पूर्वम्: ७।२।९
अनन्तरम्: ७।२।११
 
प्रथमावृत्तिः

सूत्रम्॥ एकाच उपदेशेऽनुदात्तात्॥ ७।२।१०

पदच्छेदः॥ एकाच ५।१ उपदेशे ७।१ अनुदात्तात् ५।१ नेट् ?

समासः॥

न विद्यते उदात्तः यस्मिन्, ??? अनुदात्तः तस्मात् ॰ बहुव्रीहिः>

अर्थः॥

उपदेशे यः ??? तुरेकात् अनुदात्तश्च तस्मात् इडागमः न भवति

उदाहरणम्॥

दाता, ??? चेता, स्तोता, कर्त्ता, हर्त्ता
काशिका-वृत्तिः
एकाच उपदेशे ऽनुदात्तात् ७।२।१०

उपदेशे य एकाच् धातुरनुदात्तश्च तस्मादिडागमो न भवति। प्रकृत्याश्रयो ऽयं प्रतिषेधः। के पुनरुपदेशे ऽनुदात्ताः? ये तथा गणे पठ्यन्ते, त एव विस्पष्टार्थम् अनिट्कारिकासु प्रविभक्ताः प्रदर्श्यन्ते। अनिट्स्वरान्तो भवति इति दृश्यतामिमांस्तु सेटः प्रवदन्ति तद्विदः। अदन्तमृ̄दन्तमृतां च वृङ्वृञौ श्विडीङिवर्णेष्वथ शीङ्श्रिञावपि। गुणस्थमूदन्तमुतां च रुस्नुवौ क्षुवं तथोर्णोतिमथो युणुक्ष्णवः। इति स्वरान्ता निपुणं समुच्चितास्ततो हलन्तानपि सन्निबोधत। द्वये एव धातवः, स्वरान्ताः व्यञ्जनान्ताश्च। तत्र सर्वे स्वरान्ताः एकाचः अनुदात्ताः। अवधिष्ट। ऋ̄दन्तम् तरिता, तरीता। ऋतां च वृङ्वृञौ निर्वरिता, निर्वरीता। प्रवरिता, प्रवरीता। श्विडीङिवर्णेष्वथ शीङ्श्रिञावपि श्वयिता। उड्डयिता। शयिता। श्रयिता। गणस्थमूदन्तम् लविता। पविता। उतां च उर्स्नुवौ क्षुवं तथोर्णोतिमथो युणुक्ष्णवः रविता। प्रस्नविता। क्षविता। प्रोर्णविता। वाच्य ऊर्णोर्णुवद्भावो यङ्प्रसिद्धिः प्रयोजनम् इत्यतिदेशादेकाच्त्वम् ऊर्णोतेरस्ति इति उदात्त उपदिश्यते। यविता। नविता। क्ष्णविता। इति स्वरान्ता निपुणं समुच्चितास् ततो हलन्तानपि सन्निबोधत। शकिस्तु कान्तेष्वनिडेक इष्यते घसिश्च सान्तेसु वसिः प्रसारणी। घसिः प्रकृत्यन्तरम् अस्ति घस्ता। वसिः प्रसारणी वस्ता। प्रसारणी इति किम्? वसिता वस्त्राणाम्। वस निवासे इत्यस्य यजादित्वात् संप्रसारणं विहितम्, न तु वस आच्छादने इत्यस्य। सभिस्तु भान्तेष्वथ मैथुने यभिस्ततस्तृतीयो लभिरेव नेतरे। आरब्धा। यब्धा। लब्धा। यमिर्यमन्तेष्वनिडेक इष्यते रमिस्च यश्च श्यनि पठ्यते मनिः। नमिश्चतुर्थो हनिरेव पञ्चमो गमिश्च षष्ठः प्रतिषेधवाचिनाम्। यन्ता। रन्ता। मन्ता। श्यनि इति किम्? मनुतेः मनिता इत्येव भवति। नन्ता। हन्ता। गन्ता। दिहिर्दुहिर्मेहतिरोहती वहिर्नहिस्तु षष्थो दहतिस्तथा लिहिः। इमे ऽनिटो ऽष्टाविह मुक्तसंशया गणेषु हान्ताः प्रविभज्य कीर्तिताः। देग्धा। दोग्धा। मेढा। रोढा। वोढा। नद्धा। दग्धा। लेढा। मुक्तसंशयाः इति किम्? तन्त्रान्तरे चत्वारो ऽपरे पठ्यन्ते। सहिमुहिरिहिलुहयः। तत्र सहेर्विकल्पस्तकारादौ, मुहिरपि रधादौ पठ्यते, तेन तौ ससंशयौ सविकल्पौ। इतरौ तु धातुषु न पठ्येते, कैश्चिदभ्युपगम्येते इति स्वरूपेण एव ससंशयौ। दिशिं दृशिं दंशिमथो मृशिं स्पृशिं रिशिं रुशिं क्रोशतिमष्टमं विशिम्। लिशं च शान्ताननिटः पुराणगाः पठन्ति पाठेषु दशैव नेतरान्। देश्टा। द्रष्ता। दंष्टा। आम्रष्टा, आमर्ष्टा। स्प्रष्टा, स्पर्ष्टा। ऋदुपधानाम् उदात्तोपदेशानां मृजिदृशी वर्जयित्वा अनुदात्तस्य चर्दुपधस्य अन्यतरस्याम् ६।१।५८ इति रमागमविकल्पः। रेष्टा। रोष्टा। क्रोष्टा। प्रवेष्टा। लेष्टा। रुधिः सराधिर्युधिबन्धिसाधयः क्रुधक्षुधी शुध्यतिबुध्यती व्यधिः। इमे तु धान्ता दश ये ऽनिटो मतास्ततः परं सिध्यतिरेव नेतरे। रोद्धा। राद्धा। योद्धा। बन्द्धा। साद्धा। क्रोद्धा। क्षोद्धा। शोद्धा। बोद्धा। व्यद्धा। सेद्धा। बुध्यतिसिध्यत्योः श्यना निर्देशात् न्याय्यविकरणयोर् बुद्धिसिध्योरिड् भवत्येव। बोधिता। सिधिता। निष्ठायामापि प्रतिषेधाभावात् बुधितम्, सिधितम् इत्येव भवति। शिषिं पिषिं शुष्यतिपुष्यती त्विषिं विषिं श्लिषिं तुष्यतिदुष्यती द्विषिम्। इमान्। दशैवोपदिशन्त्यनिड्विधौ गणेषु षान्तान् कृषिकर्षती तथा। शेष्टा। पेष्टा। शोष्ट। पोष्टा। त्वेष्टा। वेष्टा। श्लेष्ट। तोष्टा। दोष्टा। द्वेष्टा। क्रष्ट। कर्ष्टा। कृषेस्तौदादिकस्य भौवादिकस्य च कृषिकर्षती इति निर्देशः। तपिं तिपिं चापिमथो वपिं स्वपिं लिपिं लुपिं तृप्यतिदृप्यती सृपिम्। स्वरेण वीचेन शपिं छुपिं क्षिपिं प्रतीहि पान्तान् पठितांस्त्रयोदश। तप्ता। तेप्ता। आप्ता। वप्ता। स्वप्ता। लेप्ता। लोप्ता। तृप्यतिदृप्यत्योरनुदात्तत्वममागमार्थमेव। इट् त्वनयोः रधादिपाठाद् विकल्पेन भवति। त्रप्ता, तर्प्ता, तर्पिता। द्रप्ता, दर्प्ता, दर्पिता। तुदादिषु तु यौ तृपिदृपी तावुदत्तावेव। स्रप्ता, सर्प्ता। शप्ता। छोप्ता। क्षेप्ता। अदिं हदिं स्कन्दिभिदिच्छिदिक्षुदीन् शदिं सदिं स्विद्यतिपद् यती खिदिम्। तुदिं नुदिं विद्यति विन्त इत्यपि प्रतीहि दान्तान् दश पञ्च चानिटः। अत्ता। हत्ता। स्कन्ता। भेत्ता। छेत्ता। क्षोत्ता। शत्ता। सत्ता। स्वेत्ता। स्विद्यति इति श्यना निर्देशो ञिष्विदा इत्यस्य ग्रहणं मा भूतिति। उदात्त एव अयम्। पत्ता। खेत्ता। तोत्ता। नोत्ता। वेत्ता। विद्यति विन्त इत्यपि श्यना श्नमा च निर्देशो ऽन्यविकरणनिवृत्त्यर्थः। वेत्तिविन्दती उदात्तौ एव। वेदिता विद्यानाम्। वेदिता धनानाम्। पचिं वचिं विचिरिचिरञ्जिपृच्छतीन् निजिं सिचिं मुचिभजिभञ्जिभृज्जातीन्। त्यजिं यजिं युजिरुजिसञ्जिमज्जतीन् भुजिं स्वजिं सृजिमृजी विद्ध्यनिट्स्वरान्। पक्ता। वक्ता। विवेक्ता। रेक्ता। रङ्क्ता। प्रष्टा। निर्णेक्ता। सेक्ता। मोक्ता। भक्ता। भङ्क्ता। भ्रष्टा, भर्ष्टा। त्यक्ता। यष्टा। योक्ता। रोक्ता। सङ्क्ता। मङ्क्ता। भोक्ता। परिष्वक्ता। स्रष्टा। मार्ष्टा। मृजिरयमूदित् पठ्यते, ततो ऽस्य विकल्पेन इटा भवितव्यम्। मार्ष्टा, मर्जिता इति, अमागमो ऽप्यस्य न दृश्यते? तदिह पाठस्य प्रयोजनं चिन्त्यम्। केचिदस्य स्थाने विजिं पठन्ति, सृजिं विजिं विद्ध्यनिट्स्वरानिति। निजादिषु यो विजिरसौ अनिडिष्यते। तथा च तन्त्रान्तरे निजिविजिष्वञ्जिवर्जम् इत्युक्तम्। एकाच इति किम्? अवधीत्। वृद्धिनिवृत्त्यर्थमदन्तो विधिरुपदिश्यते। उपदेशग्रहणं किम्? इह च यथा स्यात्, लविष्यति, पचिष्यति। इह च मा भूत्, कर्ता कटान्, कर्तुम् इति।
लघु-सिद्धान्त-कौमुदी
एकाच उपदेशेऽनुदात्तात् ४७७, ७।२।१०

