पूर्वम्: ७।२।२
अनन्तरम्: ७।२।४
 
सूत्रम्
वदव्रजहलन्तस्याचः॥ ७।२।३
काशिका-वृत्तिः
वदव्रजहलन्तस्य अचः ७।२।३

वदव्रजोः हलन्तानां च अङ्गानाम् अचः स्थाने वृद्धिर् भवति सिचि परस्मैपदे परतः। अवादीत्। अव्राजीत्। विकल्पबाधनार्थं वदिव्रजिग्रहणम्। हलन्तानाम् अपाक्षीत्। अभैत्सीत्। अच्छैत्सीत्। अरौत्सीत्। अत्र योगविभागे सति हलन्तग्रहणम् अन्तरेण अपि सिध्यति। कथम्? वदिव्रज्योः इत्यत्र प्रथमयोगे अतः इति स्थानी अनुवर्तते, ततो यतचः इति सूत्रं तत्र अङ्गेन अज्विशेष्यते, अङ्गस्य अचः सिचि परतः वृद्धिर् भवति। तदेतद् धल्ग्रहणम् हल्समुदायपरिग्रहार्थम्। इह अपि स्यात्, अराङ्क्षीत्, असाङ्क्षीत्। अन्यथा हि येन न अव्यवधानं तेन व्यवहिते ऽपि वचनप्रामाण्यातित्येकेन वर्णेन व्यवधाने स्यात्, अनेकेन हला न स्यात्। उदवोढाम्, उदवोढम् इत्यत्र वहेः सिचि ढत्वसलोपादीनाम् पूर्वत्र असिद्धम् ८।२।१ इत्यसिद्धत्वात् पूर्वं हलन्तलक्षणा वृद्धिः क्रियते, पश्चाद् ढलोपनिमित्तमोत्वम्। तत्र कृते पुनर् वृद्धिर् न भवति, कृतत्वात्। यत्र त्वकृता वृद्धिः, ओकारस्य एव तत्र भवति, सोढामित्रस्य अपत्यम् सौढामित्रिः इति।
लघु-सिद्धान्त-कौमुदी
वदव्रजहलन्तस्याचः ४६७, ७।२।३

एषामचो वृद्धिः सिचि परस्मैपदेषु। अव्राजीत्। अव्रजिष्यत्॥ कटे वर्षावरणयोः॥ ११॥ कटति। चकाट। चकटतुः। कटिता। कटिष्यति। कटतु। अकटत्। कटेत्। कट्यात्॥
न्यासः
वदव्रजहलन्तस्याचः। , ७।२।३

