पूर्वम्: ७।२।९७
अनन्तरम्: ७।२।९९
 
सूत्रम्
प्रतयोत्तरपदयोश्च॥ ७।२।९८
काशिका-वृत्तिः
प्रत्ययौत्तरपदयोश् च ७।२।९८

एकवचने इत्यनुवर्तते। प्रत्यये उत्तरपदे च परत एकवचने वर्तमानयोः युस्मदस्मदोर् मपर्यन्तस्य त्व म इत्येतावादेशौ भवतः। तवायं त्वदीयः। मदीयः। अतिशयेन त्वम् त्वत्तरः। मत्तरः। त्वाम् इच्छति त्वद्यति। मद्यति। त्वमिवाचरति त्वद्यते। मद्यते। उत्तरपदे तव पुत्रः त्वत्पुत्रः। मत्पुत्रः। त्वं नाथो ऽस्य त्वन्नाथः। मन्नथः। एकवचने इत्येव, युष्माकमिदम् युष्मदीयम्। अस्मदीयम्। युष्माकं पुत्रः, अस्माकं पुत्रः युष्मत्पुत्रः, अस्मत्पुत्रः। विभक्तौ इत्यधिकारात् पूर्वयोगो विभक्तावेव। ततो ऽन्यत्र अपि प्रत्यये उत्तरपदे च यथा स्यातित्ययम् आरम्भः। ननु चात्राप्यन्तर्वर्तिनी विभक्तिरस्ति, तस्याम् एव आदेशौ भविस्यतः? न एवं शक्यम्, लुका तस्या भवितव्यम्। बहिरङ्गो लुक्, अन्तरङ्गौ आदेशौ, प्रथमं तौ भविष्यतः? एतदेव तर्हि आदेशवचनं ज्ञापकम् अन्तरङ्गानपि विधीन् बहिरङ्गो ऽपि लुक् बाधते इति। तेन गोमान् प्रियो ऽस्य गोमत्प्रियः इत्येवम् आदौ नुमादि लुका बाध्यते। एवं च सति त्वाहौ सौ ७।२।९४ इत्येवम् आदयो ऽपि प्रत्ययोत्तर्पदयोरादेशा न भवन्ति। त्वं प्रधानम् एषां त्वत्प्रधानाः। मत्प्रधानाः। यूयं पुत्रा अस्य युष्मत्पुत्रः। अस्मत्पुत्रः तुभ्यं हितं त्वद्धितम्। मद्धितम्। तव पुत्रः त्वत्पुत्रः। मत्पुत्रः। अथ किमर्थ्म् एषां त्वाहादीनां बाधनार्थम् एतन् न विज्ञायते? लक्ष्यस्थित्यपेक्षया। ज्ञाप्कार्थे ह्येतस्मिन् बहुतरमिष्टं सङ्गृह्यते।
लघु-सिद्धान्त-कौमुदी
प्रत्ययोत्तरपदयोश्च १०८५, ७।२।९८

मपर्यन्तयोरेतयोरेकार्थवाचिनोस्त्वमौ स्तः प्रत्यये उत्तरपदे च परतः। त्वदीयः। मदीयः। त्वत्पुत्रः। मत्पुत्रः॥
न्यासः
प्रत्ययोत्तरपदयोश्च। , ७।२।९८