उपदेशे यो धातुरेकाजनुदात्तश्च तत आर्धधातुकस्येण्न। ऊदॄदन्तैर्यौतिरुक्ष्णुशीङ्स्नुनुक्षुश्विडीङ्श्रिभिः। वृङ्वृञ्भ्यां च विनैकाचोऽजन्तेषु निहताः स्मृताः॥कान्तेषु शक्लेकः। चान्तेषु पच्मुच्रिच्वच्विच्सिचः षट्। छान्तेषु प्रच्छेकः। जान्तेषु त्यज्निजिर्भज्भञ्ज्भुज्भ्रस्ज्मस्ज्यज्युज्रुज् रञ्ज्विजिर्स्वञ्ज्सञ्ज्सृजः पञ्चदश॥ दान्तेषु अद्क्षुद्खिद्छिद्तुद् नुद्पद्यभिद्विद्यतिविनद्विन्द्शद्सद्स्विद्यस्कन्धदः षोडश। धान्तेषु क्रुध्क्षुध्बुध्यबन्ध्युध्रुध्राध्व्यध्साध्शुध्सिध्या एकादश। नान्तेषु मन्यहनी द्वौ। पान्तेषु आप्छुप्क्षिप्तप्तिप्तृप्यदृप्यलिपलुप्वप्शप्स्वप् सृपस्त्रयोदश। भान्तेषु यभ्रभ्लभस्त्रयः। मान्तेषु गम्यम्नम्रमश्चत्वारः। शान्तेषु क्रश्दंश्दिश्दृश्मृश्रिश्रुश्लिश्विश्स्पृशो दश। षान्तेषु कृष् त्विष्तुष्द्विष्पुष्यपिष्विष्शिष्शुष्श्लिष्या एकादश॥ सान्तेषु घस्वसती द्वौ। हान्तेषु दह्दिह्दुह्नह्मिह्रुह्लिह्वहोऽष्टौ। अनुदात्ता हलन्तेषु धातवस्त्र्यधिकं शतम्।गोपायाञ्चकर्थ। गोपायाञ्चक्रथुः। गोपायाञ्चक्र। गोपायाञ्चकार। गोपायाञ्चकर। गोपायाञ्चकृव। गोपायाञ्चकृम। गोपायाम्बभूव, गोपायामास। जुगोप। जुगुपतुः। जुगुपुः॥
लघु-सिद्धान्त-कौमुदी
ऋद्धनोः स्ये ४९९, ७।२।१०

ऋतो हन्तेश्च स्यस्येट्। ह्वरिष्यति। ह्वरतु। अह्वरत्। ह्वरेत्॥
न्यासः
एकाच उपदेशेऽनुदात्तात्?। , ७।२।१०

