पूर्वम्: ७।२।११५
अनन्तरम्: ७।२।११७
 
प्रथमावृत्तिः

सूत्रम्॥ अत उपधायाः॥ ७।२।११६

पदच्छेदः॥ अतः ६।१ उपधायाः ६।१ ञ्णिति ? वृद्धिः ? अङ्गस्य ?

अर्थः॥

अङ्गस्य उपधायाः अकारस्य स्थाने वृद्धिः भवति, ञिति णिति प्रत्यये परतः

उदाहरणम्॥

भागः, पाकः, त्यागः, यागः॥ णिति - पाचयति, पाचकः, पाठयति, पाठकः॥
काशिका-वृत्तिः
अत उपधायाः ७।२।११६

अङ्गोपधाया अकारस्य स्थाने ञिति णिति च प्रत्यये वृद्धिर् भवति। पाकः। त्यागः। यागः। पाचयति। पाचकः। पाठयति। पाठकः। अतः इति किम्? भेदयति। भेदकः। उपधायाः इति किम्? चकासयति तक्षकः।
लघु-सिद्धान्त-कौमुदी
अत अपधायाः ४५७, ७।२।११६

उपधाया अतो वृद्धिः स्यात् ञिति णिति च प्रत्यये परे। जगाद। जगदतुः। जगदुः। जगदिथ। जगदथुः। जगद॥
न्यासः
अत उपधायाः। , ७।२।११६

पाक इत्यादौ भावे घञ्(), "चजोः कु घिण्ण्यतोः" ७।३।५२ इति कुत्वम्()। "रागः" इति। "घञि च भावकरणयोः" ६।४।२७ इत्यनुनासिकलोपः। "पाचयति" इति। "हेतुमति च" ३।१।२६ इति णिच्()। "चकासयति" इति। उपधाग्रहणादिह चकारादकारस्य न भवति। तपरकरणं लाघवार्थम्()। असति हि स्मिन्नस्योपधाया इत्युच्यमाने गौरवं स्यात्()। दीर्घनिवृत्त्यर्थं तु तपरकरणं न भवति, न दीर्घस्य कृतायां वृद्धौ कश्चिद्विशेषोऽस्ति॥
बाल-मनोरमा
अत उपधायाः १२६, ७।२।११६

णलि अजन्तत्वाऽभावादचो ञ्णितीति वृद्धेरप्राप्तौ-- अत उपधायाः। वृद्धिः स्यादिति। "मृजेर्वृद्धि"रित्यतस्तदनुवृत्तेरिति भावः। चखादेति। एत्वाभ्यासलोपौ तु नात्र भवतः, पित्त्वेऽकित्त्वात्, आदेशादित्वात्, तदपेक्षया वृद्धेः परत्वाच्च।

तत्त्व-बोधिनी
अत उपधायाः १०१, ७।२।११६

अत उप। अतः किम्। तुतोद। उपदायाः किम्। गणयति। इह अतो लोपं बाधित्वा परत्वाद्वृद्धिः स्यात्।