पूर्वम्: ७।२।१०८
अनन्तरम्: ७।२।११०
 
सूत्रम्
दश्च॥ ७।२।१०९
काशिका-वृत्तिः
दश् च ७।२।१०९

इदमो दकारस्य स्थाने मकारादेशो भवति विभक्तौ परतः। इमौ, इमे। इमम्, इमौ, इमान्।
लघु-सिद्धान्त-कौमुदी
दश्च २७७, ७।२।१०९

इदमो दस्य मः स्याद्विभक्तौ। इमौ। इमे। त्यदादेः सम्बोधनं नास्तीत्युत्सर्गः॥
न्यासः
दश्च। , ७।२।१०९

"इदमः" इति वत्र्तते, "सौ" इति निवृत्तम्(); उत्तरसूत्रे पुनः "सौ" इति वचनात्()। तेनायं विभक्तिमात्रे दाकारस्य मकारो भवति॥
बाल-मनोरमा
दश्च , ७।२।१०९

दश्च। "इदमो मः" इत्यनुवर्तते। "द" इति षष्ठी। इदमो दकारस्येति। लभ्यते। "अष्टन आ विभक्तौ" इत्यतोऽतिव्यवहितमपि विभक्तावित्येतन्मण्डूकप्लुत्याऽनुवर्तते। "तदोः सः सौ" इत्यतः साविति तु संनिहितमपि नानुवर्तते, सौ इदमो दस्याऽभावात्, "यः सौ" इत्युत्तरसूत्रे सौग्रहणाच्च। तदाह-इदमो दस्येत्यादिना। तथाच इम-औ इति स्थिते रामवद्रूपाणीत्याह--इमावित्यादि। त्यदादेः संबोधनं नास्तीति। प्रचुरप्रयोगाऽदर्शनादिति भावः। नन्वेवं सति "तदोः सः सो" इति सूत्रे "हे स" इति भाष्यविरोध इत्यत आह-उत्सर्ग इति प्रायिकमित्यर्थः।

तत्त्व-बोधिनी
दश्च ३०५, ७।२।१०९

उत्सर्ग इति। तेन "तदोः सः सा"बिति सूत्रे "अनन्त्ययोरिति किं हे स"इति भाष्यं, "भो अच्युत""भवन्नच्युते"त्यादि प्रयोदाश्च न विरुध्यन्त इति भावः।