"अनुदात्तात्()" इति। बहुव्रीहिरयम्()--नास्योदात्तोऽस्तीत्यनुदात्तः। अन्वर्थशब्दोऽयमनुदात्तशब्दः। शास्त्रीये ह्रनुदात्ते गृह्रमाण एकवर्णा एव धातवो गृह्रेरन्()। तथा चान्येवां धातूनामनुदात्तप्रतिज्ञानमनर्थकं स्यात्()। इह चेकाज्ग्रहममुपदेशविशेषणम्()। "उपदेशे" इति। प्रकृतिपाठ इत्यर्थः। "अनुदात्तश्च" इति। उपदेश इत्यपेक्षते; तेनोपदेशग्रहणमुभयविशेषणमिति दर्शयति। तस्य प्रयोजनं प्रत्युदाहरणेष्वाविष्करिष्यति। "ये तथा गणे पठ()न्ते" इति। एतेन गणपाठादेव ते वेदितव्या इति दर्शयति। "त एव" इत्यादिना द्वितीयं परिज्ञानहेतुमाह। काः पुनस्ता अनिट्()कारिकाः? इत्याह--"अनिट्स्वरान्तः" इत्यादि। यावातन् कश्चित्? स्वरान्तोऽजन्तो धातुः स सर्वोऽनिङ्भवतोत्येतददृश्यताम्(), अवगम्यताम्()। अनिडिति बहुव्रीहिः--नास्मादिडस्तीति। "अनिट्? स्वरान्तः" इत्यस्योत्सर्गस्यापवादमाह--"इमांस्तु" इत्यादि। इमांस्त्वदन्तादीन्? वक्ष्यमाणान्? सेटः प्रवदन्ति। इटा सह वत्र्तन्त इति सेटः। के वदन्ति? तद्विदः सेडनिड्विद इत्यर्थः। "अदन्तम्()" इति बहुव्रीहिः--अकारस्तपरोऽन्तो यसय स तथोक्तः। तपरकरणं दीर्घनिवृत्त्यर्थम्()। "ॠदन्तम्()" इति। अयमपि बहुव्रीहिः। तपरकरणमसन्देहार्थम्()। रन्तमित्युच्यमाने, किमयं रेफस्य निर्देशः? उत्त ॠकारस्य? इति सन्देह--स्यात्()। "ॠतां च" इति। ॠतामिति निर्धारणे षष्ठी। ऋकारान्तानां मध्ये वृङवृञो सेटौ प्रवदन्ति। तपरकरणं पादपरणार्थम्()। पूर्वमृकारान्तग्रहणागेन हि ह्यस्वस्य ग्रहणमिहावसीयते। "()इआडीङिवर्णेषु" इति। निर्घारणे सप्तमी। इवर्णान्तेषु, मध्ये ()इआडीङौ सेटौ प्रवदन्त। "टु ओ()इआ गतिवृद्ध्योः" (धा।पा।१०१०), "डीङ्? विहायसागतौ" (धा।पा।९६८)। "अथ शीङ्श्रिञावपि" इति। "अथेत्यानन्तर्ये। अनयोः पूर्वक्तयोरनन्तरं शीङ्श्रिञावपि सेटौ प्रवदन्ति। "घीङ्? स्वप्ने" (धा।पा।१०३२), "श्रिञ्? सेवायाम्()" (धा।पा।८९७)। "गणस्थम्()" इति। स्वरूपख्यानमेतत्(), न तु विशेषणम्()--गणनिवृत्त्यर्थमिति; तस्यासम्भवात्()। "ऊन्तम्()" इति। "लूञ्? छेदने" (दा।पा।१४८३), "पूञ्? पवने" (धा।पा।१४८२) इत्येवमादयः। "उत्ताञ्च" इति। निर्धारणषष्ठी। "रु शब्दे" (धा।पा।१०३४), "स्नु प्ररुआवणे"[ष्णु--धा।पा।] (धा।पा।१०३८)। "क्षुवं तथोर्णोतिम्()" इत्यादि। "टु क्षु शब्दे" (धा।पा।१०३६), "ऊर्णुञ्? आच्छादने" (धा।पा।१०३९), "यु मिश्रण" (धा।पा।१०३३), [मिश्रणेऽमिश्रणे च--धा।पा।] "णु स्तुतौ" (धा।पा।१०३५), "क्ष्णु तेजने" (धा।पा।१०३७)। "आवधिष्ट" इति। आङ्पूर्वाद्धन्तेर्लुङ्, "आङोयमहनः" १।३।२८ इत्यात्मनेपदम्(); "आत्मनेपदेष्वन्यतरस्याम्()" २।४।४४ इति वधादेशः। स चावधीदित्यत्र वृद्धिर्मा भूदित्येवमर्थमदन्तः पठ()ते। इट्(), "अतो लोपः" ६।४।४८ इत्यकारलोपः। अथ किमर्थमूर्णोतिरुदात्त उपदिश्यते? इट्प्रतिषेधो मा भूदिति चेत्()? नैतदस्ति; एकाचो हीट्()प्रतिषेध उच्यते, न चास्यैकाचत्वमस्ति? इत्यत आह--"वाच्य ऊर्णोर्णुवद्भावः" इति। "एकाच्त्वम्()" इति। पदान्तस्यापि कुत्वाभावः, कुत्वस्यानित्यत्वात्()। अनित्यत्वं तु "बह्वच्पूर्वपदात्()" ४।४।६४, "अल्पाच्तरम्()" २।२।३४ इति निर्देशाद्वेदितव्यम्()। "इति" इत्येवमर्थः। "निपुणम्()" इति। सम्यगविपरीतमित्यर्थः। क्रियाविशेषणञ्चैतत्()। "समुच्चिताः" इति। उदात्तानुदात्तसङ्कीर्णाद्धातुराशेः पृथग्व्यवस्थिता इत्यर्थः। "ततः" इति। स्वरान्तधातुसमुच्चयनादुत्तरकालम्()। "हलन्तानपि निबोधत", अवगच्छतेत्यर्थः। "शकिस्तु" इत्यादि। "शक्लृ शक्तौ" (धा।पा।१२६१)। "घसिश्च" इत्यादि। ननु चादिं हदिमित्यादेः स्वरूपग्रहणे सति तस्य स्थाने "लुङ्सनोर्थस्लृ" २।४।३७ इति विहितस्य घस्लादेशस्यापि स्यानिवद्भावेनानिट्त्वं सिध्यत्येव, तत्किमर्थं घसिः पृथगुपादीयते? इत्याह--"घसिः प्रकृत्यन्तरमस्ति" इति। अन्यदेव हीदं धात्वन्तरं "घस्लु अदने" (धा।पा।७१५) इत्यदादौ पठ()ते, तस्येदं ग्रहणम्(), न त्वादेशस्य। "प्रसारणी" इति। प्रसारणम्()=सम्प्रसारणम्(), तदस्यास्तीति प्रसारणी। "वसिता" इति। "वस आच्छादने" (धा।पा।१०२३)। "वस निवासे" इत्यस्य सम्प्रसारणं विहितम्()" इति। वाच्यादिसूत्रेण ६।१।१५। एतेन निवासार्थो वसिः प्रसारणी, न त्वाच्छादनार्थं इति दर्शयति। "रभिश्च" इत्यादि। "रभ राभस्ये" (धा।पा।९७४) "यभ मैथुने (धा।पा।९८०) "डु लभष्? प्राप्तो" (धा।पा।९७५)। "यमिञंमन्तेषु" इत्यादि। "ञम्()" इति ञकारादारभ्य अमो मकारेण प्रत्याहरग्रहणम्()। "यम उपरमे" (धा।पा।९८४), "रमु क्रीडायाम्()" (धा।पा।८५३), "मन ज्ञाने" (धा।पा।११७६), "णम प्रह्वत्वे शब्दे च" (धा।पा।९८१), "हन हिंसागत्योः" (धा।पा।१०१२), "गम्लृ सृप्लृ गतौ" (धा।पा।