"एकवचने वत्र्तमानयोः" इति। एकार्थाभिधानविषयोयोरित्यर्थः। "त्वदीयः मदीयः" इति। "त्यदादीनि च" (१।१।७४) इति वृद्धसंज्ञकत्वात्? "वृद्धाच्छः" ४।२।११३ इति च्छप्रत्ययः। "त्वत्तरः, मत्तरः" इति। "द्विवचनविभदज्योपपदे तरबीयसुनौ" ५।३।५७ इति तरप्()। "त्वद्यति, मद्यति" इति। "सुप आत्मनः क्यच्()" ३।१।८। "त्वद्यते, मद्यते" इति। "कर्त्तुः क्यङ सलोपश्च" ३।१।११ इति क्यङ। ननु च पूर्वेणेवदेशौ सिद्धौ, तत्? किमर्थोऽयमारम्बः? इत्यत आह--"विभक्तावित्यधिकारात्()" इत्यादि। "ननु च" इत्यादि देशकः। प्रकृतिप्रत्यययोः पूर्वोत्तरपदयोश्च या मध्र्ये वत्र्तते साऽन्तर्वत्तिनी विभक्तिः। नैवं शक्यम्()" इतीतरः। "लुका तस्य भवितव्यम्()" इति, अश्यतायां हेतुः। "सुपो धातुप्रातिपदिकयोः" २।४।७१ इति प्रागेवादेशाभ्यां लुका भवितव्यमिति, ततश्च तन्निमित्तावादेशौ न स्यातामित्यभिप्रायः। "बहिरङ्गो लुक्()" इत्यादि देशकः। विभक्तिमात्रं ह्रादेशयोराश्रयः लुकस्तु धातुत्वं प्रातिपदिकत्वञ्चापरम्()। तदेवं धातुप्रतिपदिकत्वे यथायोगं बाह्रप्रत्ययापेक्षत्वात्? समासापेक्षत्वाच्च बहिरङ्गे किं पुनस्तदपेक्षया लुको बहिरङ्गता? "असिद्धं बहिरङ्गमन्तरङ्गे" (व्या।प।४२) इत्यादेशावेव प्रथमं भविष्यतः। "एतदेवेत्यादि" इतरोऽपि। "अन्तरङ्गानपि विथीन्? बहिरङ्गो लुग्न बाधते" इति पूर्वेणैव सिद्धत्वाददेशवचनं न कुर्यात्(), कृतञ्च, तदेव ज्ञापयति--"अन्तरङ्गानपि विधीन्? बहिरङ्गो लुग्? बाधते" (व्या।प।१२८) इति। किमेतस्य ज्ञापकस्य प्रयोजनम्()? इत्यत आह--"तेन" इत्यादि। यद्ययमर्थो न ज्ञाप्यते, तदा गोमान्? प्रियोऽस्येति गोमत्प्रिय इत्यन्तरङ्गत्वाल्लुकः प्राक्? "उगिदचाम्()" (७।१।७०) इति नुम्? स्यात्(), "अत्वसन्तस्य चाधातोः" ६।४।१४ इति दीर्घत्वम्(), ततश्च संयोगान्तलोपे ८।२।२३ कृते गोमान्प्रिय इत्यनिष्टं रूपं प्रसज्येत। अस्मिन्? हयर्थे ज्ञापिते, अन्तरङ्गमपि नुमादिकं बहिरङ्गेण लुका बाध्यत इति न भवत्येष दोषप्रसङ्गः। एकेनादिशब्देन गोमन्तमिच्छति गोमत्यति, गोमानिवाचरति गोमत्यते--इत्यादेग्र्रहणम्()। द्वितीयेन दीर्घत्वस्य हल्ङ्यादिलोपस्य ६।१।६४ यद्यन्तरङ्गत्वाद्? हल्ङ्यादिलोपः ६।१।६४ स्यात्(), प्रत्ययलक्षणेन नुमादिकं स्यात्(), ततश्च तदेवानिष्टं रूपं स्यात्()। लुकि च सति "न लुमताङ्गस्य" १।१।६२ इति प्रत्ययलक्षणप्रतषेधान्न भवति। "एवं च" इत्यादि। यत एवं बहिरङ्गोऽपि लुगन्तरङ्गानपि विधीन्? बाधने, एवञ्च कृत्वा, "त्वाहौ सौ" ७।२।९४, "यूयवयौ जसि" ७।२।९३, "तुम्यमह्रौ ङयि" ७।