अनिगन्तार्थोऽयमारम्भः। अथ वदिव्रज्योग्र्रहणं किमर्थम्(), यावता हलन्तत्वादेव वृद्धिः सिध्यति? इत्यत आह--"विकलपबाधनार्थम्()" इत्यादि। "अतो हलादेः" ७।२।७ विकल्पं वक्ष्यति, तस्य बाधो यथा स्यात्()। "अपाक्षीत्()" इति। "डुपचष्? पाके" (धा।पा।९९६), "चोः कुः" ८।२।३० इति कुत्वम्()। "अभैस्तीत्()" इति। "भिदिर्? विदारणे (धा।पा।१४३९), "खरि च" ८।४।५४ इति चत्र्वम्()--दकारस्य तकारः। "अरौत्सीत्()" इति। "रुधिर आवरणे" (धा।पा।१४३८)। "अत्र" इत्यादि। "वदिव्रज्योः इत्येको योगः, "अचः" इति द्वितीयः; एवं योगविभागे सति हलन्तग्रहणमन्तरेणापीष्टं सिध्यत्येव। "कथम्()" इति। असम्भावयतः प्रश्नः। "वदिव्रव्योः" इत्यादिना यथा योगविभागे सति सिध्यति तथा दर्शयति। तत्र प्रथमयोगे पूर्वसूत्रात्? "अतः" इति स्थान्यनुवत्र्तते। तेनावादीत्(), अव्राजीदित्येतावत्सिध्यति। ततो यदच इति द्वितीयं सूत्रम्(), तत्र विशेषणविशेष्यभावयोर्यथेष्टत्वात्? प्रकृतेनाङ्गेनाजिविशिध्यते--अङ्गस्य योऽजिति। तेनाङ्गस्याचो यत्र तत्रावस्थितस्य सिचि परतो वृद्धिर्भवति। अपाक्षीदित्याद्यपि सिध्यति। यद्येवम्(), योगविभाग एव कत्र्तव्यः, किं हल्ग्रहणेन? इत्यत आह--"तदेतत्()" इत्यादि। हल्समुदयपरिग्रहः किमर्थो यतसतदर्थोऽयं यत्नः क्रियते? इत्याह--"इहापि" इत्यादि। "अराङ्क्षीत्()" इति। "रञ्ज रागे" (धा।पा।११६७)। "असाङ्क्षीत्()" इति। "षन्ज सङ्गे" (धा।पा।९८७)। ननु चाङ्गस्य योऽच्? तस्य सिचि परतो वृद्धिरुच्यते, न चात्राङ्गसम्बन्धिनोऽचोनन्तरः परः सिच्? सम्भवति यस्यानेन वृद्धिर्विधीयते। तथा ह्रकारान्तस्याङ्गस्य तावत्? "अतो लोपः" ६।४।४८ इति लोपेन भवितव्यम्()। न च वचनादतो लोपं वृद्धिर्बाधिष्यत इति शक्यते वक्तुम्(); यदि ह्रकारान्तस्यैव वृद्धिः स्यात्? प्रत्याहारग्रहणमनर्थकं स्यात्(), "अतः" इत्येवं ब्राऊयात्()। अथ वा--तदपि सम्भवति। अकारान्तस्य तु कामं संभवति यावाप्रभृतेः। न तु तस्यास्ति विशेषः सत्यां वा वृद्धावसत्यां वा। इगन्तस्य पुनः "सिचि वृद्धिः" ७।२।१ इत्यादिनैव वृद्धिर्विहिता। सन्ध्यक्षराणां च नास्त्येव; "आदेच उपदेशेऽशिति" ६।१।४४ इत्यात्त्वविधानात्()। उदवोढाम्(), उदवोढमित्यत्रास्तीति चेत्()? न; ढलोपस्यासिद्धत्वात्()। तदयं न क्यचिदचोऽनन्तरः परस्मैपदपरः सिच्? सम्भवति। उच्यते चेदं वचनम्(); ततो "येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात्()" (व्या।प।४६) यथाऽपाक्षीदित्यादौ वृद्धिर्भवति, तथाऽराङ्क्षीदित्यादावपि वृद्धिर्भविष्यति, ततो नार्थो हल्ग्रहणेन? इत्यत आह--"अन्यथा हि" इत्यादि। एकेन वर्णेन सर्वत्र व्यवधानमस्ति। हल्समुदायेन क्यचिदेवाराङ्क्षीदित्यादौ। अपाक्षीदित्यदौ नास्ति, तत्रसति हलग्रहणेऽनन्तरोक्तया नीत्या यत्रैकेन वर्णेन व्यवधानमस्ति--अपाक्षीदित्यादौ, तत्रैव स्यात्(), यत्र त्वर्नेकवर्णेन व्यवधानमस्ति--अराङ्क्षीदित्यादौ, तत्र न स्यात्(), यथाऽपिपठिषीदित्यादौ आदययोरचोर्व्यवधानान्न भवति। हल्ग्रहणे तु सति हल्समुदायेन व्यवधानेऽपि भवति; हल्ग्रहणसामथ्र्यात्()। उदवोढाम्(), उदवोढमित्यत्र वहेर्वृद्धिः कस्मान्न भवति, ढलोपे कृतेऽहलन्तादिति चेत्()? न; ढलोपस्यासिद्धत्वादिति यश्चोदयेत्(), तं प्रत्याह--क्रियते एवात्र वृद्धिः। तस्यास्त्वोत्त्वं विधीयत इति दर्शयितुमाह--"उदवोढाम्()" इत्यादि। आदिशब्देन धात्वादयो गृह्रन्ते। वहेरुत्पूर्वाल्लुङ्(), तस्थसौ, तयोः "तस्थस्थमिपाम्()" ३।४।१०१ इत्यादिना तान्तमादेशौ यथाक्रमम्(), हलन्तलक्षणा वृद्धिः, "हो ढः" ८।२।३१ इति ढत्वम्(), "झलो झलि" ८।२।२६ इति सिचो लोपः, "झषस्तथोर्घोऽधः" ८।२।४० इति षत्वम्(), "ष्टुना ष्टुः" ८।४।४० इति ष्टुत्वम्()। "सहिवहेरोदवर्णस्य" ६।३।१११ इत्योत्त्वम्()। तत्र ह्रोत्त्वे पुनर्वृद्धिः कस्मान्न भवति? इत्याह--"तत्र कृते पुनः" इत्यादि। एकं ह्रत्र वृद्धिशास्त्रम्(), तेन च प्रागेव कृता वृद्धिरिति कृतकार्यत्वाद्()वृद्धिशास्त्रस्य, पुनस्तन्न व्याप्रियत इति न भवति पुनर्वृद्धिः। सौढामित्रिरित्यत्र तर्हि कथमोत्त्वे कृते वृद्धिर्भवति? इत्याह--"यत्र तु" इत्यादि। यत्र प्राग्वृद्धिः कृता तत्र कृतार्थत्वाद्()वृद्धिशास्त्रस्य पुनर्न व्याप्रियत इति न भवति वृद्धिः, सोढामित्रिरित्यत्र तु न कृता वृद्धिः। तस्मादकृतार्थत्वाद्()वृद्धिशास्त्रं व्याप्रियत इति भवत्येव वृद्धिः। सा च भव्त्योकारस्य भवति, नाकरस्य वृद्धिरिति; वृद्धिविधानकाल ओकारस्यैव वृद्धिभाजः सन्निहितत्वात्()। सहेर्निष्ठा, तत्र ढत्वादिषु कृतेषु सोढ इति भवति, सोढोऽमित्रोऽनेनेति सोढामित्रः, तस्यापत्यमिति "अत इञ्()" ४।१।९५, "तद्धितेष्वचामाने" ७।२।११७ वृद्धिः। "येन विधिस्तदन्तस्य" १।१।७१ इत्येव सिद्धे तदन्तत्वेऽन्तग्रहणमसन्देहार्थम्()। "हलोऽचः" इत्युच्यमाने सन्देहः स्यात्()--किमजन्तस्याङ्गस्य हलो वृद्धिर्भवति? उत हलन्तस्याच इति()॥
बाल-मनोरमा
वदव्रजहलन्तस्याचः १११, ७।२।३