९८२,९८३)। "श्यनिपठ()ते" इति। श्यन्ग्रहणेन साहचर्यात्? दिवादिर्लक्ष्यते। दिवादौ पठ()त इत्यर्थः। "प्रतिषेधदाचिनाम्()" इति। प्रतिषेधं वक्तुं शीलं येषां ते तथोक्ताः धातव एव ह्रनुदात्तलिङ्गानुषक्ताः प्रतिषेधं प्रतिपादयन्तति प्रतिषेधवाचिन उच्यन्ते। अथ वा--इट्प्रतिषेधमात्मविषयमाचार्येण वाचयन्त्यभिधापयन्तीति प्रतिषेधवाचिन इत्युच्यन्ते। एवञ्चात्र सम्बन्धः कत्र्तव्यः--ञमन्तेषु मध्ये ये परतिषेधवाचिनो धातवस्तेषां मध्ये यमिरनिडिष्यते। "रमिश्च" इत्यादि। अथ वा--प्रतिषेधवाचिनामित्यत्र मतेनेत्यध्याहार्यम्()। तत्रैवं सम्बन्ध कत्र्तव्यः--इट्प्रतिषेधवाचिनामाचार्याणां मतेन यमिर्ञमन्तेष्वनिडेक इष्यत इति। "मनुतेः" इति। "मनु अवबोधने" (धा।पा।१४७१) इत्येतस्य तानादिकस्य। "दिहिः" इत्यादि। "दिह उपचये" (धा।पा।१०१५), "दुह प्रपूरणे" (धा।पा।१०१४), "मिह सेचने" (धा।पा।९९२) "रुह जन्मनि प्रादुर्भावे" (दा।पा।८५९), "वह प्रापणे" (धा।पा।१००४), "णह बन्धने" (धा।पा।११६६), "दह भस्मीकरणे" (धा।पा।९९१), "लिह आस्वादने" (धा।पा।१०१६)। "मुक्तसंशयाः" इति। मुक्तः= त्यक्तः संशयो येषु यैर्वा ते तथोक्ताः। "प्रविभज्य कीर्त्तिताः" इति। सेडनिङ्()विभागेन व्यवस्थाप्य कीर्त्तिता इत्यर्थः। "देग्धा, दोग्धा" इति। "दादेर्धातोर्धः" ८।२।३२ इति धत्वम्(), "झषस्तथोर्धोऽधः" ८।२।४० इति धत्वम्(), "झलां जश्? झशि" ८।४।५२ इति जश्त्वमित्येते विधयः कत्र्तव्याः। "मेढा, "आरोढा" इति। "हो ढः" ८।२।३१ इति ढत्वम्(), पूर्ववद्धत्वम्(), "ष्टुन ष्टुः" ८।४।४० ष्टुत्वम्(), "ढो ढे लोपः" ८।३।१३ इति डलोपः। "वोढा" इति। पूर्ववड्ढत्वादि; "सहिवबोरोदवर्णस्य" ६।३।१११ इत्योत्त्वम्()। "नद्धा" इति। "नहो धः" ८।२।३४ इति धत्वम्(), पूर्ववज्जश्तवम्()। "तन्नान्तरे" इति। आपिशले व्याकरणे। "सहेर्विकल्पस्तकरादौ" इति। "तीषसह" ७।२।४८ इत्यादिना तकारादौ सहेर्विकल्प उक्तः। "मुहिरपि रधादौ पठ()ते" इति। एतेन मुहेरपि "रधादिभ्यश्च" ७।२।४५ इति विकल्पं दर्शयति। "तेन तौ ससंशयौ सविकल्पौ" इति। एतेन विकल्पात्मकेन संशयेन तौ ससंशयौ न तु सन्देहात्मकेनेति दर्शयति। "इतरौ" इति। रिहिलुही। "कैश्चिदभ्युपगम्येते" इति। आपिशलिप्रभृतिभिः। "स्वरूपेणैव ससंशयौ" इति। स्वरूपेणेति स्वभावेन। ससंशयौ=ससन्देहौ। संशयो ह्रतर सन्देहे वत्र्तते। सन्देहस्तु--धातुष्वपाठात्()। अथ च कैश्चिदभ्युपगमाच्च। तयोश्चैको हिंसायां वत्र्तमानोऽब्युपगम्यते, अपरस्तु गाध्र्ये। "दिशिं दृशिम्()" इत्यादि। "दिश अतिसर्जने" (धा।पा।१२८३) "दृशिर्? प्रेक्षणे" (धा।पा।९८८), "दन्श दशने" (धा।पा।९८१) "अथो शब्दः पादपूरणे। मृश आमद्र्दने" (धा।पा।१४२५),["आमर्शने"--धा।पा।] "स्पृश संस्पर्शे"["संस्पर्शने"--धा।पा।] (धा।पा।१४२२) "रुश रिश हिंसायाम्" (धा।पा।१४१९,१४२०), "क्रूश आह्वानेग रोदने च" (धा।पा।८५६), "विश प्रवेशने" (धा।पा।१४२४), "लिश अल्पीभावे" (धा।पा।११७९)। "पुराणगाः" इति। पुराणम्()=व्याकरणम्(), चिरन्तनत्वात्()ष तदगायन्त्यधीयते येते पुराणगाः। "पाठेषु" इति अनिट्कारिकापाठेषु, धातुपाठेषु वा। "नेतरान्()" इति। "स्पश बाधनस्पर्शनयोः" (धा।पा।८८७) इत्येमादीनिति। "देष्टा" इति। व्रश्चादिसूत्रे ८।२।३६ षत्वम्()। "अनुदात्तस्य" ६।१।५८ इत्यादिना मृशिप्रभृतीनामनुदात्तेट्प्रतिषेधादधिकं कथं दर्शयति। "रुधिः सराधिः" इत्यादि। सह राधिना वत्र्तत इति सराधिः। "रुधिर्? आवरणे" (धा।पा।१४३८), "राध साध संसिद्धौ" (धा।पा।११६२,११६३)। "राधोऽकर्मकाद्()वृद्धौ" इति। द्वयोरपि ग्रहणमिष्यते, विशेषाभावात्()। "युध सम्प्रहारे" (धा।पा।११९०), "शुध शौचे" (दा।पा।११९१), "बुध अवगमने" (धा।पा।११७२), "व्यध ताडने" (धा।पा।११८१), "सिधु संराद्धौ"["षिधु"--धा।पा।] (धा।पा।११९२)। "नेतरे" इति। इन्धिप्रभृतयः। "न्याय्यविकरणयोः" इति शब्विकरणयोरित्यर्थः। "बुध बोधने" (धा।पा।८७५), ["बुधिर्()"--धा।पा।] "षिधु गत्याम्()" (धा।पा।४७)["विध"--धा।पा।] इत्येतयोः। "निष्ठायामपि" इत्यादि। अथ कतं बुधेर्भौवादिकस्य प्रति,#एध आशङ्कितः? सिधेरुदित्त्वेन प्रतिषिद्धत्वात्()। "उदित्तो वा" (७।२।५६) इति कत्वाप्रत्यये विकल्पविधानात्? "यस्य विभाषा" ७।२।१५ इति निष्ठायां प्रतिषेधेन भवितव्यमिति युक्ता प्रतिषेधाशङ्का। बुधेस्तु न किञ्चिन्निष्ठायां प्रतिषेधाशङ्काकारणमस्ति। तस्याप्यस्ति--इह भौवादिकदैवादिकयोर्बुध्योरर्थरूपे समाने, अतश्चार्थरूपसाम्यादुपजातभ्रान्तिः प्रतिपत्ता; एक एवायं धातुः, विकरणद्वयार्थमुभयोर्गणयोः पाठः, तस्य चाद्र्धधातुक इडप्युक्तः, अनेन सूत्रेणेट्प्रतिषेधोऽपीत्येकविषयत्वाद्विधिप्रतिषेधयोः पर्यायप्रतिपत्तो विभाषेट्त्वम्(), अतः "यस्य विभाषा" ७।