप्नोति, अकृते त्वन्यस्य इति स्फुटैव शब्दान्तरप्राप्तिः, तत्रैतत्स्यात्()। विकरणस्यापि शब्दान्तरप्राप्तेरेवानित्यत्वम्(), तथा हि--तेनापि कृते सत्यडागमे तदादेर्धातोर्भवितव्यम्(); अकृते धातुमात्रादित्यत आह--"शब्दान्तरस्य च" इत्यीदि। यद्यप्यटः कृताकृतयोरेवावस्थयोर्विकरमः शब्दान्तरात्? प्राप्नोति, तथापि न तस्यानित्यत्वमुपपद्यते, यस्मात्? "शब्दान्तरस्य प्राप्नुवन्? विधिरनित्यो भवति" (व्या।प।१००) इत्येषा हि शास्त्रव्यवस्था; न तु "शब्दान्तरात्? प्राप्नुवन्? विधिरनित्यः" इत्येषा। न च विकरणः कस्यचिच्छब्दस्यागम आदेशो वा विधीयते; यतः "शब्दान्तरस्य प्राप्नुवन्? विधिरनित्यः" स्यात्()। तथा हि--सार्वधातुके परे धातोः परः प्रत्ययो विधीयते, न तु तस्यागमः, आदेशो वेति कुतो विकरणस्यानित्यत्वम्()। विकरणे तर्हि कृते सम्प्रसारणात्पूर्वमाडागमो भविष्यति? इत्यत आह--"विकरणे कृते सम्प्रसारणम्()" इत्यादि। नित्यत्वन्तु सम्प्रसारणस्य पूर्ववत्(); कृताकृतप्रसङ्गित्वात्()। आडागमस्तु कृते सम्प्रसारणे प्राप्नोति, कृते हि सम्प्रसारणेऽजादित्वादाटा भवितव्यमित्यनित्योऽयमाडागमः॥
बाल-मनोरमा
आडजादीनाम् १००, ६।४।७२

अथ एधधातोर्लङि लुङ्लङ्लृङ्क्ष्वडुदात्त इत्यडागमे वृदिं()ध बाधित्वा परत्वादतो गुण इति पररूपे प्राप्ते--आडजादीनां। लुङादिष्विति। "लुङ्लङ्लृङ्क्ष्वि" त्यनुवृत्तेरिति भावः। अटोऽपवाद इति। अटि सति पररूपं स्यादिति भावः। "आटश्चेत्यनन्तरं "वृद्धि"रिति शेषः। यद्यपि वृद्धिरेचीति वा वृद्धौ इदं सिध्यति तथापि ऐक्षतेत्याद्यर्थं सूत्रमिहापि न्याय्यत्वादुपन्यस्तम्। ऐधतेति। लङस्तादेशे शपि आडागमे आटश्चेति वृद्धिः। लङादेशानां टिदादेशत्वाऽभावादेत्वं न भवति। "आडजादीना"मिति सूत्रं भाष्ये प्रत्याख्यातम्। ऐधेतामिति। आतामि शपि आटि वृद्धिः। "आतो ङित" इत्याकारस्य #इय्। आद्गुणः। आटो वृद्धिः। ऐधावहि ऐधमहीति। वहिमह्योः शप्, आट्, वृद्धिः। इति लङ्प्रक्रिया।

तत्त्व-बोधिनी
आडजादीनाम् ७४, ६।४।७२

एतच्चाऽजादीनमटा सिद्धमिति वार्तिककृता प्रत्याख्यातम्। ननु अटिसति "वृद्धिरेची"त्यनेन ऐधतेत्यादिसिद्धावपि ऐन्ददित्यादि न सिध्येत्। किं च "अतो गुणे" इति पररूपप्रवृत्त्या ऐधतेत्याद्यपि न सिध्येत्। यदि तु "आटश्चे"ति सूत्रम् "अटश्चे"ति क्रियेत तर्हि अस्वपोऽहसदित्यत्र वृद्धिः स्यात्।"रुदश्च पञ्चभ्यः", "अङ्गाग्र्यगालवयो"रित्यडागमस्य सत्त्वात्, "अतो रोरप्लुता"दिति रोरुत्वे सति अच्परत्वाच्चेति चेन्न, "उपसर्गादृति धातौ" इत्यतो धातावित्यपकृष्याऽजादौ धाताविति व्याख्यानात्। न च अस्वपोऽस्तीत्यादावोकारस्यान्तवद्भावेनाऽट्()त्वात्परत्राजादिधातुसत्त्वाच्चोक्तदोषस्तदवस्थ इति वाच्यम्, आदित्यनुवत्र्य अकाररूपादटोऽचि परे वृद्धिरिति व्याख्यानात्। एतेन अटश्चेत्युक्तौ "अट गतौ" इत्यस्माल्ल्युटि अटनमित्यत्रातिप्रसङ्गः स्यादित्येतदपि निरस्तमम्। न चैवमपि आतत् आतीदित्यादि न सिध्यति। "अटश्चे"त्यसयैन्ददित्यादौ सावकाशतया परत्वादिह "अतो गुणे" इत्यस्यैव प्रवृत्तेरिति वाच्यं, चकारोऽत्र पुनर्वृद्धिविधानार्थ इत्यभ्युपगमादन्तरङ्गत्वाद्वा "अटश्चे"त्यस्यैव प्रवृत्तेः। स्यादेतत्-- "आडजादीना"मिति सूत्राऽभावे आस्ताम् आसन् इति कथमटा सिध्यति। "श्नसो"रित्याल्लोपेन "अटश्च" इतितत्र वृद्ध्यप्रवृत्तेः। मैवम्। अन्तरङ्गत्वात्प्रागेवाऽ‌ऽडागमे कृते वृद्धौ च कृतायां पश्चात् श्नसोरल्लोपस्याऽप्रसक्तेः। न च "वार्णादाङ्गं बलीयः" इति वृद्धेःप्रागल्लोप एव स्यादिति शङ्क्यं, व्याश्रयत्वात्, "वार्णादाङ्ग"मिति परिभाषाया अनित्यत्वाद्वा। तत्र हि "श्नसोरल्लोपः" इति तपरकरणमेव लिङ्गं ,यदि वृद्धेः प्रागेवाल्लोपः स्यात्तर्हि किंतेन तपरकरणेनेति। यद्यपि वैदिकप्रक्रियायामानट् आव इत्यादौ "छन्दस्यापि दृश्यते" इत्याडागमस्य वक्ष्यमाणत्वात्तदर्थमाट्()सूत्रं कर्तव्यं तथाप्याटं विनैवाड्()व्यत्ययेन, आङ्पूर्वकत्वेन वा तत्र कथंचिद्व्याख्येयमिति स्थितस्य गतिमाहुः।