पूर्वम्: ७।१।३८
अनन्तरम्: ७।१।४०
 
सूत्रम्
सुपां सुलुक्पूर्वसवर्णाऽ‌ऽच्छेयाडाड्यायाजालः॥ ७।१।३९
काशिका-वृत्तिः
सुपां सुलुक्पूर्वसवर्नाऽआच्छेयाडाड्यायाजालः ७।१।३९

छन्दसि विषये सुपां स्थाने सु लुक् पूर्वसवर्ण आ आत् शे या डा ड्या याचालित्येते आदेशाः भवन्ति। सु अनृक्षरा ऋजवः सन्तु पन्थाः। पन्थानः इति प्राप्ते। सुपां सुपो भवन्ति इति वक्तव्यम्। धुरि दक्षिणायाः। दक्षिणायाम् इति प्राप्ते। तिङां तिङो भवन्दि इति वक्तव्यम्। चषालं ये अश्वयूपाय तक्षति। तक्षन्ति इति प्राप्ते। लुक् आर्द्रे चर्मन्। रोहिते चर्मन्। चर्मणि इति प्राप्ते। हविर्धाने यत् सन्वन्ति तत्सामिधेनीरन्वाह। यस्मिन् सुन्वन्ति तस्मिन् सामिधेनीः इति प्राप्ते। पूर्वसवर्णः धीती। मती। सुष्टुती। धीत्या, मत्या, सुष्टुत्या इति प्राप्ते। आ द्वा यन्तारा। द्वौ यन्तारौ इति प्राप्ते। आत् न ताद् ब्राह्मणाद् निन्दामि। तान् ब्राह्मणानिति प्राप्ते। शे न युष्मे वाजबन्धवः। अस्मे इन्द्राबृहस्पती। यूयं वयम् इति प्राप्ते। युयादेशो वयादेशश्च छन्दसत्वान् न भवति। या उरुया। धृष्णुया। उरुणा, धृष्णुना इति प्राप्ते। डा नाभा पृथिव्याम्। नाभौ पृथिव्याम् इति प्राप्ते। ड्या अनुष्टुयोच्च्यावयतात्। अनुष्टुभा इति प्राप्ते। याच् साधुया। साधु इति सोर्लुकि प्राप्ते। आल् वसन्ता यजेत। वसन्ते इति प्राप्ते। इयाडियाजीकाराणाम् उपसङ्ख्यानम्। इया उर्विया परि ख्यन्। दार्विया परिज्मन्। उरुणा, दारुणा इति प्राप्ते। डियाच् सुक्षेत्रिया सुगातुया। सुक्षेत्रिणा, सुगात्रिणा इति प्राप्ते। ईकारः दृतिं न शुष्कं सरसी शयानम्। सरसि शयानम् इति प्राप्ते। आङयाजयारां च उपसङ्ख्यानम्। आङ् प्र बाहवा। प्रवहुना इति प्राप्ते। अयाच् स्वप्नया सचसे जनम्। स्वप्नेन इति प्राप्ते। अयार् स नः सिन्धुमिव नावया। नावा इति प्राप्ते।
न्यासः
सुपां सुलुक्पूर्वसवर्णाच्छेयाडाड�आयाजालः। , ७।१।३९

