पूर्वम्: ७।१।१०१
अनन्तरम्: ७।१।१०३
 
सूत्रम्
उदोष्ठ्यपूर्वस्य॥ ७।१।१०२
काशिका-वृत्तिः
उदोष्ठ्यपूर्वस्य ७।१।१०२

ओष्थ्यः पूर्वो यस्मादृ̄कारातसौ ओष्ठ्यपूर्वः, तदन्तस्य धातोरङ्गस्य उकारादेशो भवति। पूर्ताः पिण्डाः। पुपूर्षति। मुमूर्षति। सुस्वूर्षति। दन्त्योष्ठ्यपूर्वो ऽप्योष्ठ्यपूर्वो भवति इत्यत्र अपि भवति, वुवूर्षति ऋत्विजम्, प्रावुवूर्षति कम्बलम्। ओष्ठ्यो ह्यत्र प्रत्यासत्तेरङ्गावयव एव गृह्यते, तेन ऋ̄ गतौ इत्यस्य सम्पूर्वस्य समीर्णम् इति भवति। इत्त्वोत्त्वाभ्यां गुणवृद्धी भवतो विप्रतिषेधेन। आस्तरणम्। आस्तारकः। निपरणम्। निपारकः। निगरणम्। निगारकः।
लघु-सिद्धान्त-कौमुदी
उदोष्ठ्यपूर्वस्य ६१४, ७।१।१०२

अङ्गावयवौष्ठ्यपूर्वो य ॠत् तदन्तस्याङ्गस्य उत् स्यात्॥
न्यासः
उदोष्ठ�पूर्वस्य। , ७।१।१०२

"ॠत इद्धातोः] ७।१।१०० इतीत्त्वे प्राप्त उत्त्वं विधीयते। "पूर्त्तः" ["पूर्त्ताः"--काशिका, पदमञ्जरी च] इति। "पृ? पालनपूरणयोः" (धा।पा।१०८६), क्तः। "न ध्याख्या" ८।२।५७ इत्यादिना प्रतिविषद्धत्वान्न निष्ठानत्वं भवति। "वुवूर्षति" इति। "वृ? वरणे" (धा।पा।१४९०)। "मुमूर्षति" इति। "मृ? हिंसायाम्()" (धा।पा।१४९२)। "सूस्वूर्षति" इति। "स्थृ? शब्दोपतापयोः" (धा।पा।९३२), "अज्झनगमां सनि" ६।४।१६ इति दीर्घत्वं ऋकारान्तत्वमस्य। अथेह कथमुत्त्वम्()--"वृङ्? सम्भक्तौ" (धा।पा।१५०९), "वृञ्? वरणे" (धा।पा।१२५४)--प्रावुवूर्षते, प्रावुवूर्षतीति, न ह्रत्र ऋकार ओष्ठ()पूर्वः किं तर्हि? दन्त्योष्ठ()पूर्वं इति? तदेतदाह--"दन्त्यौष्ठ()पुर्वोऽप्योष्ठ()पूर्वो भवति" इत्यादि। यो ह्रुभयस्थाने निष्पद्यते लभतेऽसावन्यतरव्यपदेशम्()। तेन दन्त्यौष्ठ()ओ यो भवति सोऽप्योष्ठ()ओ भवत्येव। दन्त्यौष्ठ()पूर्वोऽपयोष्ठ()पूर्व एव। अथ समीर्णमित्यत्र कस्मान्नि भवति, अस्ति ह्रत्राप्योष्ठग्रपूर्वता? इत्याह--"ओष्ठ()ओ ह्रत्र" इत्यादि। ओष्ठ()ओ ह्रत्राङ्गावयवोऽपि। तत्रेह प्रत्यासत्तेरङ्गावयवो गृह्रते, नोपसर्गवयवः। प्रत्यासन्नत्वं पुनाप्रसङ्गस्य प्रकृतत्वात्? उपसर्गस्य तु नास्ति प्रत्यासन्नत्वम्(); विपर्ययात्()। "इत्त्वोत्त्वाभ्याम्()" इत्यादि। इत्त्वोत्त्वयोरवकाशः--आस्तीर्णम्(), पूत्र्त इति; गुणवृद्ध्योरवकाशः--चयनम्(), चायक इति; इहोमयं प्राप्नोति--आस्तरणम्(), आस्तारकः, निपरणम्(), निपारक इति, अत्र गुणवृद्धी भवतो विप्रतिषेधेन॥
बाल-मनोरमा
उदोष्ठ�पूर्वस्य ३२४, ७।१।१०२

उदोष्ठ()। "ऋत इद्धातो"रित्त ऋत इत्यनुवर्तते। अङ्गस्येत्यधिकृतमिहानुवृत्तमावर्तते। एकमवयवषष्ठ()न्तमोष्टयस्य विशेषणम्। अपरं तु ऋता विशेष्यते। तदन्तविधिः। तदाह--अङ्गावयववौष्ठ()एत्यादिना। अङ्गावयवेति किम्?। समीर्णः। "ऋ गतौ" क्र्यादिः। तस्मात्संपूर्वात् क्तप्रत्यये " श्र्युकः किती"तीण्निषेधे "ऋत इद्धातो"रिति इत्त्वे रपरत्वे "हलि चे"ति दीर्घे "रदाभ्या"मिति निष्टानत्वे तस्य णत्वे समीर्ण ति रूपम्। तत्र मकारात्मकौष्ट()पूर्वत्वादित्त्वं बाधित्वा उत्त्वं स्यात्। "अङ्गावयवे"त्युक्तौ तु मकारस्य ओष्ठ()स्य अङ्गावयवत्वाऽभावादुत्त्वं न भवति। तथा च प्रकृतेऽपि पृ()तीत्यत्र इदमुत्त्वं स्यादिति शङ्का प्राप्ता। तां परिहरति-- गुणवृद्धी इति। इममिति। उत्त्वविधिमित्यर्थः। पिपर्तीति। उत्त्वात्परकत्वाद्गुण इति भावः। पिपृ? तस् इति स्थिते आह---उत्त्वमिति। ङित्त्वेन गुणाऽभावादुदोष्ठ()एत्युत्त्वमिति भावः। पिपुरतीति। अभ्यस्तत्वाददादेशे ङित्त्वाद्गुणाऽ‌ऽभावादुत्त्वमिति भावः। पिपर्षि पिपूर्थ। पिपर्मि पिपूर्वः। पिपूर्मः। लिटि णल्याह-- पपारेति। उत्त्वात्परत्वाद्वृद्धिरिति भावः। "अर्तिपिपत्र्योश्चे"त्यभ्यासस्य नेत्त्वम्, तत्र श्लावित्यनुवृत्तेः। प्राप्ते इति। गुणे नित्यं प्राप्ते इत्यर्थः।

तत्त्व-बोधिनी
उदोष्ठ�पूर्वस्य २८०, ७।१।१०२

उदोष्ठ()। अह्गावयवेति किम्?। "ऋ गतौ" क्र्यादिस्तस्मात् क्तप्रत्यये "श्र्युकः किती"ति इण्निषेधात्समीर्ण इति भवति। अन्यथा तु "समूर्ण" इति स्यात्।