अथ जस्, टा, ङे, ङसि, ङस्, आम्, ङीत्येषु अति स्त्रीशब्दस्य इयङ् नेत्येतत् श्लोकेन सङ्गृह्णाति--गुणनाभावेत्यादिना। पुंसि गुणनाभावौत्त्वनुङ्भिः, क्लीबे नुमा च परत्वात् स्त्रीशब्दस्य इयङ् बाध्यते-इत्यवधार्यतामित्यन्वयः। जसि चेति घेर्ङितीति च गुणः, "आङो नाऽस्त्रिया"मिति नात्वम्, "अच्च घेः" इत्यौत्त्वम्, "ह्यस्वनद्यापः" इति नुट्, "इकोऽचि विभक्तौ" इति नुम् , एतेषामियङपेक्षया परत्वादित्यर्थः। "जसि चे"त्यनन्तरम् "इति गुण" इति शेषः। अतिस्त्रय इति। इयङं बाधित्वा गुणेऽयादेशे रूपम्। हे अतिस्त्रे इति। "ह्यस्वस्य गुणः" इति गुणे "एङ्ह्यस्वा"दिति सम्बुद्धिलोपः। "वाम्शसोः" इति इयङ्। अतिस्त्रीनिति। इयङ्भावे पूर्वसवर्णदीर्घे "तस्माच्छसः" इति नत्वम्। टा-अतिस्त्रिणा। इयङं बाधित्वा परत्वात् "आङो नाऽस्त्रिया"मिति नात्वम्। भ्यामादिष्वविकृतम्। ङे अतिस्त्रये। इयङं बाधित्वा परत्वात् "घेर्ङिती"ति गुणेऽयादेशः। ङसिङसोः-अतिस्त्रेः। परत्वात् "घेर्ङिती"ति गुणे "ङसिङसोश्चे"ति पूर्वरूपम्। अतिस्त्रियोः। इयङ्। आमि इयङं। बाधित्वा परत्वान्नुटि नामीति दीर्घे णत्वम्--अति-स्त्रीणाम्। इयङं बाधित्वा परत्वात् "अच्च घेः"। अतिस्त्रौ अतिस्त्रियोः अतिस्त्रिषु।
अथ पुंसि पूर्वश्लोकसिद्धमेवार्थं बालबोधाय लघुतरोपायेन संगृह्णाति--ओस्यौकारे चेत्यादिना। उपसर्जनत्वदशायां पुंसि विद्यमानस्य स्त्रीशब्दस्य अचि य इयादेशः "स्त्रियाः" इति सूत्रविहितः स ओसि षष्ठीसप्तमीद्विवचने, औकारे च प्रथमाद्वितीयाद्विवचने च नित्यं स्यात्। अम्शसोस्तु विभाषया=विकल्पेन स्यात्। उक्तचतुर्भ्योऽन्यत्र तु अचि सर्वत्र इयादेशः स्यादिति योजना। क्लीवे तु नुमिति। "इयङं बाधते" इति शेषः। अतिस्त्रि इति। स्त्रियमतिक्रान्तं कुलम्-अतिस्त्रि। "स्वमोर्नपुंसकात्" इति सुलुक्। अतिस्त्रिणी इति। अतिस्त्रि-औ इति स्थिते "नपुंसकाच्चे"त्यौङः शीभावः। इयङं बाधित्वा परत्वात् "इकोऽचि विभक्तौ" इति नुम्। असर्वनामस्थानत्वान्न दीर्घः। णत्वम्। अतिस्त्रीणीति। "जश्शसोः शिः"। स्त्रिया" इति इयङं जसि च इति गुणं च बाधित्वा नुम्। "शि सर्वनामस्थान"मिति सर्वनामस्थानत्वाद्दीर्घः। णत्वम्। टा-अतिस्त्रिणा। इयङं नुम् च बाधित्वा नाभावः। ङेप्रभृतावजादाविति। ङे, ङसि,ङस्, आम्, ङि, ओस्-इत्येतेषु "तृतीयादिषु भाषिते"ति पुंवद्भावस्य वक्ष्यमाणत्वात्पुंवद्भावपक्षे पुंलिङ्गातिस्त्रिशब्दवद्रूपम्। पुंवत्त्वा।