अति तियेतस्यां विभक्तौ परतः किम् इत्येतस्य क्व इत्ययम् आदेशो भवति। क्व गमिष्यसि। क्व भोक्ष्यते। आदेशान्तरवचनम् ओर्गुण निवृत्त्यर्थम्। किमो ड्वतिति प्रत्ययान्तरं न विधीयते, साकच्कार्थम्।
कादेशस्यायमपवादः। "क्व" इति। "किमोऽत्()"
५।३।१२ इत्यत्()।
अथ किमर्थमादेशान्तरं विधीयते, न प्रकृतः कु एव विधीयताम्(), तत्रापि यणादेशो क्वेति सिध्यत्येव; योगविभागश्च न कत्र्तव्यो भवति,
"कुतिहात्सु" इत्येको योगः करिष्यते? इत्यत आह--"आदेशान्तरवचनम्()" इत्यादि। कुशब्दे ह्रादेशे सति यणादेशं बाधित्वा "ओर्गुणः"
६।४।१४६ इति गुणः स्यात्()।
तस्मात्? तन्निवृत्त्यर्थं क्वादेश इत्युच्यते।
एवमपि प्रत्ययविधावेव "किमो ड्वत्()" इति ड्वत्प्रत्ययो विधेयः, तत्रापि टिलोपे कृते क्वेति रूपं सिध्यत्येव। पदसंज्ञायां सत्यां "झलां जशोऽन्ते" (७।२।
३९) इति ककारस्य गकारः प्राप्नोतीत्यतो न सिध्यतीति चेत्()? नैतदस्ति; "असिद्धं बहिरङ्गमन्तरङ्गे (व्या।प।४२) इति टिलोपस्यासिद्धत्वाज्जश्त्वं न भवति। टिलोपो हि डिति विधीयते, तेन डितमपेक्षमाणो बहिरङ्गो भवति। जश्त्वं तु पदान्ते विधीयमानं नापरनिमित्तमपेक्षत इत्यन्तरङ्गमित्यत आह--"किमो ड्वदिति प्रत्ययान्तरम्()" इत्यादि। यदि डवदिति प्रत्ययान्तरं विधीयेत, साकच्कस्य क्वेति रूपं न सिध्यति। असचि हि कृते ककिमिति स्थिते ड्वत्प्रत्यये परतष्टिलोपे सति कक्वेत्यनिष्टं रूपं स्यत्()।
अत्प्रत्यये तु क्वादेशो विधीयमानोऽनेकास्त्वात्? साकच्कस्य सर्वादेश एव भवतीति न भवत्यनिष्टरूपप्रसङ्घः।
तस्मात्? साकच्कार्थं ड्वदिति न प्रत्ययान्तरं विधीयते।
साकच्कोऽर्थः प्रयोजनं यस्य तत्? साकच्कार्थम्()॥
क्वाऽति। क्व--अतीति छेदः। "क्वे"ति लुप्तप्रथमाकं। "किमः कः" इत्यतः किम इत्यनुवर्तते। तदाह--किमः क्वेति। किंशब्दात्सप्तम्यन्तादत्प्रत्ययः, तकार इत्, किमः क्वादेश इति भावः। कुत्रेति। अत्प्रत्ययाऽभावपक्षे त्रलि "कु तिहो"रिति कुभावे रूपम्। केचित्तु "किमोऽ"दित्यत्र उत्तरसूत्राद्वाग्रहणाऽपकर्षे प्रमाणाऽभावात्रलं बाधित्वा नित्य एव अत्प्रत्ययः, "कुत्रे"ति त्वपशब्द एवेत्याहुः।