२।१५ इति निष्ठायां प्रतिषेधे न भवितव्यमिति कैश्चिन्मन्यते। तस्मात्? तन्मतमाशङ्क्येदमुक्तम्()--निष्ठायामपीत्यादि। एवं मन्यते--अन्य एव भौदादिको बुधिर्यस्येङविधिः, अन्यश्च वैवादिको यस्येट्प्रतिषेधः; तस्मात्? भिन्नविषयत्वाद्विधिप्रतिषेधयोर्विभाषेट्त्वं नोपपद्यत इति। अथ सिषेर्निष्ठाया प्रतिषेधाभावः कथमुक्तः, यावतीदिस्वात्? तस्य "उदितो वा" (७।२।५६) इति विभाषेट्त्वात्? "यस्य विभाषा" (७।२।१५) इति निष्ठायां भवितव्यमेव प्रतिषेधेन? एवं मन्यते--सिधेरुदित्त्वमनार्षमेव, यद तस्योदित्त्वं स्यात्(), भ्वादौ पाठोऽनर्थकः स्यात्(); यदनेन साध्यं रूपं तस्य "षिधू शात्रे" (धा।पा।४८) ["शास्त्रे माङ्गल्ये च"--धा।पा] इत्यनेनैव सिद्धत्वात्()। अनुदित्त्वे तु तस्य सिधितमित्येतत्सिद्धयेऽर्थवान्? पाठो भवति। न ह्रेतत्? "षिधू शास्त्रे" इत्यतेन सिध्यतीति। ऊदित्त्वेनास्य "स्वरितसूति" ७।२।४४ इत्यादिना विभाषितेटः "यस्य विभाषा" ७।२।१५ इति निष्ठायामिट्प्रतिषेधात्()। तस्माद्? भ्वादिपाठादेव सिद्धे सिधेरुदित्त्वमनार्षमेव। "शिर्षि पिषिम्()" इत्यादि। "शिष्लृ विशरणे" (धा।पा।१४५१), ["विशेषणे"--धा।पा।] "पिष्लृ सञ्चूर्णने" (धा।पा।१४५२), "शुष शोषणे" (धा।पा।११८३), "पुष पुष्टौ" (धा।पा।११८२), "त्विष दीप्तौ" (धा।पा।१००१)। "जिषु विषु मिषु सेचने" (धा।पा।६९७,६९८,६९९), "श्रिषु श्लिषु प्रषु प्लुषु दाहे" (धा।पा।७०१-७०४)--द्वयोरपि ग्रहणम्()। "तुष तुष्टौ" (धा।पा।११८४), ["प्रीतौ"--धा।पा।(तूष तुष्टो--धा।पा।६७४)] "दुष वैकृत्ये" (धा।पा।११८५), "द्विष अप्रीतौ" (धा।पा।१०१३), "कृष विलेखने" (धा।पा।१२८६)--भौवादिकतौदादिकौ। "पुष्यति" इति। श्यना निर्देशो भौवादिककैयादिकयोर्निवृत्त्यर्थः। शुष्यतिप्रभृतीनां तु वृत्तभङ्गपरिहारार्थः। "क्रष्टा, कर्ष्टा" इति। पूर्ववद्विकल्पेनामागमः। "तपिं तिपिम्()" इत्यादि। "तप सन्तापे" (धा।पा।९८५), "तप ऐश्यर्ये" [दाहे ऐ()आर्ये वा---धा।पा।] (धा।पा।९८४)--द्वयोरपि ग्रहणम्()। "तिपृ तेपृ ष्टेपृ क्षरणार्थाः, (धा।पा।३६२,३६३,३६५), "आप्लृ व्याप्तौ" (धा।पा।१२६०), "टु वपबीजतन्तुसन्ताने" (धापा।१००३),[डु वप बीजतन्तुसन्ताने, छेदनेऽपि--धा।पा।] "ञि ष्वप्? शये" ["ष्वप"--धा।पा।] (धा।पा।१०६८), "लिप उपदाहे" (धा।पा।१४३३), "लुप्लू छेदने" (धा।पा।१४३१), "तृप पीणने" (धा।पा।११९५), "हप हर्णणमोचनयोः" (धा।पा।११९६), ["हर्षमोहनयो-धा।पा।] "गम्लृ सृप्लृ गतौ" (धा।पा।९८२,९८३)। "स्वरेण नीचेन" इति। अनुदात्तेनेत्यर्थः। "शप आक्रोशे" (धा।पा।१०००), "शप उपालम्भे" ["आक्रोशे"--धा।पा।] (धा।पा।११६८)--उभयोरपि ग्रहणम्()। "छुप स्पर्शे" (धा।पा।१४१८), "क्षिप प्रेरणे" (धा।पा।१२८५)। तृप्यति दृप्यत्योरनुदात्तेत्त्वममागमार्थम्(), "अनुदात्तस्य" ६।१।५८ इत्यादिना पक्षेऽमागमो यथा स्यात्()। इद्प्रतिषेधार्थं कस्मान्न भवति? इत्याह--"इट्? त्वनयोः" इत्यादि। "तुदादिषु यौ तृपिदृपी" इति। "तृप तृम्प तृप्तौ"["तृन्फ"--धा।पा।] (धा।पा।१३०७,१३०८), दृप उपक्लेशे"["उल्लकेशे--धा।पा।] (धा।पा।१३१३) इत्येतौ। "अदिं हदिम्()" इत्यादि। "अद भक्षणे" (धा।पा।१०११),"हद पुरोषोत्सर्गे" (धा।पा।९७७), "स्कन्दिर्गतिशोषणयोः" (धा।पा।९५९), "भिदिर्? विदारणे" (धा।पा।१४३९), "छिदिर्? द्वैधीकरणे" (धा।श।१४४०), "क्षुदिर्? सम्पेषणे" (धा।पा।१४४३), "शद्लु शातने" (धा।पा।८५५), "षद्लृ विशरणगत्यवसादनेषु" (धा।पा।८५४), "ञि ष्विदा गात्रप्रक्षरणे" (धा।पा।११८८), "पद गतौ" (धा।पा।११६९)। "खिद दैन्ये" (धा।पा।११७०), "खिद परिद्याते" (धा।पा।१२८२), "विद सत्तायाम्()" (धा।पा।११८८), "पद गतौ" (धा।पा।११६९), "विद विचारणे" (धा।पा।१४५०)। "ञिष्विदेत्यस्य ग्रहणं मा भूत्()" इति। "ञिष्विदा स्नेहमोचनयोः (धा।पा।७४४) ["स्नेहनमोचनयोः--धा।पा।] इत्यस्य। "अन्यविकरणनिवृत्त्यर्थः" इति। "विद ज्ञाने" (धा।पा।१०६४) इति लग्विकरणस्य, "विद्लृ लाभे" (धा।पा।१४३२) इत्यस्य शविकरणस्य च निवृत्त्यर्थः। "विद वेदनाख्यानविवासेषु" (धा।पा।१७०८) ["चेतनाख्यानविवासेषु"--धा।पा।] इत्यस्य चौरादिकस्यानेकाच्त्वा देवाप्रसङ्गः। "पचिं वचिम्()" इत्यादि। "डु पचष्? पाके" (धा।पा।९९६)। "वच परिभाषणे" (धा।पा।१०६३), "व्रुवो वचिः" २।४।५३ इति च द्वयोरपि ग्रहणम्()। सौत्रोऽप्युपदेशो भवत्येव। "विचिर्? पृथग्भावे" (धा।पा।१४४२), "विचिर्? विवेचने" (धा।१०९४), ["विजिर्? पृथग्भावे"--धा।पा।] "रन्ज रागे" (धा।पा।९९९), "प्रच्छ ज्ञीप्सायाम्()" (धा।पा।१४१३), "णिजिर्? शौचपोषणयोः" (धा।पा।१०९३), "षिचिर्? क्षरणे" (धा।पा।१४३४),["षिच"--धा।पा।] "मुच्लृमोक्षणे" (धा।पा।१४३०), "भज सेवायाम्()" (धा।पा।