()भावपक्षे नुमि वारिवद्रूपमित्यर्थः। टायां तु पुंवत्त्वे तदभावे च नात्वे रूपे विशेषाऽभावान्ङेप्रभृतावित्युक्तम्।?तिस्त्रये इति। पुंवत्त्वे "घेर्ङिती"ति गुणोऽयादेशः। अतिस्त्रिणे इति। पुंवत्त्वाऽभावे नुमि रूपम्। इहोभयत्रापि गुणेन नुमा च इयङ् बाध्यते। अतिस्त्रेरिति। ङसिङसोः पुंवत्त्वपक्षे "घेर्ङिती"ति गुणे "ङसिङसोश्चे"ति पूर्वरूपम्। अतिस्त्रिण इति। ङसिङसोः पुंवत्त्वाऽभावपक्षे नुमि रूपम्। इहाप्युभयत्र गुणनुम्भ्यामियङ् बाध्यते। अतिस्त्रियोः अतिस्त्रिणोरिति। पुंवत्त्वाऽभावे नुम्। पुंवत्त्वे इयङ्। इत्यादीति। आमि पुंवत्त्वे तदभावे च इयङं बाधित्वा नुडेव, नतु नुम्, "नुमचिरे"ति वचनात्। "नामी"ति दीर्घः। अतिस्त्रीणाम्। अतिस्त्रौ-अतिस्त्रिणि। अतिस्त्रियोः -अतिस्त्रिणोः। तदेवमुपसर्जनस्त्रीशब्दस्य पुंनपुंसकविषये रूपाणि प्रदश्र्य प्रकृतमनुसरतिस्त्रियां त्विति। स्त्रियमतिक्रान्तेति विग्रहे "अत्यादयः" इति समासे "गोस्त्रियोः" इति ह्यस्वत्वे सति अतिस्त्रिशब्दः। तस्य प्रायेण उदाह्मतपुंलिङ्गाऽतिस्त्रिशब्दपद्रूपाणीत्यर्थः। शसि अतिस्त्रीरिति। "वाम्शसोः" इति इयङभावे पूर्वसवर्णदीर्घे सत्यपि स्त्रीलिङ्गत्वात् "तस्माच्छसः" इति नत्वं नेति। भावः। अतिस्त्रियेति। स्त्रीलिङ्गत्वान्नात्वाऽभावे इयङ्। ह्यस्वान्तत्वेति। "ङिति ह्यस्वश्चे"त्यत्र "इयङुवङ्स्थानौ स्त्रीशब्दभिन्नौ नित्यस्त्रीलिङ्गावीदूतौ नदीसंज्ञौ वास्तः" इति प्रथमं वाक्यं। "ह्यस्वाविवर्णोवर्णौ स्त्रिया नदीसंज्ञौ वा स्तः" इति द्वितीयं वाक्यम्। तत्र द्वितीयवाक्यादतिस्त्रिशब्दस्य ङित्सु नदीत्वविकल्प इत्यर्थः। ननु "नेयङुवङ्स्थानावस्त्री"त्यतोऽस्त्रीत्यस्यानुवृत्तेः कथमिह नदीत्वविकल्पैत्यत आह--अस्त्री इति त्विति। "इयङुवङ्स्थाना"वित्यादिप्रथमवाक्यविहितनदीत्वस्यैवास्त्रीति पर्युदासो नतु "ह्यस्वा"वित्यादिद्वितीयवाक्यविहितनदीत्वस्यापीत्यर्थः। कुत इत्यत आह--तत्संबद्धस्यैवानुवृत्तेरिति।