पूर्वम्: ७।२।८३
अनन्तरम्: ७।२।८५
 
सूत्रम्
अष्टन आ विभक्तौ॥ ७।२।८४
काशिका-वृत्तिः
अष्टन आ विभक्तौ ७।२।८४

अष्टनो विभक्तौ परतः आकारादेशो भवति। अष्टाभिः। अष्टाभ्यः। अष्टानाम्। अष्टासु। विभक्तौ इति किम्? अष्टत्वम्। अष्टता। आ इति व्यक्तिनिर्देशो ऽयम्। आकृतिनिर्देशे तु नकारस्थने ऽनुनासिकाकारः स्यात्। विकल्पेन अयम् आकारो भवति, एतज् ज्ञापितम् अष्टनो दीर्घात् ६।१।१६६ इति दीर्घग्रहणात्, अष्टाभ्य औश् ७।१।२१ इति च कृतात्वस्य निर्देशात्। तेन अष्टभिः, अष्टभ्यः इत्यपि भवति। तदन्तविधिश्च अत्र इष्यते। प्रियाः अष्टौ येषाम् ते प्रियाष्टानः। प्रियाष्टौ।
लघु-सिद्धान्त-कौमुदी
अष्टन आ विभक्तौ ३०१, ७।२।८४

हलादौ वा स्यात्॥
न्यासः
अष्टन आ विभक्तौ। , ७।२।८४

"आ इति व्यक्तिनिर्देशोऽयम्()" इति। शुद्धाया निरनुनासिकाया आकारस्य व्यक्तेरेव निर्देश इत्यर्थः। अथाकृतिनिर्देशे को दोषः स्यात्(), यतस्तत्परीहारार्थो व्यक्तिनिर्देशोऽयमाश्रितः? इत्यत आह--"आकृतिनिर्देशे हि" इत्यादि। जातिरिहाकृतिर्विवक्षिता, न तु संस्थानम्()। जातिनिर्देशे सति शुद्धाया जातेर्निर्देष्टुमशक्यत्वात्? तदाधारभूतासु व्यक्तिषु कार्यं विज्ञायते। तत्र यदीह जातिनिर्देश आश्रीयेत, तदा सर्वास्वकारव्यक्तिषु जात्यावारत्वमुपगतासु "अलोऽन्त्यस्य" १।१।५१ इति नकारस्य विधोपमान आकार आन्तरतम्यादनुनासिकस्य स्थानेऽनुनासिक एव स्यात्()। व्यक्तिनिर्देशे त्वेष दोषो न भवति; इत्यादि न सिध्यति, न ह्रत्र विकल्पाभिधायि वचनमस्ति, नपि प्रकृतम्()? इत्यत आह--"विकल्पेन" इत्यादि। "अष्टनो दीर्घात्()" ६।१।१६६ इत्यनेनाष्टनी दीर्घादसर्वनामस्थानाविभक्तेरुदात्तत्वं विधीयते। यदि च नित्यमात्त्वं स्यात्(), दीर्घादिति विशेषणं निरर्थकं स्यात्()। अष्टाभ्य औश्()" ७।१।२१इत्यत्र च कृतात्त्वस्य निर्देशोऽनर्थकः स्यात्()। व्यवच्छेद्याभावदष्टन इत्येवं ब्राऊयात्()। तस्माद्दीर्घग्रहेन कृतात्त्वनिर्देशेन विकल्पेनेदमात्त्वं भवतीति ज्ञ#आपितम्()। तेनाष्टभिरित्याद्यपि पक्षे उपात्तः; एकवचननिर्देशात्()। अन्यथा हि बह्वर्थत्वादष्टानामित्येवं ब्राऊयात्()। तस्मात्? स्वरूपधानोयम्()। तत्राङ्गे प्रकृतेऽनेन विशेष्यमाणे तदन्तविधिर्लभ्यते। विशेषणेन हि तदन्तविधिर्भतीत्युक्तम्()। "प्रियाष्टा" [नेदमदाहरणं मूले दृश्यते] इति। "सर्वनामस्थाने" ६।४।८ इत्यादिना दीर्घः॥
बाल-मनोरमा
अष्टन आ विभक्तौ , ७।२।८४

