पूर्वम्: ७।२।३०
अनन्तरम्: ७।२।३२
 
सूत्रम्
ह्रु ह्वरेश्छन्दसि॥ ७।२।३१
काशिका-वृत्तिः
ह्रु ह्वरेश् छन्दसि ७।२।३१

ह्वरतेः धातोर् निष्ठायं छन्दसि ह्रु इत्ययम् आदेशो भवति। ह्रु तस्य चाह्रु तस्य च। अह्रु तमसि हविर्धानम्। छन्दसि इति किम्? ह्वृतम्।
न्यासः
ह्यू ह्वरेश्छन्दसि। , ७।२।३१

"ह्वृ कौटिल्ये" (धा।पा।९३१) इत्येतस्यानुदात्तत्वादिट्प्रतिषेधोऽस्त्येवेत्यादेशार्थ वचनम्()॥