२।९५ "तवममौ ङसि" ७।२।९६--इत्येत आदेशाः प्रत्यय उत्तरपदे च परतो न भवन्तीति। "अथ" इत्यादि। असति प्रयोजने ज्ञापकं भवति, अस्ति चास्यत्? प्रयोजनम्()--एवां त्वहटीनामादेशान्तराणां बाधनम्()। सत्येतस्मिन्? प्रयोजने, एतदर्थमेवेदं युक्तं विज्ञातुम्(), न तु ज्ञापनार्थमिति भावः। "लक्ष्यस्थित्यपेक्षया" इति। लक्ष्यस्य व्युत्पाद्यस्य स्थितिः=स्थानं लक्ष्यस्थितिः, तद्विषयेऽपेक्षा=लक्ष्यस्थित्यपेक्षा; तथा हेतु भूतया। नेदमादेशान्तराणां बाधनार्थं विज्ञायते। गोमत्प्रियो गोमत्यतीत्येवमादिकं लक्ष्यं लोके साधुभावेनादस्थितम्()। आदेशान्तरबाधनार्थे ह्रेतस्मिन्()" विज्ञायमाने न संगृहतं सायत्()। ज्ञापनार्थे त्वेतदपि संगृहीतं भवतत्येतद्दर्शयति---"ज्ञापनार्थे ह्रेतस्मिन्()" इत्यादि। कथं पुनः सत्येवं प्रयोजने सत्यामपि लक्ष्यस्थित्यपेक्षायां ज्ञापकार्थमेतत्? शक्यं विज्ञातुम्()? एवं मन्यते--प्रयोजनमेवैतन्न भवति; मपर्यन्तग्रहणस्य चकारेणानुकर्षणार्थत्वात्()। तदनुकर्षणस्यैतदेव प्रयोजनम्()--मपर्यन्तयोरादेशौ यथा स्यातामिति। यदि चादेशान्तराणां बाधनार्थमेतत्? स्यात्(), अनुकर्षणं तस्यापार्थकं स्यात्()। यद्बाधनार्थमेत्? सूत्रं प्रकल्प्यते तान्यादेशान्तराणि मपर्यन्तस्यैव प्रयुक्तानि, नान्यस्य। ततश्चान्तरेणापि मपर्यन्तग्रहणानुवृत्तिमुत्सर्गसमानदेशत्वादपवादानां मपर्यन्तस्यैव भविष्यत इति किं मपर्यन्तस्येत्यनुवत्र्तनेन! आदेशान्तरामबाधनार्थे ह्रेतस्मिन्? सर्वादेशिवृत्त्यर्थं मपर्यन्तग्रहणमनुवत्र्तयितुं युक्तम्()। तस्मादेतस्मान्मपर्यन्तग्रहणानुवत्र्तनान्नादेशान्तरबाधनमस्य प्रयोजनम्()। अतो ज्ञापकं विज्ञायते। ननु च किमर्थमेषां त्वाहादीनां बाधनार्थमेतन्न विज्ञायत इति परेण देशितम्()। तस्यायमभिप्रायः--मपर्यन्तस्येतत्येतन्निवर्त्त्यादेशान्तरबाधनार्थमेतत्? कस्मान्न भवतीति? तत्रायमर्थः--मपर्यन्तग्रहणस्यानुकर्षणार्थश्चकारो न कत्र्तव्यो भवति। मपर्यन्तग्रहणानुवृत्तावेतदादेशान्तरबाधनार्थं नोपपद्यते, तस्मिन्निवृत्तौ तूपपद्यत एव॥
बाल-मनोरमा
प्रत्ययोत्तरपदयोश्च १३५३, ७।२।९८

प्रत्ययोत्तरपदयोश्च। साप्तमिकमिदम्। "त्वमावेकवचने" इत्यनुवर्तते। "युष्मदस्मदोरनादेशे" इत्यतो युष्मदस्मदोरित्यनुवर्तते। मपर्यन्तस्येत्यधिकृतं। तदाह--मपर्यन्तयोरित्यादि। त्वदीयः मदीय इति। छे सुब्लुकि तवममयोर्निवृत्तौ मपर्यन्तयोः त्वदिति मदिति च आदेशौ। विभक्तिपरकत्वाऽभावान्न शेषे लोपः। उत्तरपदे तु परे त्वत्पुत्रो मत्पुत्र इत्युदाहरणम्।