पूर्वम्: ७।१।५०
अनन्तरम्: ७।१।५२
 
सूत्रम्
अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि॥ ७।१।५१
काशिका-वृत्तिः
अश्वक्षीरवृषलवणानाम् आत्मप्रीतौ क्यचि ७।१।५१

छन्दसि इत्यतःप्रभृति निवृत्तम्। अश्व क्षीर वृष लवण इत्येतेषाम् अङ्गानाम् आत्मप्रीतिविषये क्यचि परतो ऽसुगागमो भवति। अश्वस्यति वडवा। क्षीरस्यति माणवकः। वृषस्यति गौः लवणस्यत्युष्ट्रः। आत्मप्रीतौ इति किम्? अश्वीयति। क्षीरियति। वृषीयति। लवणीयति। अश्ववृषयोर्मैथुनेच्छायाम् इति वक्तव्यम् क्षीरलवणयोर् लालसायाम् इति वक्तव्यम्। तृष्णातिरेको लालसा। अन्यत्रात्मप्रीतावपि न भवति। अपर आह सर्वप्रातिपदिकेभ्यो लालसायामसुग्वक्तव्यः। दध्यस्यति, मध्वस्यति इत्येवम् आद्यर्थम्। अपर आह सुग्वक्तव्यः। दधिस्यति, मधुस्यति इत्येवम् आद्यर्थम्।
न्यासः
अ�आक्षीरवृषलवणानामात्मप्रीतौ क्यचि। , ७।१।५१

"आत्मप्रीतौ" इति। विषयसप्तमीयम्()। अत एवाह--"आत्मप्रीतिविषये क्यचि" इति। आत्मप्रीतिर्विषयो यस्य क्यचः स तथोक्तः। "अ()आस्यति" इति। आत्मनोऽ()आमिच्छतीति "सुपः आत्मनः क्यच्()" ३।१।८ अनेनासुक्(), अतो गुणे" ६।१।९४ पररूपत्वम्()। एवं "क्षीरस्यति" इत्यादावपि वेदितव्यम्()। सर्वत्रात्मप्रीतिविषये क्यच्()। यो ह्रात्मनोऽ()आआदिकमिच्छति स नियोगत आत्मनः प्रोत्यर्थमिच्छति। यद्येवम्(), इच्छायां क्यच्विधीयमानः सर्वत्रात्मप्रीतिविषये भविष्यतीतीच्छायां वक्तव्यम्()? प्रसिद्ध्युपसंग्रहार्थमात्मप्रीताविति लौकिकस्यार्थस्योपादानम्(), तेन यत्रात्मप्रीतावसुग्लोके प्रयुज्यते तत्रैव भवति, नान्यत्र। तेना()आवृषयोर्मैथुनेच्छायां क्षीरलवणयोर्लालसायामित्युपपन्नं भवति। "अ()आईयति" इति। अ()आमिवाचरतीति "उपमानादाचारे" ३।१।१० इति क्यच्(), "क्यचि च" ७।४।३३ इतीत्त्वम्()। "अ()आवृषयोः" इत्यादि। " अ()आवृष्योर्मेथुनेच्छायामसुग्भवति" इत्येतदर्थरूपं व्याख्येयमित्यर्थः। "क्षीरलवणयोः" इत्यादि। वक्तव्यमित्येतदपेक्षते। "क्षोरलवणयोर्लालसायामसुग्भवति" इत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं तु कृतमेव। "अन्यत्रात्मप्रीतावपि न भवति" इति। आत्मनोऽ()आआदिकमिच्छत्य()आईयतीति। लवणीयति। "तृष्णातरेकः" इति। तृष्णाया अतिरेकः=अतिशयः, प्रकर्षः, अधिक्यमित्यर्थ-॥
बाल-मनोरमा
अ�आक्षीरवृषलवणानामात्मप्रीतौ क्यचि ४८७, ७।१।५१

अ()आक्षीर क्यचि। "परे असु"गिति शेषपूरणम्, "आज्जसेरसु"गित्यतस्तदनुवृत्तेरिति भावः। असुकि ककार इत्ुकार उच्चारणार्थः। कित्त्वादन्त्यावयवः। अ()आवृषयोरिति - वार्तिकम्। अ()आस्यति वडवेति। मैथुनार्थम()आमिच्छतीत्यर्थः। वृषस्यति गौरिति। मैथुनार्थं वृषमिच्छतीत्यर्थः। "वृषस्यन्ती तु कामुकी"ति कोशस्तु अ()आवृषरूपप्रकृत्यर्थपरित्यागेव मैथुनेच्छामात्रे लाक्षणिकः। क्षीरलवणयोरिति - वार्तिकम्। "असु " गिति शेषः। लालसा - उत्कटेच्छा। सर्वप्रातिपदिकानामिति। इदमपि वार्तिकम्। लालसायां सर्वेषां प्रातिपदिकानां क्यच् वक्तव्यः तस्मिन् परे प्रकृतीनां सुगसुकौ च वक्तव्यौ इत्यर्थः। नचानेनैव वार्तिकेन सिद्धे "क्षीरलवणयोर्लालसाया"मिति वार्तिकं व्यर्थमिति शङ्क्यं, "क्षीरलवणयोर्लालसाया"मिति वार्तिकं व्यर्थमिति शङ्क्यं, "क्षीरलवणयो"रिति वार्तिकं कात्यायनीयं, "सर्वप्रातिपदिकाना"मिति तु मतान्तरमित्यदोषात्। एतच्च भाष्ये "अपर आहे"त्यनेन ध्वनितम्।

तत्त्व-बोधिनी
अ�आक्षीरवृषलवणानामात्मप्रीतौ क्यचि ४१८, ७।१।५१

अ()आक्षीर। "आज्जसे"रित्यतोऽसुगिति वर्तते।

* अ()आवृषयोर्मैथुनेच्छायाम्। अ()आस्यतीति। मैथुनार्थम()आमिच्छतीत्यर्थः एवं मैथुनार्थं वृषमिच्छति वृषस्यति गौः। ननु "इति रामो वृषस्यन्ती"मिति प्रयोगो मनुष्यविषये कथं सङ्गच्छत इति चेत्। अत्राहुः-- अ()आवृषरूपप्रकृत्यर्थपरित्यागेन मैथुनेच्छैवार्थः, अतएव "वृषस्यन्ती तु कामुकी"ति कोशोऽपि स्वरसतः सङ्गच्छते इति।

*लवणयोर्लालसायाम्। लालसायामिति। उत्कटेच्छायामित्यर्थः।