९९८), "भन्जो आमर्दने" (धा।पा।१४५३), "भ्रस्ज पाके" (धा।पा।१४४४), "युज समाधौ" (धा।पा।११७७)--द्वयोरपि ग्रहणम्()। "रुजो भङ्गे" (धा।पा।१४१६), "षन्ज सङ्गे" (धा।पा।९८७), "टु मस्जो शुद्धौ" (धा।पा।१४१५)। "भुज पालनाभ्यवहारयोः" (धा।पा।१४५४), "भुजो कौटिल्य" (धा।पा।१४१७)--द्वरोरपि ग्रहणम्()। "ष्वञ्ज परिष्वङ्गे" (धा।पा।९७६)। कृतानुनासिकलोपस्य निर्देशो वृत्तभङ्गपरीहारार्थः। "सृज विसर्गे" (धा।पा।१४१४)। "मृजू शुद्धौ" (धा।पा।१०६६) आदादिकः। "मृज शौचालङ्कारयोः" (धा।पा।१८४८) ["मृजू"--धा।पा।] इति चौरादिकोप्यस्ति, सोऽपि यदा "आ धुषाद्वा" (धा।पा।१८०५) अनन्तरम्()) इति णिजनास्त#इ, तदा शक्य एव ग्रहीतुम्()। यदा त्वस्ति, तदाऽनेकाच्त्वादेवेट्प्रतिषेधाप्रसङ्गः। "मृजिरयम्()" इत्यादिनप्रतिषेधार्थतां मृजेरिह निरस्यति। "अमागमोऽप्यस्य" इत्यादि। अनेनामागमार्थताम्()। "तदिह" इत्यादि। यत एव हि प्रयोजनद्वयं न सम्भवति, तत्समादिहास्य पाठे प्रयोजनं चिन्त्यम्()। तत्र केचिदाहुः--यद्यप्यमागमो न दृश्यते, तथाप्यसौ कत्र्तव्य एव अन्यथा ह्रस्य पाठोऽनर्थकः स्यात्()। न हि यन्न दृश्यते तेन न भवितव्यमेव, अन्यता हि "यथालक्षणमप्रयुक्तेषु" इत्येतद्वचनमप्रयुज्यमानं स्यात्()। अन्ये तु वर्णयन्ति--मृजेनिरुपपदात्(), क्विबन्ताद्विकारावयवविवक्षायां माजं इति "अनुदात्तादेरञ्()" (४।२।४४) इत्यञ्? यथा स्यात्()--इत्येतत्? प्रयोजनमिति; एतच्चायुक्तम्(); एकाच्त्वाद्धि नित्यं मयटा भवितव्यम्()। तथा हि--"नित्यं वृद्धञरादिभ्यः" ४।३।१४२ इत्यत्र नित्यग्रहणं किमर्थम्(), यावताऽ‌ऽरम्भसामथ्र्यादेव नित्यं भविष्यति? इति चोदेते, इदमुक्तम्()--"एकाचो नित्यं मयटमिच्छन्तीति तदर्थमेतत्? क्रियते--त्वङ्मयं वाङ्मयम्()" इति। "केचित्()" इत्यादि। केचित्? प्रयोजनमपश्यन्तो मृजेः स्थाने विजिं पठन्ति। किं करणमित्याह--"निजादिषु हि" इत्यादि। "विजिर्? प्रथग्भावे" (धा।पा।१०९४) इति निजादिषु विजिः पठ()ते, स यस्मादनिडिष्यते तस्मान्भृजिमपनीय तस्य स्थाने विजिं पठन्ति। कथं ज्ञायतेऽसावनिडिष्यते? इत्याह--"तथा च" इत्यादि। "तन्त्रान्तरे"["ग्रन्थान्तरे--इति पाठान्तरम्()] इति। आपिशलिष्याकरणे। अथ "सुजिविजी" इत्यस्मिन्? पाठे "ओविजी भयचलनयोः" (धा।पा।१२८९) इत्यस्य ग्रहणं कस्मान्न भवति? ईदित्त्वात्()। तद्ध्येवमर्थं क्रियते--"()आओदितो निष्ठायाम्()" ७।२।१४ इतीट्प्रतिषेधो यथा स्यात्()। यदि च तस्यापीह ग्रहणं स्यादनेनैव सिद्धत्वादीदित्त्वमनर्थकं स्यात्()। "अवधीत्()" इति। "लुङि च" २।४।४३ इति वाधादेशोऽदन्तः। स चानुदत्तस्यादेशः स्थानिवद्भावेनैव भवति। उपदेशेऽनुदात्त एकाच उपदेशो न भवतीति न भवति प्रतिषेधः। कथं पुनरयमेकाज्भवति? इत्याह--"वृद्धिनिवृत्त्यर्थम्()" इत्यादि। यदि ह्रदन्तो वधिर्नोपदिश्येत, "अतो हलादेर्लघोः" ७।२।५ इति विकल्पेन वृद्धिः स्यात्()। अदन्ते तु सति न भवति, तत्र "येन च्यवधानमाश्रियम्। अदन्तत्वे तु सति वधेरकारलोपस्य पुर्वविधौ स्थानिवद्भावेनापि व्यवधानं भवति, न केवलं हलैव। याऽपि हलन्तलक्षणा वृद्धिः, साऽप्यदन्तत्वे सति न भवत्येव;अकारलोपस्य स्थानिवद्भावादहलन्तत्वात्()। तस्माद्()वृत्त्यर्थमदन्तो वधिरुपदिश्यते। ननु यद्यप्यदन्त उपदिश्यते, तथापि स्थानिवद्भावेनैकाजिति व्यपदेशे सति भवितव्यमेव प्रतिषेधेन? "नतदस्ति; एवं ह्रेकाज्ग्रहणमनर्थकं स्यात्()। तथा हि--जागृदरद्राचकात्प्रभृतीनामुदात्तत्वात्? नैकाज्ग्रहणं ते प्रयोजयन्ति। सनाद्यन्तानां धातूनामुपदेशत्वं नास्ति; लाक्षणिकत्वात्समुदायसय। न चान्योऽनेकाज्? धातुरूपदेशेऽनुदात्तोऽस्ति य एकाज्ग्रहणं प्रयोजयति। न चास्मिन्? व्यपदेशे कत्र्तव्ये स्थानिवद्भावेऽस्ति; अल्विधित्वात्()। "इह च यता स्यात्()" इति। असत्युपदेशग्रहणे" एकाचो धातोरनुदात्तादिडागमो न भवतीत्येव सूत्रार्थः; एवञ्च लविष्यति, पविष्यतीत्यत्रेडागमो न स्यात्()। भवत्यत्र प्रत्ययस्वरे कृते शेषानुदात्तत्वे धातुरनुदात्तः। तथा च--कत्र्ता कटान्(), कर्त्तुमिच्छतीत्यत्र त्विडागमः स्यादेव; तृनि तुमुनि च कृते नित्स्वरेण धातोरुदात्तत्वात्()। उपदोशग्रहणे तु सति तेनाद्यावस्था विशेष्यत इति न भवत्येव दोषप्रसङ्गः। यद्यप्युत्तरकालं लुनातिपुनाती अनुदात्तौ, तथाप्युपदेशावस्थायामुदात्तावेव। तथा यद्यप्यत्तरकालं करोतिरुदात्तः, तथाप्युपदेशवस्थायामनुदात्त एव। अथ बिभिच्छब्दस्य प्रकृतेपाठो नास्ति, नाप्येकाच्त्वम्(); तथापि भिदेस्तूभयमिदमस्ति। "द्विष्प्रयोगो द्विर्वचनम्()" इत्ययमपि तत्र पक्ष आश्रितः, तेन भिदिरेव तत्र द्विरुच्यते, तस्य चोभयविशेषणविशिष्टत्वात्? सिध्यत्येव प्रतिषेधः॥
बाल-मनोरमा
एकाच उपदेशेऽनुदात्तात् ९२, ७।२।१०

