पूर्वम्: ७।३।९९
अनन्तरम्: ७।३।१०१
 
सूत्रम्
अदः सर्वेषाम्॥ ७।३।१००
काशिका-वृत्तिः
अदः सर्वेषाम् ७।३।१००

अद भक्षणे, अस्मादुत्तरस्य अपृक्तस्य सार्वधातुकस्य अडागमो भवति सर्वेषाम् आचार्याणां मतेन। आदत्। आदः। अपृक्तस्य इत्येव, अत्ति। अत्सि।
लघु-सिद्धान्त-कौमुदी
अदः सर्वेषाम् ५५९, ७।३।१००

अदः परस्यापृक्तसार्वधातुकस्य अट् स्यात्सर्वमतेन। आदत्। आत्ताम्। आदन्। आदः। आत्तम्। आत्त। आदम्। आद्व। आद्म। अद्यात्। अद्याताम्। अद्युः। अद्यात्। अद्यास्ताम्। अद्यासुः॥
न्यासः
अदः सर्वेषाम्?। , ७।३।१००

सर्वेषांग्रहणं पूजार्थम्(), न तु नित्यार्थम्(); गाग्र्यगालवग्रहस्याविकल्पार्थत्वात्()॥
बाल-मनोरमा
अदः सर्वेषाम् २५७, ७।३।१००

अदः सर्वेषाम्। "अद" इति पञ्चमी। "तस्मादित्युत्तरस्ये"ति परिभाषया परस्येति लभ्यते। "गुणोऽपृक्ते" इत्यतः "अपृक्ते" इति, "तुरुस्तुशम्यमः" इत्यतः "सार्वधातुके" इति चानुवर्तते। सप्तमीद्वयं च षष्ठ()आ विपरिणम्यते। "अह् गाग्र्यगालवयो"रित्तोऽडित्यनुवर्तते। "गाग्र्यगालवयो"रित्स्यानुवृत्तिनिवृत्तये "सर्वेषा"मिति। तदाह--अदः परस्येत्यादिना। टित्त्वादाद्यवयः। तदाह--आददिति। आत्तामिति। अपृक्तग्रहणान्नाऽडागम इति भावः। विधिलिङि रूपमाह--अद्यादिति। शपो लुकि अतः परत्वाऽभावात् "अतो येयः" इति नेति भावः।मिपः अमि यासुटि सलोपे सवर्णदीर्घे---अद्याम्। अद्याव अद्याम। आशीर्लिङि अद्यादिति सिद्धवत्कृत्याह--अद्यास्तामिति। लुङि अद् स् त् इति स्थिते--

तत्त्व-बोधिनी
अदः सर्वेषाम् २२६, ७।३।१००

अदः सर्वेषाम्। "अङ्गाग्र्यगालवयोः" इत्यतोऽडित्यनुवर्तते। गाग्र्यगालवयोरित्यसय् त्वनुवृत्ति शङ्कां निवारयितुं सर्वेषांग्रहणम्।