अत्र वृद्धिमाशङ्कितुमाह-- वदव्रज। वद वर्ज हलन्त एषां समाहाद्वन्द्वात् षष्ठ()एकवचनम्। अङ्गस्येत्यधिकृतम्। "सिचि वृद्धिः परस्मैपदेष्वि"त्यनुवर्तते। तदाह-- वदेरित्यादिना। हलन्तत्वादेव सिद्धे वदवर्जग्रहणं तु अवादीदव्राजीदित्यत्र "अतो हलादेर्लघो"रिति वृद्धिविकल्पबाधनार्थम्।

तत्त्व-बोधिनी
वदव्रजहलन्तस्याचः ८६, ७।२।३

वदव्रज। अवादीत्। अव्राजीत् "अतो हलादे"रितिविकल्पं बाधित्वा अनेन नित्यं वृद्धिः। हलन्तस्योदाहरणम्-- अपाक्षीत् अधाक्षीत्। तदन्तविधिनैव सिद्धेऽन्तग्रहणं स्पष्टप्रतिपत्त्यर्थम्। "हलोऽ"जित्युक्ते त्वजन्ताह्गस्य हलः स्थाने वृद्धिरिति कदाचिदाशङ्क्येत। "अच" इति तु इक्परिभाषाया अनुपस्थानार्थम्, अन्यथा अभैत्सीदित्यत्र स्यान्नत्वपाक्षीदित्यादौ।