अथ लिटि थासः सेभावे "कृ" इत्यस्य द्वित्वादौ एधां च कृ से इति स्थिते "आद्र्धधातुकस्येड्वलादे"रितीडागमे प्राप्ते---एकाच उपदेशे। "ऋत इद्धातो" रित्यतो धातुरित्यनुवर्तते। "नेड्वशि कृती"त्यतो नेति च। तदाह-- उपदेशे यो धातुरेकाजिति। #एकोऽच् यस्येति बहुव्रीहिः। आर्धधातुकस्येति। यद्यपीदं न श्रुतं, नाप्यनुवृत्तलभ्यं, तथाप्यार्थिकमिदम्, आद्र्धधातुकस्यैवेटः प्राप्तेः। वृत्तिग्रन्थे तु आद्र्धधातुकस्येति नोपात्तम्। नन्वेकाच उपदेशेऽनुदात्तादित्यत्र यदि उपदेशे इत्येतदेकाच इत्यत्रान्वेति तदा कर्तु मित्यत्र इण्निषेधो न स्यात्, कृञ्धातोरूदृ()दन्तैरित्यादिनाऽनुदात्तत्वस्य वक्ष्यमामत्वेऽपि तुमुन्प्रत्यये कृते "ञ्नत्यादिर्नित्य"मित्याद्युदात्तत्वात्। यदि तूपदेशे इत्येतदनुदात्तादित्यनेनान्वेति तदा यद्यपि नायं दोषः, कृते तुमुन्प्रत्यये उदात्तत्वेऽपि दातूपदेशकालेऽनुदात्तत्वेन तत्र इण्निषेधस्य निर्बाधत्वात्तथापि एधांचकृषे इत्यादाविण्निषेधो न स्यात्, द्वित्वे कृतेऽकाच्त्वादित्यत आह--उपदेश इत्युभयान्वयीति। "उपदेश" इत्येतत् "एका"जित्यत्र, "अनुदात्ता" दित्यत्र चान्वेति, मध्यममिन्यायादिति भावः। ननूदृ()दन्तैरित्यादिना परिगणितानामनुदात्तोपदेशधातूनामेकाच्त्वाऽव्यभिचारादेकाज्ग्रहणं मास्तु, उपदेशेऽनुदात्तादित्येवास्तु, #एतावतैव कर्तुं चकृष इत्यादाविण्निषेधसिद्धेरिति पृच्छति--एकाचः किमिति। यङ्लुग्व्यावृत्तिरिति। यङ्लुकि चर्करितेत्यादौ इण्निषेधव्यावृत्तये एकाज्ग्रहममित्यर्थः। ननु कृतेऽप्येकाज्ग्रहणे कथं यङ्लुग्व्यावृत्तिः, श्तिपा शपेत्यादेरुदाहरणानि यङ्लुङ्निरूपणे स्पष्टीभविष्यन्ति। नन्विह एकाज्ग्रहणाद्यङ्लुकीण्निषेधस्य व्यावृत्तावपि श्तिबादिनिर्दिष्टानां यङ्लुकि व्यावृत्तिः प्राचीनाचार्यसंमताऽपि पाणिनेरसंमतैवेत्यत आह-- एतच्चेति। एतत् = श्तपा शपेति श्लोकसिद्धं सर्वमपि, इह = सूत्रे ,एकाज्ग्रहणेनैव एकदेशानुमत्या ज्ञाप्यत इत्यर्थः। ननु "हनो वध लिङि" "लुङि चे"ति आह--अच इत्येकत्वेत्यादि व्यावर्त्त्यत इत्यन्तम्। "एकाच उपदेशेऽनुदात्ता"दित्यत्र हि एकग्रहणमपनीयाऽच इत्युक्तेऽपि एकाऽच्कादिति लभ्यते, एकवचनोपात्तस्यैकत्वस्य त्यागे प्रमाणाऽभावात्। न चैवं सति एकत्वविशिष्टादचः परस्येत्येव लभ्येत,नत्वेकाच्कादिति बहुव्रीह्रर्थ इति वाच्यम्, अनुदात्तोपदेशेपरिगणने शक्लृपचिमुच्यादीनां परिगणनसामर्थ्येन "अच" इत्यस्य मत्वर्थलक्षणामाश्रित्य एकाज्वतो ग्रहणसंभवात्। तदेवमच इत्यनेनैव एकाच्कादिति सिद्धे यदेकग्रहणं करोति तत्सामथ्र्यादुपदेशे सर्वत्र एकाजेव न तु क()स्मश्चदप्युपदेशे अनेकाजित्यर्थकल्पनया कदाचिदनेकाच्कोपदेशधातुव्र्यावत्र्यत इत्यर्थ-। तेनेति। उपदेशे सर्वत्र एकाजेवेत्यर्थलाभेन, हन्त्युपदेशे--हनिति स्थान्युपदेशे-- एकाचोऽपि सतो हनिति धातोरादेशस्य वधेः परस्य इण्निषेधो नेत्यर्थ-। कुत इत्यत आह-- आदेशोपदेश इति। "अवधी"दित्यत्र "अतो हलादेर्लघो" रिति वृद्धिनिवृत्तये हनो वधादेशस्य अदन्तताया भाष्ये उक्तत्वादिति भावः। ननु के तेऽनुदात्ता धातव इत्यत आह-- अनुदात्तास्त्वनुपदमेवेति। पदस्य पश्चादनुपदम्। पदमात्रे अतीते सतीत्यर्थः। अनन्तरमेवेति यावत्। एधांचकृषे इति। इडभावे प्रत्ययावयवत्वात्षत्वम्। एधांचक्राथे इति। लिट आथामादेशः। टेरेत्वंद्वित्वादि पूर्ववत्। लिटो धवमष्टेरेत्वे द्वित्वादौ एधाचकृ--ध्वे इति स्थिते।

