पूर्वम्: ७।१।१८
अनन्तरम्: ७।१।२०
 
सूत्रम्
नपुंसकाच्च॥ ७।१।१९
काशिका-वृत्तिः
नपुंसकाच् च ७।१।१९

नपुंसकादङ्गादुत्तरस्य औङः शी इत्ययम् आदेशो भवति। कुण्डे तिष्ठतः कुण्डे पश्य। यस्य इति लोपः प्राप्तः। श्यां प्रतिषेधो वक्तव्यः। इति न भवति। दधिनी। मधुनी। त्रपुणी। जतुनी।
लघु-सिद्धान्त-कौमुदी
नपुंसकाच्च २३६, ७।१।१९

क्लीबादौङः शी स्यात्। भसंज्ञायाम्॥
न्यासः
नपुंसकाच्च। , ७।१।१९

"दधिनी" इति। "इकोऽचि विभक्तौ" ७।१।७३ इति नुम्()॥
बाल-मनोरमा
नपुंसकाच्च ३०८, ७।१।१९

नपुंसकाच्च। "जसः सी" त्यत्रः "शी"ति "औङ आपः" इत्यतः "औङि"ति चानुवर्तते, तदाह--क्लीबादिति। ओङित्यौकारविभक्तेः संज्ञेत्युक्तम्। ज्ञानं ई इति स्थिते।

तत्त्व-बोधिनी
नपुंसकाच्च २७१, ७।१।१९

नपुसंकाच्च। "जसः शी" "औङ् आपः" इत्यतः "शी""औङ"इति चानुवर्तत इत्यभिप्रत्याहक्लीबात्परस्येत्यादि।

यस्येति। इश्च अश्च यं, तस्य--[यस्य]। तदाह---इवर्णावर्णयोरिति। "ईति चे"ति चकारेण "नास्त द्धिते"इत्यतस्तद्धितोऽनुकृष्यते, तदाह---ईकार तद्धिते चेति। औङः श्यामिति। विभक्त्य पेक्षया स्त्रीलिङ्गनिर्द्देशः। नेदं वचनं कर्तव्यम्। "विभाषा ङिश्यो"रित्यतः "श्यां"मिति प्रकृतं, "न संयोगात्" इत्यतो "ने"ति च, तत्रापि सबन्धमात्रं कर्तव्यं, यस्य ईकारे तद्धिते च लोपो भवति, श्यां नेत्याकरः।