पूर्वम्: ७।३।१११
अनन्तरम्: ७।३।११३
 
सूत्रम्
आण्नद्याः॥ ७।३।११२
काशिका-वृत्तिः
आण् नद्याः ७।३।११२

नद्यन्तादङ्गादुत्तरस्य ङितः प्रत्ययस्य आडागमो भवति। कुमार्यै। ब्राहमबन्ध्वै। कुमार्याः। ब्रह्मबन्ध्वाः।
लघु-सिद्धान्त-कौमुदी
आण्नद्याः १९७, ७।३।११२

नद्यन्तात्परेषां ङितामाडागमः॥
न्यासः
आण्नद्याः। , ७।३।११२

"नद्याः" इति पञ्चमी, सा चाकृतार्था पूर्वत्र कृतार्थाया ङितीत्यस्याः सप्तम्याः षष्ठीत्वं प्रकल्पयिष्यति। तेन ङित एवायमाडागमो विज्ञायते, इत्याह--"नद्यन्तादङ्गादुत्तरस्य" इत्यादि। "कुमार्यै" इत्येवमादौ "आटश्च" ६।१।८७ इति वृद्धिः। अथ दीर्घोच्चारणं किमर्थम्(), न अडेवोच्येत, "वृद्धिरेचि" ६।१।८५ इति वृद्ध्या सवर्णदीर्घत्वेन सिद्ध्यत्येव; कुमार्यै, कुमार्या इत्यत्र "अतो गुणे" ६।१।९४ पररूपत्वं प्राप्नोतीत्येतच्च नाशङ्कनीयम्(), पररूपत्वं ह्रत्र वचनसामथ्र्यान्न भविष्यति? नैष दोषः; अस्ति ह्रन्यदवचनस्य प्रयोजनम्()। किं तत्()? श्रियै, श्रिया इत्यत्र "सावेकाचस्तृतीयादिर्विभक्तिः" ६।१।१६२ इत्युदात्तत्वं मा भूत्()। आगमा आद्युदात्ता भवन्तीत्यनुदात्तत्वं यथा स्यादिति। शक्यते ह्रेकादेशोन्तादिवद्भावादागमग्रहणेन ग्रहीतुम्()। आगमानुदात्तत्वञ्च यथा प्रत्ययस्वरम्()--लविता, लवितुमित्यादौ बाधते, तथा विभक्तस्वरमपि बाधेत। तस्मात्? "आटश्च" ६।१।८७ इति वृद्ध्यर्थमेतत्()॥
बाल-मनोरमा
आण्नद्याः २६६, ७।३।११२

आण्नद्याः। "अङ्गस्ये"-त्यधिकृतं पञ्चम्या विपरिणम्यते। "नद्या"इति पञ्चम्यन्तेन विशेष्यते, तदन्तविधिः। "घेर्ङिती"त्यतो "ङिती"त्यनुवृत्तं षष्ट()आ विपरिणम्यते, तदाह-नद्यन्तादित्यादिना।

तत्त्व-बोधिनी
आण्नद्यः २२८, ७।३।११२

आण्नद्यः। "आण्नद्याः"इत्येव सुवचम्, विधानसमाथ्र्यात् "अतो गुणे" इत्यस्याऽप्रवृत्तौ यथायथं वृद्धिसवर्णदीर्घाभ्यां "बहुश्रेयस्यै" "बहुश्रेयस्या"इत्यादिरूपसिद्धेः। ननु "परत्वादाटा नुङ् बाध्यते"इत्युत्तरग्रन्थपर्यालोचनया ङेरामि कृते तस्य नुडागमनिवारणार्थमड्विधेरावश्यकत्वात्सामथ्र्यमुपक्षीमिति चेत्, एवं तर्हि "ह्यस्वनद्यापः"इत्यन्तरं "ङेर्ने"त्येव सूत्र्यतामामीत्यनुवृत्त्या "ङेरामो नुण्ने"त्यर्थलाभात्। तस्मात् "अण्नाद्याः"इति विधानसामथ्र्यात् "अतो गुणे"इति न प्रवर्तते इति दिक्।