पूर्वम्: ७।१।३३
अनन्तरम्: ७।१।३५
 
सूत्रम्
आत औ णलः॥ ७।१।३४
काशिका-वृत्तिः
आत औ णलः ७।१।३४

आकारान्तादङ्गादुत्तरस्य णलः औकारादेशो भवति। पपौ। तस्थौ। जग्लौ। मम्लौ। अत्र औत्वम्, एकादेशः , स्थानिवद्भावः, द्विर्वचनम् इत्यनेन क्रमेण कार्याणि क्रियन्ते। एकादेशादनवकाशत्वादौत्वं द्विर्वचनादपि परत्वादेकादेशः इति।
लघु-सिद्धान्त-कौमुदी
आत औ णलः ४९०, ७।१।३४

आदन्ताद्धातोर्णल औकारादेशः स्यात्। पपौ॥
न्यासः
आत औ णलः। , ७।१।३४

"तस्यौ" इति। "शर्पूर्वाः खयः" ७।४।६१ इति खयः शेषः। "जग्लौ" इति। "कहोश्चुः" ७।४।६२ इति चुत्वम्()। इह "पा" इत्यादिभ्यो णलि परत्रवस्थिते युगपत्? त्रीणि कार्याणि प्राप्नुवन्ति--द्विवचनम्(), एकादेशः, औत्वञ्च। तेषाञ्च तथा प्राप्तानां युगपत्प्रवृत्तिः सम्भवतीति सामथ्र्यात्? प्राप्तः क्रम आश्रीयते। तत्र येन क्रमेण तानि कत्र्तव्यानि, तं दर्शयितुमाह--"अत्र" इत्यादि। अत्रेत्यनेन पपवित्यादीन्युदहरणानि प्रत्ययमुश्यन्ते। यदि द्विर्वचनादेकादेशः पूर्वं क्रियते तदा "वृद्धिरेचि" ६।१।८५ इति वृद्धावेकादेशे कृते निमित्तनिमित्तिनोविंशेषाभावाल्लिटि परतः पूर्वस्योचयमानं द्विवचनं न प्राप्नोतीति तस्य निरासायेदमुक्तम्()--स्थानिवद्भावो द्विर्वचनमिति। केन पुनरत्र स्थानिवद्भावः? "द्विर्वचनेऽचि" (१।१।५९) इत्यनेन? नैवम्(); द्विर्वचननिमित्तेऽपि परतः पूर्वस्योच्यमानं द्विवचनं न प्राप्नोतीति तस्य निरासायेदमुक्तम्()--स्थानिवद्भावो द्विर्वचनमिति। केन पुनरतर स्थानिवद्भावः? "द्विर्वचनेऽचि" (१।१।५९) इत्यनेन? नैवम्(); द्विर्वचननिमित्तेऽचि परतः पूर्वसय स्थानिवद्भाव उच्यते, न चात्र द्विर्वचननिमित्तं परमचं पश्यामः। अत्र क्चिदाहुः--अचीत्युपलक्षणम्(), अचि य आदेशो दृष्टः स द्विर्वचने कत्र्तव्ये स्थानिवद्भवतीतीमं सूत्रार्थमाश्रित्यैतदुक्तम्()। इह सम्प्रत्यनच्परत्वेऽप्येकादेशकरणकालेऽचः परस्य निमित्तभावेनश्रयणादच्ययमादेशः कृतः। तस्माद्भवितव्यं स्थानिवद्भावेन। अन्ये त्वाहु--"एकादेशः पूर्वविधौ स्थानिवद्भवतीति वक्तव्यम्()" इत्यनयेष्ट()आ स्थानिवद्भावः। "द्विर्वचनेऽचि" १।१।५८ इति योगाविभागाद्वा स्थानिवद्भावः इत्यपरे। कथं पुनरयमेषां कार्याणां क्रम उपलभ्यते? इत्यत आह--"एकादेशात्()" इत्यादि। पा+अ इति स्थितेऽकः सवर्णे दीर्घत्वं ६।१।९७ प्राप्नोति, औत्वञ्च। तत्रैकादेशः--दण्डाग्रमित्यादौ सावकाशः, औत्वं तु न क्वचित्? सावकाशम्(); अतस्तावदनवकाशत्वात्? प्रागौत्वं क्रियते, ततर कृते वृद्धिः प्रापनोति, द्ववचनञ्च, तत्र परत्वाद्()वृद्धिर्भवति। द्विवचनं हि--पपाचेत्यादौ सावकाशम्(), वृद्धेस्त्ववकाशः--खट्वैडकेत्यादौ। अतो वृद्धौ कृतायां पश्चाद्भवति द्विर्वचनं स्थानिवद्भावेन! "णलः" इति। णकारोच्चारणं प्रत्ययग्रहणं यथा स्यात्()। णलो णकारोच्चारणे हि णल्प्रत्ययोऽस्तीति तस्य ग्रहणं भवति। त()स्मश्चासत्यल इत्युच्यमाने सत्यल्प्रत्ययस्याभावात्? प्रत्याहारग्रहणं विज्ञायेत। लकारोच्चारणं "श्याद्व्यध" ३।१।१४१ इत्यादिना विहितस्य णप्रत्ययस्य ग्रहणं मा भूदित्येवमर्थम्()। अथ "एकवचनस्य" (७।१।३२) इत्यनुवत्र्तते? तथा सति मुखसुखार्थम्()॥
बाल-मनोरमा
आत औ णलः २०८, ७।१।३४

तथा च प्रकृते लिटि द्वित्वादौ दधा अ इति स्थिते--आत औ। "औ" इति लुप्तप्रथमाकम्। अङ्गस्येत्यधिकृतं पञ्चम्या विपरीणम्यते। "आत" इति तद्विशेषणम्। तदन्तविधिः। तदाह--आदन्ताद्धातोरिति। णल्()प्रकृतिश्च धातुरेवेति धातुग्रहणम्। तथा च णल औत्वे वृद्धौ रूपमाह-- दधाविति।

तत्त्व-बोधिनी
आत औ णलः १८०, ७।१।३४

आत औ णलः। इह अङ्गस्येत्यनुवर्तते। धातोरिति तु फलितार्थकथनम्। आदन्तादङ्गादित्यर्थः।