तस्य विशेषमाह--अष्टन आ विभक्तौ। "रायो हली"त्यो हलीत्यपकृष्यते। तच्च विभक्तेर्विशेषणं, तदादिविधिः। तदाह--अष्टन आत्वमित्यादिना। ग्रहणकसूत्रेऽग्रहणेन वार्णसमाम्नायिकानामेव ग्रहणादाकारस्याऽनण्त्वाद्भाव्यमानत्वाच्च शुद्ध एव नकारस्य आकारः।

तत्त्व-बोधिनी
रायो हलि २४६, ७।२।८४

रायो हलि। "अष्टेन आ विभक्तौ"इत्यत "आ"इति, "विभक्ता"विति च वर्तते। तदाह--आकारोऽन्तादेश इत्यादि। "अर्थरैविभवा अपी"त्यमरः। "रायश्छान्दसः"इति भाष्यम्, तच्च क्यजन्तस्य रैशब्दस्य छान्दसत्वपरं नतु केलस्यापीति "वन्तो यी"ति सूत्रे कैयटः। सएव केवलोपि च्छान्दस इति पक्षान्तरमप्याह। इत्यैदन्ताः। ग्लौरिति। "ग्लौर्मृगाङ्कः कलानिधि"रित्यमरः। एवं जनानवतीते "जनौः"। "ज्वरत्वरे"त्यूठ्। "एत्येदत्यूठ्"स्विति वृद्धिः। अच्यावादेशः।"जनावौ""जनाव"इत्यादि। न प्रवर्तते इति। हे ग्लौरित्यत्र संबुद्धिलोपः, "ग्लाव"इत्यत्र "ङसिङसोश्चे"ति पूर्वरूपं च न प्रवर्तते इत्यापि बोध्यम्। सावण्र्यावज्ञापनादिति। सति तु सावण्र्ये एचश्चतुर्विशतेः संज्ञा भवन्तीति "वृद्धिरादै"जित्येतद्वृद्धिरादेङिति पठितुं शक्यत्वादैऔजिसूत्रं व्यर्थं सत्सावण्र्याऽभावं ज्ञापयति। अतएव "एदैतोरोदौतोश्च न मिथः सावण्र्यम्, ऐऔजिति सूत्रारम्भसामथ्र्या"दित्याद्यणुदित्सव्र्णस्येति सूत्र एवोक्तमिति भावः। नन्वैऔजिति सूत्राऽभावे "न य्वाभ्या"मिति सूत्रे "ताभ्यामै"जिति प्रत्याहारोऽयं न सिध्येत्,"पूर्वौ तु ताभ्यामे"ङित्युक्ते तु विधीयमानस्य सवर्णाऽग्राहकतया "वैयाकरणः"सौवश्च इत्यादावेदोतावेवागमौ स्तो न त्वैदौतौ। ततश्चट वैयथ्र्याऽभावादै औजिति सूत्रारम्भः सावण्र्याऽभावं न ज्ञापयतीति चैन्मैवं, "पूर्वौ तु ताभ्यामै औ"इति पठनेनापि इष्टसिद्धेस्तत्सूत्रवैयथ्र्यस्य तदवस्थत्वात्। स्थितस्य गतिप्रदर्शनमिदम्। वस्तुतस्तु "ए ओ"ङिति सूत्रारम्भसामथ्र्या"दित्युक्ते तु "ताभ्यामै"जित्यत्रानुपपत्तिर्नास्त्येव। न च "ए ओ "ङिति सूत्राऽभावे "आदेङ्गुणः""एङि पररूपम्,ेङः पदान्तादति"इत्यादावेङप्रत्याहारः कथं सिध्येदिति वाच्यं, सति तु सावण्र्ये "अदेज्गुणः, "एचि पररूपम्"ेचः पदान्तादती"ति पठितुं शक्यत्वात्। अतिप्रसङ्गस्य"ए"ज्ग्रहणेऽपि तुल्यत्वात्। न चैवमप्येचां चतुर्णा" क्रमादायाद्यदेशसिह्रर्थम् "ऐऔ"जिति सूत्रद्वयमप्यावश्यकमिति वाच्यं; "स्थानेऽन्तरतमः"इत्यनेनैव एचां क्रमादयादयः सिध्यन्तीति प्रागेवास्माभिरूपपादितत्वाति। यदा हि "स्वराणामृष्माणां चैवे"त्यादिदिप्रागुक्तशिक्षावचनानुरोधादेङौ विवृततपरौ, एचौ विवृततमौ" इत्यभ्युपगम्यते, तदात्वेदैतोरोदौतोश्च मिथः सावण्र्यप्रसक्तिरेव नास्तीति "ऐऔ"जिति "एओ"जिति "ऐओ"ङिति वा सूत्रं नोक्तज्ञापकमिति ज्ञेयम्। केचित्तु विवृततरयोरेङ#ओर्विवृततमत्वाऽभावेऽपि विवृततरे विवृततमेव विवृतत्वस्य सत्त्वात्तदादाय तुल्यप्रयत्नत्वमेङोरैचोश्चास्तीति सावण्र्यपर्सक्तावुक्तज्ञापकाश्रयणं सम्यगेवेत्याहुः। तदपरे न क्षमन्ते। तथाहि सति "इको गुणवृद्धी"इति सूत्रस्थशब्दकौस्तुभग्रन्थेन ससह विरोधप्रसङ्गात्। तत्र हि---"स्वराणामूष्मणां चे" त्यादिशिक्षानुरोधा "च्चेता""नेते"त्यादौ गुणाऽप्रवृत्तिः स्यात्, विवृतविवृततरत्वरूपवैलक्षण्यस्य, सत्त्वादिति न शङ्कयं, विधेर्निर्विषयत्वापत्तेः। "जयः करणम्""धान्यानां भवने"इत्यादिनिर्देशैरिकारादिषु गुणपर्वृत्त्यनुमानाच्चेति प्रकारान्तरे समाहितम्। तदुक्तरीत्या तुल्यप्रयत्नवत्त्वे तु "चेता""नेते"त्यादौ गुणाऽप्रवृत्तिशङ्का निरालम्बनैन स्यात्। तस्मादीषद्विवृतभेदेन स्वराणामूष्मणामिव विवृततरविवृततमभेदेन सावण्र्याऽभावोऽत्र सुवच इति दिक्। इत्यजन्ता पुँल्लिङ्गाः।