"पन्थाः" इति। पथिन्नित्येतस्माज्जस्(), तस्य सुः, "पथिमथ्यृभुक्षामात्()" ७।१।८५ इत्यात्त्वम्(), "इतोऽत्सर्वनामस्थाने" ७।१।८६ इतीकारस्यात्त्वम्(), "थो न्थः" ७।१।८७ इति न्थादेशः। "सुपाम्()" इत्यादिना सुपां स्थाने सुप आदेशा भवन्तीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्()--पूर्वसूत्रादपिशब्दोऽनुवत्र्तते, स चानुक्तसमुच्चयार्थः, तेन सुपामन्येऽपि सुपो भवन्ति। "धुरि दक्षिणायाः" इति। सप्तम्येकवचनस्य स्थान पञ्चम्येकवचनम्(), षष्ठ()एकवचनं वा। "तिङाम्()" इत्यादि। तिङाञ्च तिङो भवन्तीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं तु पूर्वपदेव वक्तव्यम्()। "आद्र्रे चर्मन्()" इति। सप्तम्येकवचनस्य चर्मन्()शब्दाल्लुक्()। "यत्()" इति। अत्रापि यच्छब्दात्(), तच्छब्दाच्च। "धीती" इत्यादि। "धीति-मति-सुष्टुतिशब्देभ्यः परसय तृतीयैकवचनस्य पूर्वसवर्ण इकारः, उभयोरकः सवर्णे ६।१।९७ दीर्घत्वम्()। "उभा" इति। उभशब्दात्प्रथमाद्विवचनस्याकारः। "प्रथमयोः पूर्वसवर्णः" ६।१।९८ इत्येकादेशः। "न ताद्? ब्राआहृणाद्? निन्दामि" इति। तच्छब्दाद्? ब्राआहृणशब्दाच्च द्वितीयैकवचनस्यात्()। निशब्दे परतः "यरोऽनुनासिकेऽनुनासिको वा" ८।४।४४ इति तकारस्य नकारादेशः। "युष्मे, अस्मे" इति। युष्मदस्मच्छब्दाभ्यां परस्य च जसः "शे" १।१।१३ इत्ययमादेशः। शकारः सर्वादेशार्थः। अथेह "यूयषयौ जसि" (७।२।९३) इति यूयवयादेशौ कस्मान्न भवतः? इत्याह-"यूयादेशः" इत्यादि। "उरुया, धृष्णुया" इति। उरुधृष्णुशब्दाभ्यां परस्य तृतीयैकवचनस्य यादेशः। "नाभा" इति। नाभिशब्दात्? सप्तम्ये कवचन्सय डादेशः डकारष्टिलोपार्थः। "अनुष्ट()आ" इति। अनुष्टुप्()शब्दात्? तृतीयैकवचनस्य ड()आदेशः। "साधुया" इति। साधुशब्दात्? परस्य प्रथमैकवचनस्य याजादेशः। चकारोऽन्तोदात्तार्थः। "सोर्लुकि प्राप्ते इति। याजित्ययमादेशो विधीयत इति शेषः। लुक्प्राप्तिस्तु "स्वमोर्नपुंसकात्()" ७।१।२३ इत्यनेन। "वसन्ता" इति। वकन्तशब्दात्? परस्य सप्तम्येकवचनस्यालित्ययमादेशः। लित्करणं लित्प्रत्ययात्? पूर्वस्योदात्तत्वं यथा स्यात्()। "उपसंख्यानम्()" इति। प्रतिपादनमस्यार्थः। उत्तरत्राप्युपसंख्यानशब्दस्य प्रतिपादनमर्थः। प्रतिपादनं त्वपिशब्दमाश्रित्य कत्र्तव्यम्()। उर्विया, दार्विया" इति। उरुदारुशब्दाभ्यां परस्य तृतीयैकवचनस्येयादेशः। "सुक्षेत्रिया" इति। सुक्षेत्रिन्नित्यादेर्मत्वर्थीयेनिप्रत्ययान्तात्? परस्य तृतीयैकवचनस्य ङियाजादेशः। डकारष्टिलोपार्थः। चकारोऽन्तोदात्तार्थः। "सरसी" इति। सरःशब्दात्? सप्तम्येकवचनस्य ईकारः। "प्रबाहवा" इति। प्रबाहुशब्दात्? तृतीयैकवचनस्याङादेशः, "घेङिति" ७।३।१११ इति गुणः, अवादेशः। ननु च "ङित्त्वे विद्याद्वर्णनिर्देशमात्रं वर्णे यत्स्यात्तच्च विद्यात्तदादौ॥" (म।भा।३।२४७) इत्युक्तम्(), न चेहादौ ङकारः, तत्? कथं गुणः? ङित्करणसामथ्र्याद्भविष्यतीत्यदोषः। "स्वप्नया" इति। स्वप्नशब्दात्? परस्य तृतीयैकवचनस्यायाच्(), "अतो गुणे" ६।१।९४ पररूपत्वम्()। चकारः स्वरार्थः। "नावया" इति। मौशब्दात्? परस्य तृतीयैकवचनस्यायारादेशः। रेफः "उपोत्तमं रिति" ६।१।२११ इत्युपोत्तमाकारस्योदात्तत्वार्थः॥