पूर्वम्: ७।१।२२
अनन्तरम्: ७।१।२४
 
सूत्रम्
स्वमोर्नपुंसकात्॥ ७।१।२३
काशिका-वृत्तिः
स्वमोर् नपुंसकात् ७।१।२३

सु अम् इत्येतयोः नपुंसकादुत्तरयोः लुग् भवति। दधि तिष्ठति। दधि पश्य। मधु तिष्ठति। मधु पश्य। त्रपु। जतु। तद्ब्राह्मणकुलम् इत्यत्र लुका त्यदाद्यत्वं बाध्यते, पूर्वविप्रतिषेधेन नित्यत्वाद् वा। लुको हि निमित्तम् अतो ऽम् ७।१।२४ इति लक्षणान्तरेण विहन्यते, न पुनस्त्यदाद्यत्वेन एव। यस्य च लक्षणान्तरेण निमित्तं विहन्यते न तदनित्यं भवति।
लघु-सिद्धान्त-कौमुदी
स्वमोर्नपुंसकात् २४५, ७।१।२३

लुक् स्यात्। वारि॥
न्यासः
स्वमोर्नपुंसकात्?। , ७।१।२३

"सु" इति यद्यपि सप्तमीबहुवचनमस्ति, तथाप्यमा द्वितीयैकवचनेन सहचर्यात्प्रथमैकवचनमेव गृह्रते। तदब्राआहृणकुलमित्यत्र परत्वात्? त्यदादयत्वेनैव भवितव्यम्(), त्यदाद्यत्वे कृते लुग्न प्राप्नोति; "अतोऽम्(), ७।१।२४ इत्यम्भावप्रसङ्गात्(), तस्मात्त्यदाद्यत्वात्प्राग्? लुग्वक्तव्यः? इत्याह--"तद्ब्राआहृणकुलमित्यत्र" इत्यादि। लुकोऽवकाशः--दधि, मध्वित्यत्र, त्यदाद्यत्वस्यावकाशः--ब्राआहृण इति; इहोभयं प्राप्नोति--तदब्राआहृणकुलमिति, लुग्भवति पूर्वविप्रतिषेधेन। न च पूर्वविप्रतिषेधो वक्तव्यः; इष्टवाचित्वात्परशब्दस्य। "नित्यत्वाद्वा" इति। वाशब्दः समुच्चये। यद्यपि लुक्(), त्यदाद्यत्वञ्चोभयं प्राप्नोति, तथापि लुक एव नित्यत्वं विज्ञायते। कुतः? सामर्थात्()। "लुका त्यदाद्यत्वे बाध्यते" इत्यत्र हीदं हेत्वन्तरमुक्तम्()। एवञ्चेदमत्रार्थे हेत्वन्तरं सम्भवति यदि लुको नित्यत्वं भवति, नान्यथा, नित्यत्वं पुनः कृताकृतप्रसङ्गित्वात्()। त्यदाद्यत्वं हि विभक्तावुच्यमानं कृते लुकि विभक्त्यभावान्न प्राप्नोति। प्रत्ययलक्षणेन चास्य प्राप्तिनं युक्ता; "न लुमताङ्गस्य" १।१।६२ इति प्रतिषेधात्()। लुक्पुनः कृते त्यदाद्यत्वे प्राप्नोत्यकृतेऽपि। ननु च कृते त्यदाद्यत्वे लुकः प्राप्तिरेव नास्ति; "अतोऽम्()" ७।१।२४ इत्यपवादविधानात्()। तस्मात्सोऽप्यनित्य एव? इत्याह--"लुको हि" इत्यादि। असति "अतोऽम्()" ७।१।२४ इति लक्षणेऽकारान्तमप्यङ्गं लुको निमित्तमासीत्(), तदनेन लक्षणेनोपजायमानेनापवादविधानाल्लुकं प्रत्यनिमित्तभावमापद्यते। लुग्निमित्ताभावापादनमेव विघातः। "न पुनस्त्यदाद्यत्वेन" इति। लुको निमित्तभावो विहन्यत इति सम्बन्धनीयम्()। यदि "अतोऽम्()" ७।१।२४ इत्यपवादविधायि लक्षणान्तरं न स्यात्(), कृते त्यदाद्यत्वे स्यादेवाकारान्तमङ्गं लुको निमित्तम्()। तच्च "अतोऽम्()" ७।१।२४ इत्यपवादेनैव लुको निमित्तं व्याहन्यते, न पुनस्त्यदाद्यत्वेन। यद्येवम्? तत्किमित्यनित्यो लुग्न भवति? इत्याह--"यस्य च" इत्यादि। लक्षणान्तरत्वं लक्षणान्तरत्वं पुनरम्भावशास्त्रस्य त्यदाद्यत्वशास्त्रापेक्षया वेदितव्यम्()॥
बाल-मनोरमा
स्वमोर्नपुंसकात् ३१७, ७।१।२३

अथ वारिशब्दप्रक्रियां दर्शियितुमाह--स्वमोर्नपुंसकात्। "षड्भ्यो लुक्" इत्यतो लुगित्यनुवर्तते। इत्याह--क्लीवादित्यादिना। वारीति। सोरमश्च लुकि रूपम्। नच "आदेः परस्ये"त्यमोऽकारस्यैव लुक् स्यान्न तु मकारस्यापीति शङ्क्यं, प्रत्ययस्य लोप एव हि लुगित्युच्यते। अम् इति समुदाय एवेह प्रत्ययो नतु तदेकदेशभूतमकारमात्रम्। अतो लुगमः सर्वादेश एव भवति।

तत्त्व-बोधिनी
स्वमोर्नपुंसकात् २७९, ७।१।२३

स्वमोर्नपुंसकात्।अयं लुक् पूर्वविप्रतिषेधेन त्यदाद्यत्वस्य, किमः कादेशस्य च बाधकः। परत्वाद्धि त्यदाद्यत्वे "तदोः--"इति सोरम्भावे च "सं कुल"मिति स्यात्। इष्यते तु "तत्कुल"मिति।