तत्त्व-बोधिनी
अष्टन विभक्तौ ३३२, ७।२।८४

अष्टन आ विभक्तौ। सौत्रत्वादिहाऽल्लोपो न कृतः। "कनिन्युषितक्षी"त्यतः "कनिः नित्यनुवर्तमाने "सप्यशूभ्यां तुट् चे"त्यनेन सप्तन्नष्टन्शब्दौ निष्पन्नौ। "रायौ हली त्युत्तरसूत्राद्धलीत्यपकृष्यते, तच्च विभक्तेर्विशेषणमित्यभिप्रेत्य व्याचष्टे---हलादाविति। "हली"त्यस्यानपपकर्षणे त्वष्टानामिति न सिध्येत्। परत्वान्नित्यत्वाच्च नुटः प्रागात्वे कृते अनान्तत्वेन षट्संज्ञाऽभावान्तुटोऽप्रवृत्तेः।न च यथोद्देशपक्षेऽन्तकङ्गत्वात्प्रागेव कृता षट्संज्ञा एकदेशविकृतन्यायेन कृतात्वेऽपि सुलभेति वाच्यम्, अल्विधौ उक्तन्यायऽयौग्त्। किंच "प्रियाष्टानौ""प्रियष्टानः"प्रियष्ट्नः" "प्रियष्ट्ने"त्याद्यपि न सिध्येत्, उक्तरीत्या तत्राप्यात्वप्रवृत्तेरिति बोध्यम्।