पूर्वम्: ७।२।११६
अनन्तरम्: ७।२।११८
 
प्रथमावृत्तिः

सूत्रम्॥ तद्धितेष्वचामादेः॥ ७।२।११७

पदच्छेदः॥ तद्धितेषु ७।३ अचाम् ६।३ आदेः ६।१ अचो ञ्णिति ? वृद्धिः ? अङ्गस्य ?

अर्थः॥

तद्धिते ञिति णिति च प्रत्यये परतः अङ्गस्य अचाम् आदेः अचः स्थाने वृद्धिः भवति।

उदाहरणम्॥

ञिति - गार्ग्यः, वात्स्यः, दाक्षिः, प्लाक्षिः। णिति - औपगवः, कापटवः।
काशिका-वृत्तिः
तद्धितेष्वचाम् आदेः ७।२।११७

तद्धिते ञिति णिति च प्रत्यये परतो ऽङ्गस्य अचाम् आदेः अचः स्थाने वृद्धिर् भवति। गार्ग्यः। वात्स्यः। दाक्षिः। प्लाक्षिः। णिति औपगवः। कापटवः। त्वाष्ट्रः, जागतः इत्यत्र अचामादेर् वृद्धिरन्त्योपधालक्षणां वृद्धिं बाधते।
लघु-सिद्धान्त-कौमुदी
तद्धितेष्वचामादेः ९४१, ७।२।११७

ञिति णिति च तद्धितेष्वचामादेरचो वृद्धिः स्यात्। यस्येति च। पौर्वशालः। पञ्च गावो धनं यस्येति त्रिपदे बहुव्रीहौ। (द्वन्द्वतत्पुरुषयोरुत्तरपदे नित्य समासवचनम्)॥
लघु-सिद्धान्त-कौमुदी
दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः १००२, ७।२।११७

दित्यादिभ्यः पत्युततरपदाच्च प्राग्दीव्यतियेष्वर्थेषु ण्यः स्यात्। अणोऽपवादः। दितेरपत्यं दैत्यः। अदितेरादित्यस्य वा॥
न्यासः
तद्धितेष्वचामादेः। , ७।२।११७

"अचाम्()" इति निर्धारणे षष्ठी। "अचामादेरचः स्थाने" इति। ननु चेक्परिभावोपस्थानादिक एव स्थाने वृद्ध्या भवितव्यम्(), तस्मादिकः स्थान इत्येवं वक्तव्यम्(), न त्वचः स्थान इति? एवं मन्यते--"अचो ञ्णिति" (७।२।११५) इत्यतः स्थानिनिर्देशार्थं द्वितीयमज्ग्रहणमनुवत्र्तते, तेन यथा "अचो ञ्णिति" ७।२।११५ इत्यत्र स्थानिनिर्देशादिक्परिभाषा नोपतिष्ठते, तथेहापीत्यदोषः। "गार्ग्यः, वात्स्यः" इति। "गर्गादिभ्यो यञ्()" ४।१।१०५। "दाक्षिः, प्लाक्षिः" इति। "अत इञ्()" ४।१।९५। "औपगवः, कापटवः" इति। प्राग्दीव्यतीयोऽण्? ४।१।८३। अथ त्वाष्ट्रः, जागत इत्यतर त्वष्टृजगद्भ्यां "तस्येवम्()" ४।३।१२० इत्यणि कृते यथाक्रमं "अचो ञ्णिति" ७।२।११५ इत्यज्लक्षणा वृद्धिः प्राप्नोति, "अत उपधायाः" (७।२।११६) इत्युपधालक्षणा वृद्धिः कस्मान्न भवति? इत्याह--"अचामादेर्वृद्धिरन्त्योपधावृर्द्धि बाधते" इति। कथं पुनरन्यस्योच्यमानाऽन्यस्य बाधिका स्यात्()? ज्ञापकात्()। यदयमनुशतिकादिषु पुष्करसच्छब्दं पठति, तज्ज्ञापयति--यत्रादिवृद्धिस्तत्रान्या वृद्धिर्न भवतीति। तस्यानुशतिकादिषु पाठस्यैतत्? प्रयोजनम्()--उभयपदवृद्धिर्यथा स्यात्(), पुष्करसदोऽपत्यं पौष्करसादिरिति। "बाहवादिभ्यश्च" ४।१।९६ इतीञ्()। यदि चादिवृद्धिरन्यस्या वृद्धेर्बाधिका न स्यात्(), उपधालक्षणेनैव वृद्धेः सिद्धत्वात्? पौष्करसादिशब्दस्य, पुष्करसच्छब्दोऽनुशतिकादिषु न पठ()एत। पश्यत्याचार्यः--यत्रादिपदवृद्धिस्तत्रान्या वृद्धिर्न भवतीति; यतोऽनुशतिकादिषु पुष्करसच्छब्दं पठति। ननु ठगर्थस्तत्र पठः, तत्र ह्रुपधालक्षणा वृद्धिर्न प्राप्नोतीति ठकोऽञ्णित्त्वात्()--पुष्करसदा चरतीति पौष्करसादिक इति? नैतदस्ति; यदि पुष्करसच्छब्दाच्चरत्यर्थे ठगुत्पद्यते। कस्मात्? पुनर्नोत्पद्यते? अनभिधानात्()। अभिधानलक्षणा हि कृत्तद्धितसमासा भवन्तीति। तस्माज्ज्ञापक एवानुशतिकादिषु पाठः पुष्करसच्छब्दस्य॥
बाल-मनोरमा
तद्धितेष्वचामादेः १०५९, ७।२।११७

तद्धितेष्वचामादेः। "अचोञ्णिती"त्यनुवर्तते। "मृजेर्वृद्धि"रित्यतो वृद्धिरिति च। "अचा"मिति निर्धारणषष्ठी। तदाह--ञितीति।

तत्त्व-बोधिनी
तद्धितेष्वचामादेः ८८५, ७।२।११७

तद्धितेष्व। अचां मध्ये आदिरजेवेति "अचोऽञ्णिती"ति सूत्रदच इत्यनुवर्तत इत्याशयेन व्याचष्टे--अच इति। वृद्धिः स्यादिति। "मृजेर्वृद्धि"रित्यतोऽनुवर्तत इति भावः।