तत्त्व-बोधिनी
एकाच उपदेशेऽनुदात्तात् ७१, ७।२।१०

उभयान्वयीति। मध्ये पाठाद्देहलीदीपन्यायेन पूर्वोत्तराभ्यां संबध्यत इत्यर्थः। तत्रोत्तरान्वयस्य कर्तुं गन्तुमित्यादाविण्निषेधः फलम्।नित्स्वरेण संप्रत्युदात्तत्वात्। पिपक्षतिबिभत्सतीत्यादाविण्निषेधस्तु पूर्वान्वयस्य फलम्। द्वित्वे कृतेऽनेकाच्त्वात्। नन्वेकाच इत्युक्ते ह्रुपदेशपदेनाऽप्यन्वयः स्वीकर्तव्यस्तदेव मास्तु, उपदेशेऽनुदात्तादित्यनेनैवेष्टसिद्धेरिति शङ्कते- एकाचः किमिति। पिपक्षतीत्यादाविव यङ्लुक्यपीण्निषेधः स्यादेवेत्याशङ्कायायमाह णत्वं न। शपा यथा-- भरेति। तेन बिभर्तेः सनि बिभरिषतीत्यत्र "सनीवन्तर्दे"तीड्विकल्पो न, किंतु नित्यमेवेट्। "एकाच" इति निषेधाऽप्रवृत्तेः। अनुबन्धेन निर्देशो द्विधा, स्वरूपेणेत्संज्ञकत्वेन च। स्वरूपेण यथा-- "शीङः सार्वधातुके गुणः", "दीङो युडचि"इति। शेशितः। देद्यितः। तसि क्तप्रत्यये चेमे क्रमेणोदाहरणे। इत्संज्ञकत्वेन यथा-- "अनुदात्तहितः" इति। तेन स्पर्धशीङादिभ्यः "अनुदात्तङितः" इत्यात्मनेपदं न। पास्पर्धीति। शेशयीति। गणेन यथा-- बेभिदीति। "रुधादिभ्यः" इति श्नम्न। एकाज्ग्रहणं प्रकृतसूत्रे। तेन बेभेदिता चेच्छेदितेत्यादाविण् निषेधो न। एतच्चेति। न च श्तिपा शप#आद्यंशे कथमिदं ज्ञापकमिति शङ्क्यम्, एकादेशानुमतिद्वारा सर्वत्र ज्ञापनस्य "उपपदमति"ङित्यादौ दृष्टत्वात्। अत एव तत्र "गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्ते"रिति सिद्धमित्युक्तम्। अनन्यार्थैः स्यतिहन्तिभरेत्यादिभिः श्तिप्शबादिभिरेव ज्ञापनसंभवाच्च। "अपरस्पराः" इति सूत्रे सातत्यग्रहणेन एकदेशानुमत्या "लुम्पेदवश्यमः कृत्ये" इत्यादिपूर्वाचार्यश्लोको ज्ञापित इति तु तत्रैवाऽवोचाम। मनोरमायां त्वेकदेशानुमतिद्वारा पूर्वाचार्यपठितपरिभाषाया ज्ञापनस्य "गतिकारकोपपदाना"मित्यादौ दृष्टत्वादित्युक्तं, तदयुक्तमिति नव्याः। "गतिकारकोपपदाना"मित्याद्येव हि पूर्वाचार्याणां परिभाषा। न च तज्ज्ञापनं तत्रैव दृष्टमिति युज्यते वक्तुमिति। तद्वत इति। न च मत्वर्थलक्षणायां मानाऽभावः, वसत्यादीनामनुदात्तपाठस्यैव तत्र मानत्वात्। न चेदानीमनुदात्तपाठ परिभ्रष्टः, आधुनिकानां वसतिशल्कित्यादिपाठस्त्वनार्षत्वान्न मानमिति शङ्क्यं, पाणिनिना पठितानामेवानुदात्तधातूनामाधुनिकैव्र्याख्यातृपरम्परया सङ्गृहीतत्वात्। अन्यथा एकोऽच् यस्येति बहुव्रीहिलाभार्थमेकग्रहणे कृतेऽप्यनुदात्तपाठस्य परिभ्रष्टत्वाद्वसतिशक्लादयोऽनुदात्ताः, न तु भ्वेधादय इति निर्धारणं न स्यात्। एकग्रहणेति। नन्वेकाज्()ग्रहणं यङ्लुग्व्यावृत्त्यर्थमित्युक्त्वा पुनरेकग्रहणसामथ्र्यादित्यक्तौ परस्परव्याघातः स्यादिति चेत्। अत्राहुः--- एकाच्()शब्देनैकाज्()ग्रहणं यङ्लुग्व्यावृत्त्यर्थमिति नार्थः, किं तु वस्तुगत्यैवैकाज्ग्रहणं, तच्चैकग्रहणं विनैव लभ्यत इत्यदोष इति। वधेरिति। यस्तु तद्व्यावृत्तयेऽनिट्कारिकास्वदन्तपर्युदास उक्तो व्याघ्रभूतिना, स एव प्राचाऽनुसृतः। "अदूदृ()दन्तरुरुआउक्ष्णुशीयुनुक्षु()इआडीङ्()श्रिभिः। वृङवृञ्भ्यां च विनैकाचः स्वरान्ता धातवोऽनिटः" इति। स चादन्तपर्युदास इहोपेक्षितः। सूत्राननुगुणत्वात्। तथाहि -- "सर्वे सर्वपदादेशाः" इति न्यायेन "कृ"इत्यादेः करित्यादिरादेशस्तस्य यथा स्थान्युपदेशं गृहीत्वा कर्ता हर्तेत्यादौ निषेधः प्रवर्तते तथैव वधादेशेऽपि प्रवर्तमानः केन वार्यताम्?। अदन्तपर्युदाससामथ्र्यादिति चेन्न, सूत्रकारेणाऽपर्युदस्तत्वादिति भावः।