पूर्वम्: ७।२।३६
अनन्तरम्: ७।२।३८
 
सूत्रम्
ग्रहोऽलिटि दीर्घः॥ ७।२।३७
काशिका-वृत्तिः
ग्रहो ऽलिटि दीर्घः ७।२।३७

ग्रहः उत्तरस्य इटः अलिटि दीर्घो भवति। ग्रहीता। ग्रहीतुम्। ग्रहीतव्यम्। अलिटि इति किम्? जगृहिव। जगृहिम्। प्रकृतस्येटो दीर्घत्वमिदम्, चिण्वदिटो न भवति। ग्राहिता। ह्राहिष्यते।
लघु-सिद्धान्त-कौमुदी
ग्रहोऽलिटि दीर्घः ६९६, ७।२।३७

एकाचो ग्रहेर्विहितस्येटो दीर्घो न तु लिटि। ग्रहीता। गृह्णातु। हलः श्नः शानज्झाविति श्नः शानजादेशः। गृहाण। गृह्यात्, ग्रहीषीष्ट। ह्म्यन्तेति न वृद्धिः। अग्रहीत्। अग्रहीष्टाम्। अग्रहीष्ट। अग्रहीषाताम्॥ कुष निष्कर्षे॥ १८॥ कुष्णाति। कोषिता॥ अश भोजने॥ १९॥ अश्नाति। आश। अशिता। अशिष्यति। अश्नातु। अशान॥ मुष स्तेये॥ २०॥ मोषिता। मुषाण॥ ज्ञा अवबोधने॥ २१॥ जज्ञौ॥ वृङ् संभक्तौ॥ २२॥ वृणीते। ववृषे॥ ववृढ्वे। वरिता, वरीता। अवरीष्ट, अवरिष्ट, अवृत॥
लघु-सिद्धान्त-कौमुदी
इति क्र्यादयः ९ ६९६, ७।२।३७

लघु-सिद्धान्त-कौमुदी
अथ चुरादयः ६९६, ७।२।३७

लघु-सिद्धान्त-कौमुदी
चुर स्तेये १ ६९६, ७।२।३७

न्यासः
ग्रहोऽलिटि दीर्घः। , ७।२।३७

"ग्रह उत्तरस्य" "ग्रह" इति पञ्चमीं दर्शयति। यद्येवम्(), तदेङ्ग्रहणं कत्र्तव्यम्()? न कत्र्तव्यम्; प्रकृतमेव तदनुवत्र्तते। तद्धि प्रथमान्तनिर्दिष्टम्(), षीष्ठीनिर्देशेन चेहार्थः? नैष दोषखः; "ग्रहः" इत्येषा पञ्चमीति प्रथमायाः षष्ठीत्वं प्रकल्पयिष्यति; "तस्मादित्युत्तरस्य" १।१।६६ इति वचनात्()। "जगृहिव, जगृहिम्()" इति। ग्रह्रादिसूत्रेण ६।१।१६ सम्प्रसारणम्()। तथा ग्राहिता, ग्राहिष्यत इत्यत्र कथं चिण्वदिटो न भवति? इत्याह--"प्रकृतस्यैव" इत्यादि। आर्धधातुकस्येति यः प्रकृत इट्? तस्येदं दौर्घत्वं भवति, न चिण्वदिटः; तस्याप्रकृतत्वात्()। चिण्वदित्यनेन चिण्वद्भाव उपलक्ष्यते। तत्सहचरित इट्? चिण्वदित्युच्यते। "ग्राहित" इति। "अनद्यतने लुट्()" ३।३।३५, "स्यतासी लृलुटोः" ३।१।३३ इति तासिः, भावकर्मणोः" १।३।१३ इत्यात्मनेपदम्(), "लुट प्रथमस्य" २।४।८५ इत्यादिना डादेशः, टिलोपः, "स्यसिच्सीयुट्तासिषु" (६।४।६२) इत्यादिनेट्? चिण्वद्भावाद्()वृद्धिः। अथ जरीगृहिता, जरीगृहीतुमित्यत्र यङन्तात्? तृनि तुमुनि च यलोपाल्लोपयोः कृतयोर्दीर्घः कस्मान्न भवति? उत्तरसूत्रे वाग्रहणस्योभयोरपि योगयोः शेषभूतत्वाद्व्यवस्थिविभाषाविज्ञानात्()। अथ वा--विहितविशेषणपक्षोऽत्र व्याख्यायते। ग्रहेर्थो विहित इट्? तस्य दीर्घो भवति। न चात्र ग्रहेर्विहित इट्? कुतस्तर्हि? यङ्न्तात्()। तस्मान्नेह दीर्घस्य प्रसङ्गः। अथ "ग्रह ईडलिटि" इत्येवं कस्मान्नोक्तम्(), किं दीर्घग्रहणेन? नैवं शक्याम्(); एवं सतीट्कार्यमीटो न स्यात्(), ततश्चाग्रहीदित्यत्र "इट ईटि" ८।२।२८ इति सिचो लोपो न स्यात्(), "नेटि" ७।२।४ इति प्रतिषेधश्च; इह चाग्रहीढ्वम्(), अग्रहीध्वमित्यत्रेटः "विभाषेटः" ८।३।७९ इति मूर्घन्यश्च; दीर्घ इट आदेशे सति तस्य स्थानिवद्भावदिट्कार्यमुपपद्यत इति दीर्घं एव विधीयते॥
बाल-मनोरमा
ग्रहोऽलिटि दीर्घः ५९६, ७।२।३७

ग्रहोऽलिटि दीर्घः। "ग्रहट इति दिग्योगे पञ्चमी। "आद्र्धधातुकस्येट्" इत्यत इडित्यनुवृत्तं षष्ठ()न्तं विपरिणम्यते, "एकाच उपदेशेऽनुदात्ता" दित्यत एकाच इति च। तदाह --एकाच इत्यादि। एकाचः किम?। यङ्लुकि माभूत्। जाग्रहिता। विहितस्येति किम्?। ग्रहितम्। णिलोपे कृते ग्रहधातोः परत्वेऽपि विहतत्वाऽभावादिटो न दीर्घः। न च णिलोपस्य स्थानिवत्त्वान्न ग्रहधातोः पर इडिति वाच्यं, दीर्घकित्त्वात्संप्रसारणमिति भावः। लिङस्तङ्याह-- ग्रहीषीष्टेति। "ग्रहोऽलिटी" ति दीर्घः। "न लिङी"ति इटो दीर्घनिषेधस्तु न, तत्र "वृतट इत्यनुवृत्तेः। अग्रहीष्टामिति। "ग्रहोऽलिटी"ति दीर्घः। अग्रहीषुः। अग्रहीरित्यादि। लुङस्तङ्याह-- अग्रहीष्टेति। "ग्रहोऽलिटी"ति दीर्घः। अग्रहीषतेति। अग्रहीष्ठा इत्यादि सुगमम्। इति क्र्यादयः।

॥ इति बालमनोरमायाम् क्र्यादयः॥

अथ तिङन्ते लकारार्थप्रक्रिया।

अथ लकारार्थप्रक्रिया निरूप्यते।

तत्त्व-बोधिनी
ग्रहोऽलिटि दीर्घः ४९०, ७।२।३७

ग्रहिषीष्टेति। "वृ()त" इत्यनुवृत्ते "र्न लिङी"ति दीर्घनिषेधो न प्रवर्तते। अग्रहीषातामिति। लुङ्। आत्मनेपदद्विवचनम्।

इति तत्त्वबोधिन्याम् क्र्यादयः।

अथ तिङन्ते लकारार्थप्रक्रिया।